भारतकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 149, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 149

१४० श्रीमद्वैपायनमुनिप्रणीतम्- [अ०४६श्लो०५-३२] (भुवनविन्यासः)

दश वर्षसहस्राणि स्थितिः किंपुरुषे स्मृता। सुवर्णवर्णाश्च नरा स्त्रियश्चाप्सरसोपमाः ॥ ५ अनामया ह्यशोकाश्च सर्वे ते शुद्धमानसाः। जायन्ते मानवास्तत्र निस्तप्तकनकप्रभाः ॥ ६ वर्षे किंपुरुषे पुण्ये प्लक्षो मधुवहः शुभः। तस्य किंपुरुषाः सर्वे पिबन्ति रसमुत्तमम् ॥ ७ अतः परं किंपुरुषाद्धारिवर्षः प्रवक्ष्यते । महारजतसंकाशा जायन्ते तत्र मानवाः ॥ ८ देवलोकाच्च्युताः सर्वे देवरूपाश्च सर्वशः। हरिवर्षे नराः सर्वे पिबन्तीक्षुरसं शुभम् ॥ ९ एकादश सहस्राणि वर्षाणां तु मुदा युताः । हरिवर्षे तु जीवन्ति सर्वे मुदितमानसाः ॥ न जरा बाधते तत्र जीर्यन्ति न च ते नराः ॥ १० मध्यमं यन्मया प्रोक्तं नाम्ना वर्षमिलावृतम् । न तत्र सूर्यस्तपति न च जीर्यन्ति मानवाः ॥ ११ चन्द्रसूर्यौ सनक्षत्रावप्रकाशाविलावृते । पद्मप्रभाः पद्मवर्णाः पद्मपत्रनिभेक्षणाः ॥ पद्मपत्रसुगन्धाश्च जायन्ते तत्र मानवाः ॥ १२ जम्बूरसफलाहारा ह्यनिष्यन्दाः सुगन्धिनः । मनस्विनो भुक्तभोगाः सत्कर्मफलभागिनः ॥ १३ देवलोकाच्च्युताः सर्वे जायन्ते ह्यजरामराः । त्रयोदश सहस्राणि वर्षाणां ते नरोत्तमाः ॥ १४ आयुष्प्रमाणं जीवन्ति ये तु वर्षे त्विलावृते । मेरोः प्रतिदिशं ते तु नवसाहस्रविस्तृते ॥ १५ योजनानां सहस्राणि षड्विंशस्तस्य विस्तरः । चतुरस्रः समन्ताच्च शरावाकारसंस्थितः ॥ १६ मेरोस्तु पश्चिमे भागे नवसाहस्रसंमिते । चतुस्त्रिंशत्सहस्राणि गन्धमादनपर्वतः ॥ १७ उदग्दक्षिणतश्चैव आनीलनिषधायतः। चत्वारिंशत्सहस्राणि परिवृद्धो महीतलात् ॥ सहस्रमवगाढस्तु तावदेव तु विष्ठितः ॥ १८ पूर्वेण माल्यवाञ्छैलस्तत्प्रमाणः प्रकीर्तितः । दक्षिणेन तु नलिस्य निषधस्योत्तरेण तु ॥ १९ तेषां मध्ये महामेरुः सुप्रमाणः प्रकीर्तितः। सर्वेषामेव शैलानामवगाढो यथा भवेत् ॥ २० विस्तरस्तत्प्रमाणः स्याद्यायामे नियतः स्मृतः । वृत्तभावात्समुद्रस्य महीमण्डलभावनः ॥ २१ आयामाः परिहीयन्ते चतुरस्राः समस्ततः । अनावृत्ताश्चतुष्केण भिद्यन्ते मध्यभागतः ॥ २२ प्रभिन्नाञ्जनसंकाशा जम्बूरसवती नदी । मेरोस्तु दक्षिणे पार्श्वे निषधस्योत्तरेण तु ॥ २३ सुदर्शनो नाम महाजम्बूवृक्षः सनातनः । नित्यपुष्पफलोपेतः सिद्धचारणसेवितः ॥ २४ तस्य नाम्ना समाख्यातो जम्बूद्वीपे वनस्पतिः । योजनानां सहस्रं तु शतं चान्यन्महाद्रुमः ॥ उत्सेधो वृक्षराजस्य दिवं स्पृशति सर्वशः ॥ २५ अरत्नीनां शतान्वष्टावेकषष्ट्यधिकानि तु । फलप्रमाणं संख्यातमृषिभिस्तत्त्वदर्शिभिः ॥ २६ पतमानानि तान्युर्व्यां कुर्वन्ति विपुलं स्वनम् । तस्या जम्बूवाः फलरसो नदीभूय प्रसर्पति ॥ २७ मेरुं प्रदक्षिणीकृत्य जम्बूवृक्षं विशत्यथः । ते पिबन्ति सदा हृष्टा जम्बूरसफलावृताः ॥ २८ जम्बूरसफलं पीत्वा न जरां प्राप्नुवन्ति ते । न क्रोधं न च रोगं तु न च मृत्युं तथाविधम् ॥ २९ तत्र जाम्बूनदं नाम कनकं देवभूषणम् । इन्द्रगोपकसंकाशं जायत भास्वरं तु तत् ॥ ३० सर्वेषां वर्षवृक्षाणां शुभः फलरसस्तु सः । स्कन्नं भवति तच्छुक्रं कनकं देवभूषणम् ॥ ३१ तषां मूत्रं पुरीषं च दिक्षु सर्वासु भागशः । ईश्वरानुग्रहाद्भूमिर्मृतांश्च ग्रसते तु तान् ॥ ३२