भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 150, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 150

[अ० ४६-४७ श्लो० ३३-३७।१-१६] वायुपुराणम् १४१

( भुवनविन्यासः ) रक्षःपिशाचा यक्षाश्च सर्वे हैमवताः स्मृतः। हेमकूटे तु गन्धर्वा विज्ञेयाः साप्सरोगणाः ॥ ३३
सर्वे नागास्तु निषधे शेषवासुकितक्षकाः। महामेरौ त्रयस्त्रिंशद्भवन्ते यज्ञियाः सुराः ॥
नीले तु वैडूर्यमये सिद्धब्रह्मर्षयोऽमलाः ॥ ३४
दैत्यानां दानवानां च श्वेतपर्वत उच्यते । शृङ्गवान्पर्वतः श्रेष्ठः पितॄणां प्रतिसंचरः ॥ ३५
नवस्वेतेषु वर्षेषु यथाभागस्थितेषु वै । भूतान्यूषुर्विष्ठानि गतिमन्ति ध्रुवाणि च ॥ ३६
तेषां विवृद्धिर्बहुला दृश्यते देवमानुषी । न शक्या परिसंख्यातुं श्रद्धेयाऽनुबुभूषता ॥ ३७

इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नाम षट्चत्वारिंशोऽध्यायः ॥ ४६ ॥
आदितः श्लोकानां समष्ट्यङ्काः-३४२२


अथ सप्तचत्वारिंशोऽध्यायः ।

भुवनविन्यासः ।

सूत उवाच—
सव्ये हिमवतः पार्श्वे कैलासो नाम पर्वतः । तस्मिन्निवसति श्रीमान्कुबेरः सह रक्षसः ॥ १
अप्सरोगणसंयुक्तो मोदते ह्यलकाधिपः ॥ २
कैलासपादात्सम्भूतं पुण्यं शीतजलं शुभम् । मन्दं नाम्ना कुमुद्वन्तं शरदम्वुदसंनिभम् ॥ ३
तस्माद्दिव्या प्रभवति नदी मन्दाकिनी शुभा । दिव्यं च नन्दनं तत्र तस्यास्तीरे महद्वनम् ॥ ४
प्रागुत्तरेण कैलासाद्दिव्यसत्त्वौषधं गिरिम् । सुरधातुमयं चित्रं सुवर्णं पर्वतं प्रति ॥ ५
चन्द्रप्रभो नाम गिरिः स शुद्धो रत्नसंनिभः । तस्य पादे महद्दिव्यमच्छोदं नाम तत्सरः ॥ ६
तस्माद्दिव्या प्रभवति सच्छोदा नाम निम्नगा । तस्यास्तीरे महद्दिव्यं वनं चैत्ररथं स्मृतम् ॥ ७
तस्मिन्गिरौ निवसति मणिभद्रः सहानुगः । यक्षसेनापतिः क्रूरगुह्यकैः परिवारितः ॥ ८
पुण्या मन्दाकिनी चैव निम्नगाच्छोदिका तथा । महीमण्डलमध्येन प्रविष्टे ते महोदधिम् ॥ ९
कैलासाद्दक्षिणप्राच्यां शिवसत्त्वौषधिं गुरुम् । मनःशिलामयं दिव्यं पिशाचं पर्वतं प्रति ॥ १०
लोहितो हेमशृङ्गस्तु गिरिः सूर्यप्रभो महान् । तस्य पादे महद्दिव्यं लोहितं नाम तत्सरः ॥ ११
तस्मात्पुण्यः प्रभवति लौहित्यः सदनो महान् । देवारण्यं विशोकं च तस्य तीरे महावनम् ॥ १२
तस्मिन्गिरौ निवसति यक्षो मणिवरो वशी । सौम्यैः सुधार्मिकैश्चैव गुह्यकैः परिवारितः ॥ १३
कैलासाद्दक्षिणे पार्श्वे क्रूरसत्त्वौषधं गिरिम् । वृत्रकायात्किलोत्पन्नमञ्जनं त्रिककुं प्रति ॥
सर्वधातुमयस्तत्र सुमहान्वैद्युतो गिरिः । तस्य पादे सरः पुण्यं मानसं सिद्धसेवितम् ॥ १४
तस्मात्प्रभवते पुण्या सरयूर्लोकभावनी । तस्यास्तीरे वनं दिव्यं वैभ्राजं नाम विश्रुतम् ॥ १५
कुबेरानुचरस्तत्र प्रहेतुतनयो वशी । ब्रह्मपातो निवसति राक्षसोऽनन्तविक्रमः ॥
अन्तरिक्षचरैर्घोरैर्यातुधानशतैर्वृतः ॥ १६