वायु पुराण
Vayu Purana
महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)
पृष्ठ 170, कुल 465 में से
संदर्भ में पढ़ें[अ० ५० श्लो० १७९-२०२] वायुपुराणम् १६१
(ज्योतिष्प्रचारः)
निमेषादिकृतः कालः काष्ठाया दश पञ्च च। कलायास्त्रिंशतः काष्ठा मात्राशीतिद्वयात्मिका ॥ १७९
शतघ्नैकोनकास्त्रिंशन्मात्रात्रिंशत्षडुत्तरा। द्विषष्टिभाक्तयोर्विशन्मात्रायां च चला भवेत् ॥ १८०
चत्वारिंशत्सहस्त्राणि शतान्यष्टौ च विद्युतः। सप्ततिं चापि तत्रैव नवतिं विद्धिनिश्चये ॥ १८१
चत्वार्य्येव शतान्याहुर्विंशतौ वैधसे युगे। चरांशो ह्येष विज्ञेयो नालिका चात्र कारणम् ॥ १८२
संवत्सरादयः पञ्च चतुर्मानविकल्पितः। निश्चयः सर्वकालस्य युगमित्यभिधीयते ॥ १८३
संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः। इद्वत्सरस्तृतीयस्तु चतुर्थश्चानुवत्सरः ॥
पञ्चमो वत्सरस्तेषां कालस्तु परिसंज्ञितः ॥ १८४
विंशं शतं भवेत्पूर्णं पर्वाणां तु रवेर्युगम्। एतान्यष्टादशार्त्तिं (त्रिं) शदुदयो भास्करस्य च ॥ १८५
ऋतवस्त्रिंशतः सारा अयनानि दशैव तु। पञ्चविंशच्छतं चापि षष्टिर्मासाश्च भास्करः ॥ १८६
त्रिंशदेव त्वहोरात्रं स तु मासश्च भास्करः। एकषष्टिस्त्वहोरात्रा दनुरेको विभाव्यते ॥ १८७
अह्वां तु त्र्यधिकाशीतिः शतं चाप्यधिकं भवेत्। मानं तच्चित्रभानोस्तु विज्ञेयं भुवनस्य तु ॥ १८८
सौरसौम्यं तु विज्ञेयं नाक्षत्रं सावनं तथा। नामान्येतानि चत्वारि यैः पुराणं विभाव्यते ॥ १८९
श्वेतस्योत्तरतश्चैव शृङ्गवान्नाम पर्वतः। त्रीणि तस्य तु शृङ्गाणि स्पृशन्तीव नभस्तलम् ॥ १९०
तैश्चापि शृङ्गवान्नाम सर्वतश्चैव विश्रुतः। एकमार्गश्च विस्तारो विष्कम्भश्चापि कीर्त्तितः ॥ १९१
तस्य वै पूर्वतः शृङ्गं मध्यमं तद्धिरण्मयम्। दक्षिणं रजतं चैव शृङ्गं तु स्फटिकप्रभम् ॥ १९२
सर्वरत्नमय चैकं शृङ्गममुत्तरमुत्तमम्। एवं कूटैस्त्रिभीः शैलः शृङ्गवानिति विश्रुतः ॥ १९३
यत्तद्विषुवतं शृङ्गं तदर्कः प्रतिपद्यते। शरद्वसन्तयोर्मध्ये मध्यमां गतिमास्थितः ॥
अहस्तुल्यामथा रात्रिं करोति तिमिरापहः ॥ १९४
हरिताश्च हया दिव्यास्ते नियुक्ता महारथे। अनुलिप्ता इवाऽऽभाति पद्मरक्तैर्गभस्तिभिः ॥ १९५
मेषान्ते च तुलान्ते च भास्करोदयतः स्मृताः। मुहूर्त्ता दश पञ्चैव अहो रात्रिश्च तावती ॥ १९६
कृत्तिकानां यदा सूर्यः प्रथमांशगतो भवेत्। विशाखानां तथा ज्ञेयश्चतुर्थांशे निशाकरः ॥ १९७
विशाखायां यदा सूर्य्यश्चरतेऽशं तृतीयकम्। तदा चन्द्रं विजानीयात्कृत्तिकाशिरसि स्थितम् ॥ १९८
विषुवन्तं तदा विद्याद्देवमाहुर्महर्षयः। सूर्येण विषुवं विद्यात्कालं सोमेन लक्षयेत् ॥ १९९
समा रात्रिरहश्चैव यदा तद्विषुवद्भवेत्। तदा दानानि देयानि पितृभ्यो विषुवत्यपि ॥
ब्राह्मणेभ्यो विशेषेण मुखमेतत्तु दैवतम् ॥ २००
ऊनरात्राधिमासौ च कलाकाष्ठामुहूर्त्तकाः। पौर्णमासी तथा ज्ञेया अमावास्या तथैव च ॥
सिनीवाली कुहूश्चैव राका चानुमतिस्तथा ॥ २०१
तपस्तपस्यौ मधुमाधवौ च शुक्रः शुचिश्चायनमुत्तरं स्यात्।
नभो नभस्योऽथ इषुः सहोर्जः सहः सहस्याविति दक्षिणं स्यात् ॥ २०२
२१