भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 161, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 161

१५२ श्रीमद्वैपायनमुनिप्रणीतम्— [अ०४१श्लो० १५४-१७८] ( भुवनविन्यासः )

बाह्यतो घनतोयस्य तिर्यगूर्ध्वानुमण्डलम् । धार्यमाणं समन्तात्तु तिष्ठते घनतेजसा ॥ १५४ अयोगुडनिभो वह्निः समन्तान्मण्डलाकृतिः । समन्ताद्धनवातेन धार्यमाणः स तिष्ठति ॥ घनवातस्तथाऽऽकाशं धारयाणस्तु तिष्ठति ॥ १५५ भूतादिश्च तथाऽऽकाशं भूताद्यं चाप्यसौ महान् । महान्व्याप्तो ह्यनन्तेन अव्यक्तेन तु धार्यते ॥ अनन्तमपरिव्यक्तं दशधा सूक्ष्म एव च । अनन्तमकृतात्मानमनादिधनं च तत् ॥ १५७ अतीत्य परतो घोरमनालम्बमनामयम् । नैकयोजनसाहस्रं विप्रकृष्टं तमोवृतम् ॥ १५८ तम एव निरालोकममर्यादमदेशिकम् । देवानामप्यविदितं व्यवहारविवर्जितम् ॥ १५९ तमसोऽन्ते च विख्यातमाकाशान्ते च भास्वरम् । मर्यादायामतस्तस्य शिवस्याऽऽयतनं महत् ॥ त्रिदशानामगम्यं तु स्थानं दिव्यमिति श्रुतिः । महतो देवदेवस्य मर्यादायां व्यवस्थितम् ॥ १६१ चन्द्रादित्यावतप्तास्तु ये लोकाः प्रथिता बुधैः । ते लोका इत्यभिहिता जगतश्च न संशयः ॥ १६२ रसातलतलात्सप्त सप्तैवोर्ध्वतलाः क्षितौ । सप्त स्कन्धास्तथा वायोः सप्तब्रह्मसदना द्विजाः ॥ १६३ आपातालाद्दिवं यावदत्र पञ्चविधा गतिः । प्रमाणमेतज्जगत एष संसारसागरः ॥ १६४ अनाद्यन्ता प्रथात्येवं नैकजातिसमुद्भवा । विचित्रा जगतः सा वै प्रवृत्तिरनवस्थिता ॥ १६५ यथैतद्द्योतिकं नाम निसर्गबहुविस्तरम् । अतीन्द्रियैर्महाभागैः सिद्धैरपि न लक्ष्यते ॥ १६६ पृथिव्यां चाग्निवायूनां महत्तस्तमसस्तथा । ईश्वरस्य तु देवस्य अनन्तस्य द्विजोत्तमाः ॥ १६७ क्षयो वा परिमाणं वा अन्तो वाऽपि न विद्यते । अनन्त एष सर्वत्र सर्वस्थानेषु पठ्यते ॥ तस्य चोक्तं मया पूर्वं तस्मिन्नामानुकीर्तने ॥ १६८ य एष शिवनाम्ना हि तद्वः कार्त्स्न्येन कीर्तितम् । स एष सर्वत्र गतः सर्वस्थानेषु पूज्यते ॥ १६९ भूमौ रसातले चैव आकाशे पवनेऽनले । अर्णवेषु स सर्वेषु दिवि चैव न संशयः ॥ १७० तथा तपसि विज्ञेय एष एव महाद्युतिः । अनेकधा विभक्ताङ्गो महायोगी महेश्वरः ॥ सर्वलोकेषु लोकेश इज्यते बहुधा प्रभुः ॥ १७१ एवं परस्परोत्पन्ना धार्यन्ते च परस्परान् । आधाराधेयभावेन विकारास्ते विकारिणः ॥ १७२ पृथ्व्यादयो विकारास्ते परिच्छिन्नाः परस्परम् । परस्पराधिकाश्चैव प्रविष्टाश्च परस्परम् ॥ १७३ यस्माद्विष्टाश्च तेऽन्योन्यं तस्मात्स्थैर्यमुपागताः । प्रागासन्द्यविशेषास्तु विशेषानान्योन्यवेशनात् ॥ पृथिव्याद्याश्च वाय्वन्ताः परिच्छिन्नास्त्यस्तु ते ॥ १७४ गुणापचयसारेण परिच्छेदो विशेषतः । शेषाणां तु परिच्छेदः सौम्यानेह विभाव्यते ॥ १७५ भूतेभ्यः परतस्तेभ्यो ह्यालोकः परतः स्मृतः । भूतान्यालोक आकाशे परिच्छिन्नानि सर्वशः ॥ १७६ पात्रे महति पात्राणि यथैवान्तर्गतानि तु । भवन्त्यन्योन्यहीनानि परस्परसमाश्रयात् ॥ तथा ह्यालोक आकाशे भेदास्त्वन्तर्गता मताः ॥ १७७ कृत्स्नान्येतानि चत्वारि अन्योन्यस्याधिकानि तु । यावदेतानि भूतानि तावदुत्पत्तिरुच्यते ॥ १७८