वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 164, कुल 465 में से
संदर्भ में पढ़ें[अ०५०-श्लो०४३-७०] वायुपुराणम् १५५ (ज्योतिष्प्रचारः) अनेकैरदितिपुत्राणां समुदीर्णैर्महापुरैः । तथैव नागनगरैर्ऋद्धिमाद्भिः सहस्रशः ॥ ४३ दैत्यानां दानवानां च समुदीर्णैर्महापुरैः । उदीर्णैराक्षसावासैरनेकेश्च समाकुलम् ॥ ४४ पातालान्ते च विप्रेन्द्रा विस्तीर्णे बहुयोजने । आस्ते रक्तारविन्दाक्षो महात्मा ह्यजरामरः ॥ ४५ धौतशङ्खोदरवपुर्नीलवासा महाभुजः । विशालभोगो द्युतिमांश्चित्रमालाधरो बली ॥ ४६ रुक्मश्मश्रुजटादन्तन दीप्तास्येन विराजता । प्रभुर्मुखसहस्रेण शोभते वै स कुण्डली ॥ ४७ स जिह्वामालया देवो लोलज्वालानलार्चिषा । ज्वालामालापरिक्षिप्तः कैलास इव लक्ष्यते ॥ ४८ स तु नेत्रसहस्रेण द्विगुणेन विराजता । बालसूर्याभिताम्रेण शोभते स्निग्धमण्डलः ॥ ४९ तस्य कुन्देन्दुवर्णस्य अक्षमाला विराजते । तरुणादित्यमालेव श्वेतपर्वतमूर्धनि ॥ ५० जटाकरालो द्युतिमाँल्लक्ष्यते शयनासने । विस्तीर्ण इव मेदिन्यां सहस्राशिखरो गिरिः ॥ ५१ महाभोगैर्महाभागैर्महानागैर्महाबलैः । उपास्यते महातेजा महानागपतिः स्वयम् ॥ ५२ स राजा सर्वनागानां शेषो नाम महाद्युतिः । सा वैष्णवी हरितनुर्मर्यादायां व्यवस्थिता ॥ ५३ सप्तैवेते कथिता व्यवहार्या रसातलाः । देवासुरमहानागराक्षसाध्युषिताः सदा ॥ ५४ अतः परमनलोक्यमगम्यं सिद्धसाधुभिः । देवानामप्यविदितं व्यवहाराविवर्जितम् ॥ ५५ पृथिव्यामम्बुवायूनां नभसश्च द्विजोत्तमाः । महत्त्वमेवमृषिभिर्वर्ण्यते नात्र संशयः* ॥ ५६ अत ऊर्ध्वं प्रवक्ष्यामि सूर्याचन्द्रमसोर्गतिम् । सूर्याचन्द्रमसावेतौ भ्रमन्तौ यावदेव तु ॥ प्रकाशतः स्वभाभिस्तौ मण्डलाभ्यां समास्थितौ ॥ ५७ सप्तानां च समुद्राणां द्वीपानां तु स विस्तरः । विस्तरार्धं पृथिव्यास्तु भवेदन्यत्र बाह्यतः ॥ ५८ पर्याप्तपारिमाण्यं तु चन्द्रादित्यौ प्रकाशतः । पर्याप्तपारिमाण्येन भूमेस्तुल्यं दिवं स्मृतम् ॥ ५९ अवाति त्रीनिमाल्लोकाँन्यस्मात्सूर्यः परिभ्रमन् । अवधातुः प्रकाशार्थ्यो ह्यवनात्स रविः स्मृतः ॥ ६० अतः परं प्रवक्ष्यामि प्रमाणं चन्द्रसूर्ययोः । महितत्वान्महाशब्दो ह्यस्मिन्वर्षे निपात्यते ॥ ६१ अस्य भारतवर्षस्य विष्कम्भं तु सुविस्तरम् । मण्डलं भास्करस्याथ योजनानां निबोधत ॥ ६२ नवयोजनसाहस्रो विस्तारो भास्करस्य तु । विस्तारात्त्रिगुणश्चास्य परिणाहोऽथ मण्डलम् ॥ निष्कम्भो मण्डलस्यैव भास्कराद्विगुणः शशी ॥ ६३ अतः पृथिव्यां वक्ष्यामि प्रमाणं योजनैः सह । सप्तद्वीपसमुद्राया विस्तारो मण्डलं च यत् ॥ ६४ इत्येतदिह संख्यातं पुराणं परिमाणतः । तद्वक्ष्यामि प्रसंख्याय सांप्रतैरभिमानिभिः ॥ ६५ अभिमानिन्यतीता ये तुल्यास्ते सांप्रतैरह । देवा ये वै ह्यतीतास्ते रूपैर्नामभिरेव च ॥ ६६ तस्मात्तु सांप्रतैर्देवैर्वक्ष्यामि वसुधातलम् । दिवस्तु संनिवेशो वै सांप्रतैरेव कृत्स्नशः ॥ ६७ शतातार्धकोटिविस्तारा पृथिवी कृत्स्नतः स्मृता । तस्या बाधप्रमाणेन मेरोर्वै चतुरन्तरम् ॥ ६८ पृथिव्या बाधविस्तारो योजनायात्मकल्पितः । मेरुमध्यात्प्रतिदिशं कोटिरेका तु सा स्मृता ॥ ६९ तथा शतसहस्राणि एकोननवतिः पुनः । पञ्चाशच्च सहस्राणि पृथिव्याबाधविस्तरः ॥ ७०
* षट्पञ्चाशत्तमश्लोकान्तेऽध्यायसमाप्तिः ख. पुस्तके वर्तते ।