वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 162, कुल 465 में से
संदर्भ में पढ़ें[अ० ४९-५० श्लो० १७९ १८६।१-१३] वायुपुराणम् १५३
(ज्योतिष्प्रचारः)
जन्तूनामिह संस्कारो भूतेष्वन्तर्गतो मतः । प्रत्याख्याय च भूतानि कार्योत्पत्तिर्न विद्यते ॥ १७९
तस्मान्पारिमिता भेदाः स्मृताः कार्यात्मकास्तु ते । करणात्मकास्तथैव स्युर्भेदा ये महदादयः ॥ १८०
इत्येष संनिवेशो वो मया प्रोक्तो विभागशः । सप्तद्वीपसमुद्राया याथातथ्येन वै द्विजाः ॥ १८१
विस्तारान्मण्डलाच्चैव प्रसंख्यातेन चैव हि । वैश्वरूपं प्रधानस्य परिमाणैकदेशिकम् ॥ १८२
अधिष्ठानं भगवतो यस्य सर्वमिदं जगत् । एवं भूतगणाः सप्त संनिविष्टाः परस्परम् ॥ १८३
एतावान्संनिवेशस्तु मया शक्यः प्रभाषितुम् । एतावदेव श्रोतव्यं संनिवेशे तु पार्थिव ॥ १८४
सप्त प्रकृतयस्त्वेता धारयन्ति परस्परम् । तास्वल्पपरिमाणेन प्रसंख्यातुमिहोच्यते ॥ १८५
असंख्येयाः प्रकृतयस्तिर्यगूर्ध्वमधश्च याः ॥
तारकासंनिवेशश्च यावद्दिव्यं तु मण्डलम् । मर्यादासंनिवेशस्तु भूमेस्तदनुमण्डलम् ॥ १८६
अतः परं प्रवक्ष्यामि पृथिव्यां वै द्विजोत्तमाः ॥
इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नामैकोनपञ्चाशोऽध्यायः ॥ ४९ ॥
आदितः श्लोकानां समष्टयङ्काः—३६३१
अथ पञ्चाशोऽध्यायः।
ज्योतिष्प्रचारः ।
सूत उवाच--
अधः प्रमाणमूर्ध्वं च वर्ण्यमानं निबोधत । पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥ १
अनन्तधातयो ह्येते व्यापकास्तु प्रकीर्तिताः ॥ २
जननी सर्वभूतानां सर्वभूतधरा धरा । नानाजनपदाकीर्णा नानाधिष्ठानपत्तना ॥ ३
नानानदनदीशैला नैकजातिसमाकुला । अनन्ता गीयते देवी पृथिवी बहुविस्तरा ॥ ४
नदीनदसमुद्रस्थास्तथा क्षुद्राश्रयाः स्थिताः । पर्वताकाशसंस्थाश्च अन्तर्भूमिगताश्च याः ॥ ५
आपोऽनन्ताश्च विज्ञेयास्तथाऽग्निः सर्वलौकिकः । अनन्तः पठ्यते चैव व्यापकः सर्वसंभवः ॥ ६
तथाऽऽकाशमनालम्बं रम्यं नानाश्रयं स्मृतम् । अनन्तं पठितं सर्वं वायुश्चाऽऽकाशसंभवः ॥ ७
आपः पृथिव्यामुदके पृथिवी चोपरि स्थिता । आकाशञ्चापरमधः पुनर्भूमिः पुनर्जैलम् ॥ ८
एवमन्तम(न्तो ह्य)नन्तस्य भौतिकस्य न विद्यते । पुरा सुरैरभिहितं निश्चितं तु निबोधत ॥ ९
भूमिर्जंलमथाऽऽकाशमिति ज्ञेया परम्परा । स्थितिरैषा तु विज्ञेया सप्तमेऽस्मिन्रसातले ॥ १०
दशयोजनसाहस्रमेकभौमं रसातलम् । साधुभिः परिविख्यातमेकैकं बहुविस्तरम् ॥ ११
प्रथममतलं चैव सुतलं तु ततः परम् । ततः परतरं विद्याद्वितलं बहुदिस्तरम् ॥ १२
ततो गभस्तलं नाम परतश्च महातलम् । श्रीतलं च ततः पाऽऽहुः पातालं सप्तमं स्मृतम् ॥ १३
कृष्णभौमं च प्रथमं भूमिभागं च कीर्तितम् । पाण्डुभौमं द्वितीयं तु तृतीयं रक्तमृत्तिकम् ॥
२०