भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 163, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 163

१५४ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ५० श्लो० १४-४२] (ज्योतिष्प्रचारः)

पीतभौमं चतुर्थं तु पञ्चमं शर्करातलम् । पृष्ठं शिलामयं चैव सौवर्णं सप्तमं तलम् ॥ १४ प्रथमे तु तले ख्यातमसुरेन्द्स्य मन्दिरम् । नमुचेरिन्द्रचोर्हि महानादस्य चाऽऽलयम् ॥ १५ पुरं च शङ्कुकर्णस्य कबन्धस्य च मन्दिरम् । निष्कुलादस्य च पुरं प्रहृष्टजनसंकुलम् ॥ १६ राक्षसस्य च भीमस्य शूलदन्तस्य चाऽलयम् । लोहिताक्षकालिङ्गानां नगरं श्वापदस्य तु ॥ १७ धनंजयस्य च पुरं माहेन्द्रस्य महात्मनः । कालियस्य च नागस्य नगरं कलसस्य च ॥ १८ एवं पुरसहस्राणि नागदानवरक्षसाम् । तले ज्ञेयानि प्रथमे कृष्णभौमे न संशयः ॥ १९ द्वितीयेऽपि तले विप्रा दैत्येन्द्रस्य सुवक्षसः । महाजम्भस्य च तथा नगरं प्रथमस्य तु ॥ २० हयग्रीवस्य कृष्णस्य निकुम्भस्य च मन्दिरम् । शङ्खाख्येयस्य च पुरं नगरं गोमुखस्य च ॥ २१ राक्षसस्य च नीलस्य मेघस्य कथनस्य च । पुरं च कुकुपादरय महोष्णीषस्य चाऽऽलयम् ॥ २२ कम्बलस्य च नागस्य पुरमथतरस्य च । कद्रुपुत्रस्य च पुरं तक्षकस्य महात्मनः ॥ २३ एवं पुरसहस्राणि नागदानवरक्षसाम् । द्वितीयेऽस्मिंस्तले विप्राः पाण्डुभौमे न संशयः ॥ २४ तृतीये तु तले ख्यातं प्रह्लादस्म महात्मनः । अनुह्लादस्य च पुरं दैत्येन्द्रस्य महात्मनः ॥ २५ तारकाख्यस्य च पुरं पुरं त्रिशिरसस्तथा । शिशुमारस्य च पुरं हृष्टपुष्टजनाकुलम् ॥ २६ च्यवनस्य च विज्ञेयं राक्षसस्य च मन्दिरम् । राक्षसेन्द्रस्य च पुरं कुम्भिलस्य खरस्य च ॥ २७ विराधस्य च क्रूरस्य पुरमुल्कामुखस्य च । हेमकस्य च नागस्य तथा पाण्डुरकस्य च ॥ २८ मणिमन्त्रस्य च पुरं कपिलस्य च मन्दिरम् । नन्दस्य चोरगपतेर्विशालस्य च मन्दिरम् ॥ २९ एवं पुरसहस्राणि नागदानवराक्षसाम् । तृतीयेऽस्मिंस्तले विप्राः पीतभौमे न संशयः ॥ ३० चतुर्थे दैत्यसिंहस्य कालनेमेर्महात्मनः । गजकर्णस्य च पुरं नगरं कुञ्जरस्थ च ॥ ३१ राक्षसेन्द्रस्य च पुरं सुमालेर्बहुविस्तरम् । मुञ्जस्य लोकनाथस्य वृकवक्त्रस्य चाऽऽलयम् ॥ ३२ बहुयोजनसाहस्रं बहुपक्षिसमाकुलम् । नगरं वैनतेयस्य चतुर्थेऽस्मिन्सुरसातले ॥ ३३ पञ्चमे शर्कराभौमे बहुयोजनविस्तृते । विरोचनस्य नगरं दैत्यासिंहस्य धीमतः ॥ ३४ वैदूर्यस्याग्निजिह्वस्य हिरण्याक्षस्य चाऽऽलयम् । पुरं च विद्युज्जिह्वस्य राक्षसस्य च धीमतः ॥ ३५ महामेधस्य च पुरं राक्षसेन्द्रस्य शालिनः । कर्मीरस्य च नागस्य स्वस्तिकस्य जयस्य च ॥ ३६ एवं पुरसहस्राणि नागदानवरक्षसाम् । पञ्चमेऽपि तथा ज्ञेयं शर्करा निलये सदा ॥ ३७ षष्ठे तले दैत्यपतेः केसरेर्नगरोत्तमम् । सुपर्वणः पुलोम्नश्च नगरं महिषस्य च ॥ ३८ राक्षसेन्द्रस्य च पुरमुत्क्रोशस्य महात्मनः ॥ तत्राऽऽस्ते सुरसापुत्रः शतशीर्षो मुदा युतः । कश्यपस्य सुतः श्रीमान्वासुकिर्नाम नागराट् ॥ ३९ एवं पुरसहस्राणि नागदानवरक्षसाम् । षष्ठे तलेऽस्मान्विख्याते शिलाभौमे रसातले ॥ ४० सप्तमे तु तले ज्ञेयं पाताले सर्वपार्थिमे । बलेः प्रमादितं पुरं नरनारीसमाकुलम् ॥ ४१ असुराशीविषैः पूर्णमुद्धतैर्देवशत्रुभिः । मुचुकुन्दस्य दैत्मस्य तत्र वै नगर महत् ॥ ४२