वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 169, कुल 465 में से
संदर्भ में पढ़ें१६० श्रीमद्वैपायनमुनिप्रणीतम्- [अ०५० श्लो० १५६-१७८] (ज्योतिष्प्रचारः)
दक्षिणे नागवीथ्यायां लोकालोकस्य चोत्तरम्। लोकसंतारको ह्येष वैश्वानरपथाद्बहिः ॥ १५६ पृष्ठं यावत्प्रभा सौरी पुरस्तात्संप्रकाशते। पार्थिवो. पृष्ठतस्तावल्लोकालोकस्य सर्वतः ॥ १५७ योजनानां सहस्राणि दशोर्ध्वं तूच्छ्रितो गिरिः। प्रकाशाश्वाप्रकाशाश्व सर्वतः परिमण्डलः ॥ १५८ नक्षत्रचन्द्रसूर्याश्च ग्रहास्तारागणैः सह। अभ्यन्तरं प्रकाशन्ते लोकलोकस्य वै गिरेः ॥ १५९ एतावानेव लोकस्तु निरालोकस्त्वतः परम्। लोकालोक एकधा तु निरालोकस्त्वनेकधा ॥ १६० लोकालोकं तु संधत्ते यस्मात्सूर्यः परिग्रहम्। तस्मात्संध्येति तामाहुरुषाव्युष्ट्योर्यदन्तरम् ॥ उषा रात्रिः स्मृता विप्रैर्व्युष्टिश्चापि त्वहः स्मृतम् ॥ १६१ सूर्ये हि ग्रसमानानां संध्याकाले हि रक्षसाम्। प्रजापतिनियोगेन शापस्तेषां दुरात्मनाम् ॥ अक्षयत्वं च देहस्य प्रापिता मरणं तथा ॥ १६२ तिस्रः कोट्यस्तु विख्याता मन्देहा नाम राक्षसाः। प्रार्थयन्ति सहस्रांशुमुद्यन्तं दिने दिने ॥ तापयन्तो दुरात्मानः सूर्यमिच्छन्ति खादितुम् ॥ १६३ अथ सूर्यस्य तेषां च युद्धमासीत्सुदारुणम्। ततो ब्रह्मा च देवाश्च ब्राह्मणाश्चैव सत्तमाः ॥ संध्येति समुपासन्तः क्षेपयन्ति महाजलम् ॥ १६४ ओंकारब्रह्मसंयुक्तं गायत्र्या चाभिमन्त्रितम्। तेन दह्यन्ति ते दैत्या वज्रभूतेन वारिणा ॥ १६५ (×अग्निहोत्रे हूयमाने समन्ताद्ब्राह्मणाहूतिः। सूर्यज्योतिः सहस्रांशुः सूर्यो दीप्यति भास्करः) ॥ १६६ ततः पुनर्महातेजा महाद्युतिपराक्रमः। योजनानां सहस्राणि ऊर्ध्वमुत्तिष्ठते शतम् ॥ १६७ ततः प्रयाति भगवान्ब्राह्मणैः परिवारितः। वालखिल्यैश्च मुनिभिः कृतार्थैः 'समरीचिभिः ॥ १६८ काष्ठा निमेषा दश पञ्च चैव त्रिंशच्च काष्ठा गणयेत्कलान्तम्। त्रिंशत्कलाश्चैव भवेन्मुहूर्तस्तैस्त्रिंशता रात्र्यहनी समेते ॥ १६९ हासवृद्धी त्वहर्भागैर्दिवसानां यथाक्रमम्। संध्या मुहूर्तमानं तु हासे वृद्धौ समा स्मृता ॥ १७० लेखाप्रभृत्याऽऽदित्ये त्रिमुहूर्तागते तु वै। प्रातस्तनः स्मृतः कालो भागस्त्वह्नः स पञ्चमः ॥ १७१ तस्मात्प्रातस्तनात्कालात्त्रिमुहूर्तस्तु संगवः। मध्याह्नस्त्रिमुहूर्तस्तु तस्मात्कालाच्च संगवात् ॥ १७२ तस्मान्मध्यंदिनात्कालादपराह्न इति स्मृतः। त्रय एव मुहूर्तास्तु तस्मात्कालाच्च मध्यमात् ॥ १७३ अपराह्ने व्यतीपाते कालः सायाह्न उच्यते। दशपञ्च मुहूर्ताद्धि मुहूर्तास्त्रय एव च ॥ १७४ दशपञ्चमुहूर्तं वै अहर्विषुवति स्मृतम् । ÷ दशपञ्चमुहूर्ताद्धि रात्रिंदिवमिति स्मृतम् ॥ १७५ वर्धते हसते चैव अयनं दक्षिणोत्तरे। अहस्तु ग्रसते रात्रिं रात्रिस्तु ग्रसते त्वहः ॥ १७६ शरद्वसन्तयोर्मध्ये विषुवं तद्विभाव्यते । अहोरात्रं कलाश्चैव समं सोमः समश्नुते ॥ १७७ तथा पञ्चदशाहानि पक्ष इत्याभिधीयते। द्वौ पक्षौ च भवेन्मासो द्वौ मासावन्तरावृतुः ? ॥ ऋतुत्रयमयनं स्याद्द्वेऽयने वर्षमुच्यते ॥ १७८
× धनुश्चिह्नान्तर्गतग्रन्थ क. पुस्तके नास्ति । ÷ इदमर्धं नास्ति ख. ग. घ. ङ. पुस्तकेषु ।