वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 148, कुल 465 में से
संदर्भ में पढ़ें[अ०४५-४६श्लो०१२३-१३७।१-४] वायुपुराणम्। १३९
( भुवनविन्यासः )
ब्रह्मोत्तराः प्रविजया भार्गवा गेयमर्थकाः। प्राग्ज्योतिषाश्च मुण्डाश्च विदेहास्ताम्रलिप्तकाः ॥
माला मगधगोविन्दाः प्राच्यां जनपदाः स्मृताः ॥ १२३
अथापरे जनपदा दक्षिणापथवासिनः। पाण्ड्याश्च केरलाश्चैव चौल्याः कुल्यास्तथैव च ॥ १२४
सेतुका मूषिकाश्चैव कुमना वनवासिकाः। महाराष्ट्रा माहिषकाः कलिङ्गाश्चैव सर्वशः ॥ १२५
अ( आ )भीराः सहचैषीका आटव्याश्च वराश्च ये। पुलिन्दा विन्ध्यमूलीका वैदर्भा दण्डकै सह ॥
पौनिका मौनिकाश्चैव अस्मका भोगवर्धनाः। नैर्णिकाः कुन्तला अन्ध्रा उद्भिदा नलकालिकाः ॥
दाक्षिणात्याश्च वै देशा अपरांस्तान्निबोधत। सूर्पाकाराः कोलवना दुर्गाः कालीतकैः सह ॥ १२८
पुलेयाश्च सुरालाश्च रूपसास्तापसैः सह । तथा सुरसिताश्चैव सर्वे चैव परक्षराः ॥ १२९
नासिक्याद्याश्च ये चान्ये ये वै चान्तरनर्मदाः। भानुकच्छाः समाहेयाः सहसा शाश्वतैरपि ॥ १३०
कच्छीयाश्च सुराष्ट्राश्च आनर्त्ताश्चार्बुदैः सह। इत्येते संपरीताश्च शृणुध्वं विन्ध्यवासिनः ॥ १३१
मालवाश्च करूषाश्च रोकलाश्चोत्कलैः सह। उत्तमार्णा दशार्णाश्च भोजाः किष्किन्धकैः सह ॥
तोसलाः कोसलाश्र्वैव त्रैपुरा वैदिकास्तथा। तुमुरास्तुम्बुराश्चैव षट्सुरा निषधैः सह ॥ १३३
अनूपास्तुण्डिकेराश्च वीतिहोत्रा ह्यवन्तयः। एते जनपदाः सर्वे विन्ध्यपृष्ठनिवासिनः ॥ १३४
अतो देशान्प्रवक्ष्यामि पर्वताश्रयिणश्च ये। निगर्हरा हंसमार्गाः क्षुपणास्तङ्गणाः खसाः ॥ १३५
कुशप्रावरणाश्चैव हूणा दर्वाः सहूदकाः। त्रिगर्ता मालवाश्चैव किरातास्तामसैः सह ॥ १३६
चत्वारि भरते वर्षे युगानि कवयो विदुः। कृतं त्रेता द्वापरं च कलिश्चेति चतुष्टयम् ॥
तेषां निसर्गं वक्ष्यामि उपरिष्टान्निबोधत ॥ १३७
इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नाम पञ्चचत्वारिंशोऽध्यायः ॥ ४५ ॥
आदितः श्लोकानां समष्ट्यङ्काः-- ३३८५
अथ षट्चत्वारिंशोऽध्यायः।
भुवनविन्यासः।
(*सूत उवाच--
एतच्छ्रुत्वा तु ऋषय उत्तरं पुनरेव ते। शुश्रूषवा मुदा युक्ताः पप्रच्छुर्लोमहर्षणम् ॥ १
ऋषय ऊचुः--
यच्च किंपुरुषं वर्षे हरिवर्षं तथैव च। आचक्ष्व नो यथा तत्त्वं कीर्तितं भारतं त्वया ॥ २
पृष्टस्त्विदं यथा विप्रैर्यथाप्रक्षं विशेषतः। उवाच मुनिनिर्दिष्टं पुराणं विहितं यथा ॥ ३
सूत उवाच--
शुश्रूषा यत्र वो विप्रास्तच्छृणुध्वं मुदा युताः। प्लक्षखण्डः किंपुरुषे सुमहान्नन्दनोपमः ॥ ४
*इदं नास्ति ग. घ. ङ. पुस्तकेषु।