भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 155, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 155

१४६ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ० ४८-४९ श्लो० ४१-४३। १-१८] ( भुवनविन्यासः)

एवं षडेते कथिता अनुद्वीपाः समन्ततः । भारतद्वीपदेशो वै दक्षिणे बहुविस्तरः ॥ ४१ एवमेकमिदं वर्षं बहुद्वीपमिहोच्यते । समुद्रजलसंभिन्नं खण्डं खण्डीकृतं स्मृतम् ॥ ४२ एवं चतुर्महाद्वीपः सान्तरद्वीपमण्डितः । सानुद्वीपः समाख्यातो जम्बूद्वीपस्य विस्तरः ॥ ४३ इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नामाष्टचत्वारिंशोऽध्यायः ॥ ४८ ॥ आदितः श्लोकानां समष्ट्यङ्काः-३५४५ अथैकोनपञ्चाशत्तमोऽध्यायः । भुवनविन्यासः ।

सूत उवाच- प्लक्षद्वीपं प्रवक्ष्यामि यथावदिह संग्रहात् । शृणुतेमं यथातत्त्वं ब्रुवतो मे द्विजोत्तमाः ॥ १ जम्बूद्वीपस्य विस्ताराद्द्विगुणस्तस्य विस्तरः । विस्तारात्त्रिगुणश्चास्य परिणाहः समन्ततः ॥ तेनाऽऽवृतः समुद्रोऽयं द्वीपेन लवणोदकः ॥ २ तत्र पुण्या जनपदाश्चिराच्च म्रियते प्रजा । कुत एव हि दुर्भिक्षं जराव्याधिभयं कुतः ॥ ३ तत्रापि पर्वताः शुभ्राः सप्तैव मणिभूषणाः । रत्नाकरास्तथा नद्यस्तासां नामानि वक्ष्यते( च्म्यहम् ) प्लक्षद्वीपादिषु त्वेषु सप्त सप्तसु सप्तसुः । ऋज्वायताः परिदिशं निविष्टाः पर्वता सदा ॥ ५ प्लक्षद्वीपे तु वक्ष्यामि सप्तद्वीपामहाचलान् । गोमेदकोऽत्र प्रथमः पर्वतो मेघसंनिभः ॥ ख्यायते तस्य नाम्ना वै वर्षं गोमेदकं तु तत् ॥ ६ द्वितीयः पर्वतश्चन्द्रः सर्वौषधिसमन्वितः । अधिभ्याममृतस्यार्थे ओषध्यस्तत्र संस्थिताः ॥ ७ तृतीयो नारदो नाम दुर्गशैलो महोच्छ्रयः । तत्राचले समुत्पन्नौ पूर्वं नारदपर्वतौ ॥ ८ चतुर्थस्तत्र वै शैलो दुन्दुभिर्नाम नामतः । शब्दमृत्युः पुरा तस्मिन्दुन्दुभिस्ताडितः सुरैः ॥ रज्जुदारो रज्जुमयः शाल्मलग्र्थासुरान्तकृत् ॥ ९ पञ्चमः सोमको नाम देवैर्ह्यमृतं पुरा । संभृतं त्त हतं चैव मातुरर्थे गरुत्मता ॥ १० षष्ठस्तु सुमना नाम स एवर्षभ उच्यते । हिरण्याक्षो वराहेण तस्मिञ्छेले निषूदितः ॥ ११ वैभ्राजः सप्तमस्तत्र भ्राजिष्णुः स्फाटिको महान् । यस्माद्विभ्राजतेऽर्चिर्भिर्वैभ्राजस्तेन स स्मृतः १२ तेषां वर्षाणि वक्ष्यामि नामतस्तु यथाक्रमम् । गोमेदं प्रथमं वर्षं नाम्ना शान्तभयं स्मृतम् ॥ १३ चन्द्रस्य शिखरं नाम नारदस्य सुखोदयम् । आनन्दं दुन्दुभेर्वर्षं सोमकस्य शिवं स्मृतम् ॥ क्षेमकमृषभस्यापि वैभ्राजस्य ध्रुवं तथा ॥ १४ एतेषु देवगन्धर्वाः सिद्धाश्च सह चारणैः । विहरन्ति रमन्ते च दृश्यमानास्तु तैः सह ॥ १५ तेषां नद्यश्च सप्तैव प्रतिवर्षं समुद्रगाः । नामतस्ताः प्रवक्ष्यामि सप्त गङ्गा महानदीः ॥ १६ (*अनुतप्ता सुतप्तैव निष्पापा मुदिता क्रतुः । अमृता सुकृता चैव सप्तैताः सरितां वराः ) ॥ १७ अभिगच्छन्ति ता नद्यस्ताभ्यश्चान्याः सहस्रशः । बहूदकाश्चौघवत्यो यतो वर्षति वासवः ॥ १८


* धनुश्चिह्नार्न्तर्गतग्रन्थः क. पुस्तके नास्ति ।

वायु पुराण · पृष्ठ 155, कुल 465 में से · BharatKosha