BharatKosha
Back to the archive

वायु पुराण

Vayu Purana

by महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा

Source: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (origin)

DevanagariHindipublished465 pages
Page 201Permalink

५९२ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०५७श्लो०७०-९१ (यज्ञवर्णनम्)

भार्या पुरोहितश्चैव सेनानी रथकृच्च यः। मन्त्र्यश्वः कलभश्चैव प्राणिनः संप्रकीर्तिताः॥ ७० रत्नान्येतानि दिव्यानि संसिद्धानि महात्मनाम्। चतुर्दश विधेयानि सर्वेषां चक्रवर्तिनाम्॥ ७१ विष्णोरंशेन जायन्ते पृथिव्यां चक्रवर्तिनः। मन्वन्तरेषु सर्वेषु अतीतानागतेषु वै॥ ७२ (*भूतभव्यानि यानीह वर्तमानानि यानि च। त्रेतायुगादिकेष्वेव जायन्ते चक्रवर्तिनः॥ ७३ भद्राणीमानि तेषां वै भवन्तीह महीक्षिताम्।) अद्भुतानि च चत्वारि बलं धर्मः सुखं धनम्॥ ७४ अन्योन्यस्याविरोधेन प्राप्यन्ते वै नृपैः समम्। अर्थो धर्मश्च कामश्च यशो विजय एव च॥ ७५ ऐश्वर्येणाणिमाद्येन प्रभुशक्त्या तथैव च। अनेन तपसा चैव ऋषीनभिभवन्ति च॥ बलेन तपसा चैव देवदानवमानुषान्॥ ७६ लक्षणैश्चापि जायन्ते शरीरस्थैर्मानुषैः। केशस्थिता ललाटोर्णा जिह्वा चाऽस्यप्रमार्जनी। ताम्रप्रभोष्ठदन्तोष्ठाः श्रीवत्साथोर्ध्वरोमशाः॥ ७७ आजानुबाहवश्चैव जालहस्ता वृषाङ्गिताः। न्यग्रोधपरिणाहाश्च सिंहस्कन्धाः सुमेहनाः॥ गजेन्द्रगतयश्चैव महाहनव एव च॥ ७८ पादयोश्चक्रमत्स्यौ तु शङ्खपद्मौ तु हस्तयोः। पञ्चाशीतिसहस्राणि ते भवन्त्यजरा नृपाः॥ ७९ असङ्गा गतयस्तेषां चतस्रश्चक्रवर्तिनाम्। अन्तरिक्षे समुद्रे च पाताले पर्वतेषु च॥ ८० इज्या दानं तपः सत्यं त्रेतायां धर्म उच्यते। तदा प्रवर्तते धर्मो वर्णाश्रमविभागशः॥ ८१ मर्यादास्थापनार्थं च दण्डनीतिः प्रवर्तते। हृष्टपुष्टाः प्रजाः सर्वा ह्यरोगः पूर्णमानसाः॥ ८२ एको वेदश्चतुष्पादस्त्रेतायुगविधौ स्मृतः। त्रीणि वर्षसहस्राणि तदा जीवन्ति मानवाः॥ ८३ पुत्रपौत्रसमाकीर्णा म्रियन्ते च क्रमेण तु। एष त्रेतायुगे धर्मस्त्रेतासंधौ निबोधत॥ ८४ त्रेतायुगस्वभावस्तु संध्यापादेन वर्तते। संध्यायां वै स्वभावस्तु युगपादेन तिष्ठति॥ ८५

शांशपायन उवाच--

कथं त्रेतायुगमुखे यज्ञस्यऽसीत्प्रवर्तनम्। पूर्वे स्वायंभुवे सर्गे यथावत्तद्ब्रवीहि मे॥ ८६ अन्तर्हितायां संध्यायां सार्धं कृतयुगेन वै। कलारूपायां प्रवृत्तायां प्राप्ते त्रेतायुगे तदा॥ वर्णाश्रमव्यवस्थानं कृतवन्तश्च वै पुनः॥ ८७ संभारांस्तांश्च संभृत्य कथं यज्ञः प्रवर्तितः। एतच्छ्रुत्वाऽब्रवीत्सूतः श्रूयतां शांशपायन॥ ८८ यथा त्रेतायुगमुखे यज्ञस्याऽसीत्प्रवर्तनम्। ओषधीषु च जातासु प्रवृत्ते वृष्टिसर्जने॥ प्रतिष्ठितायां वार्तायां गृहाश्रमपुरेषु च॥ ८९ वर्णाश्रमव्यवस्थानं कृत्वा मन्त्रांश्च संहिताम्। मन्त्रान्संयोजयित्वाऽथ इहामुत्रेषु कर्मसु॥ ९० तथा विश्वभुगिन्द्रस्तु यज्ञं प्रावर्तयत्तदा। देवतैः सहितः सर्वैः सर्वसंभारसंभृतम्॥ ९१


* धनुश्चिह्नान्तर्गतग्रन्थः ग. पुस्तके नास्ति।

Page 202Permalink

[अ० ५७ श्लो० ९२-११४] वायुपुराणम् । १९३
( यज्ञवर्णनम् : )

अथाश्वमेधे वितते समाजग्मुर्महर्षयः । यजन्ते पशुभिर्मेध्यैर्हुत्वा सर्वे समागताः ॥ ९२
कर्मव्यग्रेषु ऋत्विक्षु सतते यज्ञकर्मणि । संप्रगीतेषु तेष्वेवमागमेष्वथ सुस्वरम् ॥ ९३
परिक्रान्तेषु लघुषु अध्वर्युवृषभेषु च । आलब्धेषु च मेध्येषु तथा पशुगणेषु वै ॥ ९४
हविष्यग्नौ हूयमाने देवानां देवहोतृभिः । आहूतेषु च देवेषु यज्ञभाक्षु महात्मसु ॥ ९५
य इन्द्रियात्मका देवा यज्ञभाजस्तथा तु ये । तान्यजन्ते तदा देवाः कल्पादिषु भवन्ति ये ॥ ९६
अध्वर्यवः प्रैषकाले व्युत्थिता ये महर्षयः । महर्षयस्तु तान्दृष्ट्वा दीनान्पशुगणान्स्थितान् ॥
पप्रच्छुरिन्द्रं संभूय कोऽयं यज्ञविधिस्तव ॥ ९७
अधर्मो बलवानेष हिंसाधर्मेप्सया तव । नेष्टः पशुवधस्त्वेव तव यज्ञे सुरोत्तम ॥ ९८
अधर्मो धर्मघाताय प्रारब्धः पशुभिस्त्वया । नायं धर्मो ह्यधर्मोऽयं न हिंसा धर्म उच्यते ॥ ९९
आगमेन भवान्यज्ञं करोतु यदिहेच्छसि । विधिदृष्टेन यज्ञेन धर्ममव्ययहेतुना ॥ १००
यज्ञबीजैः सुरश्रेष्ठ येषु हिंसा न विद्यते ॥
त्रिवर्षपरमं कालमुषितैरप्ररोहिभिः । एष धर्मो महानिन्द्र स्वयंभुविहितः पुरा ॥ १०१
एवं विश्वभुगिन्द्रस्तु मुनिभिस्तत्त्वदर्शिभिः । जङ्गमैः स्थावरैर्वेति कैर्यष्टव्यमिहोच्यते ॥ १०२
ते तु खिन्ना विवादेन तत्त्वयुक्ता महर्षयः । संधाय वाक्यमिन्द्रेण पप्रच्छुश्चेश्वरं वसुम् ॥ १०३

ऋषय ऊचुः—
महाप्राज्ञ कथं दृष्टस्त्वया यज्ञविधिर्नृप । उत्तानपादे प्रब्रूहि संशयं छिन्धि न प्रभो ॥ १०४
• श्रुत्वा वाक्यं ततस्तेषामाविचार्य बलाबलम् । वेदशास्त्रमनुस्मृत्य यज्ञतत्त्वमुवाच ह ॥
यथोपदिष्टैर्यष्टव्यमिति होवाच पार्थिवः ॥ १०५
यष्टव्यं पशुभिर्मेध्यैरथ बीजैः फलैस्तथा । हिंसास्वभावो यज्ञस्य इति मे दर्शयत्यसौ ॥ १०६
यथेह संहितामन्त्रा हिंसालिङ्गा महर्षिभिः । दीर्घेण तपसा युक्तैर्दर्शनैस्तारकादिभिः ॥
तत्प्रामाण्यान्मया चोक्तं तस्मान्मा मन्तुमर्हथ ॥ १०७
यदि प्रमाणं तान्येव मन्त्रवाक्यानि (णि) च द्विजाः । तदा प्रवर्त्ततां यज्ञो ह्यन्यथा नोऽनृतं वचः ॥
एवं हतोत्तरास्ते वै युक्तात्मानस्तपोधनाः ॥ १०८
अधश्च भवनं दृष्ट्वा तमर्थं वाग्यतो भव । मिथ्यावादी नृपो यस्मात्प्रविवेश रसातलम् ॥ १०९
इत्युक्तमात्रे नृपतिः प्रविवेश रसातलम् । ऊर्ध्वचारी वसुर्भूत्वा रसातलचरोऽभवत् ॥ ११०
वसुधातलावासी तु तेन वाक्येन सोऽभवत् । धर्माणां संशयच्छेत्ता राजा वसुरथाऽऽगतः ॥ १११
तस्मान्न वाच्यमेकेन बहुज्ञेनापि संशयः । बहुद्वारस्य धर्मस्य सूक्ष्माद्दूरमुपागतिः ॥ ११२
तस्मान्न निश्चयाद्वक्तुं धर्मः शक्यस्तु केनचित् । देवानृषीनुपादाय स्वायंभुवमृते मनुम् ॥ ११३
तस्मान्न हिंसा धर्मस्य द्वारमुक्तं महर्षिभिः । ऋषिकोटिसहस्राणि कर्मभिः स्वैर्दिवं ययुः ॥ ११४

२५

Page 203Permalink

१९४ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ० ५७-५८ श्लो० ११५-१२५-१-४] (चतुर्युगाख्यानम्ः)

तस्मान्न दानं यज्ञं वा प्रशंसन्ति महर्षयः। [ तुच्छं मूलं फलं शाकमुदपात्रं तपोधनाः॥
एवं दत्त्वा विभवतः स्वर्गलोके प्रतिष्ठिताः॥ ११५
अद्रोहश्चाप्यलोभश्च दमो भूतदया तपः ] । ब्रह्मचर्यं तथा सत्यमनुक्रोशः क्षमा धृतिः॥
सनातनस्य धर्मस्य मूलमेतद्दुरासदम् ॥ ११६
धर्ममन्त्रात्मको यज्ञस्तपश्चाज्ञानात्मकम् । यज्ञेन देवानाप्नोति वैराग्यं तपसा पुनः॥ ११७
ब्राह्मण्यं कर्मसंन्यासाद्वैराग्यात्प्रेक्षते लयम् । ज्ञानात्माप्नोति कैवल्यं पञ्चैता गतयः स्मृताः ॥ ११८
एवं विवादः सुमहाञ्जयस्याऽऽसीत्प्रवर्तने । ऋषीणां देवतानां च पूर्वं स्वायंभुवेऽन्तरे ॥ ११९
ततस्ते ऋषयो दृष्ट्वाऽद्भुतं वर्त्म बलेन तु । वसोर्वाक्यमनादृत्य जग्मुस्ते वै यथागताः॥ १२०
गतेषु देवसंघेषु देवा यज्ञमवाप्नुयुः । श्रूयन्ते हि तपःसिद्धा ब्रह्मक्षत्रमया नृपाः॥ १२१
प्रियव्रतोत्तानपादौ ध्रुवो मेधातिथिर्वसुः । सुमेधा विरजाश्चैव शङ्खपादज एव च॥
प्राचीनबर्हिः पर्जन्यो हविर्धानादयो नृपाः॥ १२२
एते चान्ये च बहवो नृपाः सिद्धा दिवं गताः। राजर्षयो महासत्त्वा येषां कीर्तिः प्रतिष्ठिता ॥ १२३
(*तस्माद्विशिष्यते यज्ञात्तपः सर्वेषु कारणैः। ब्रह्मणा तपसा सृष्टं जगद्विश्वमिदं पुरा॥) १२४
तस्मान्नात्येति तद्यज्ञस्तपोमूलमिदं स्मृतम् । यज्ञप्रवर्तनं ह्येवमतः स्वायंभुवेऽन्तरे ॥
ततः प्रभृति यज्ञोऽयं युगैः सह व्यवर्तत ॥ १२५

इति श्रीमहापुराणे वायुप्रोक्ते यज्ञप्रवर्तनं नाम सप्तपञ्चाशोऽध्यायः ॥ ५७ ॥

आदितः श्लोकानां समष्ट्यङ्काः-४५५७


अथाष्टपञ्चाशोऽध्यायः ।

चतुर्युगाख्यानम् ।

सूत उवाच—
अत ऊर्ध्वं प्रवक्ष्यामि द्वापरस्य विधिं पुनः। तत्र त्रेतायुगे क्षीणे द्वापरं प्रतिपद्यते ॥ १
द्वापरादौ प्रजानां तु सिद्धिस्त्रेतायुगे तु या । परिवृत्ते युगे तस्मिंस्ततः सा संप्रणश्यति ॥ २
ततः प्रवर्तते तासां प्रजानां द्वापरे पुनः । लोभोऽधृतिर्वाणिग्युद्धं तत्त्वानामाविनिश्चयः॥ ३
संभेदश्चैव वर्णानां कार्याणां च विनिर्णयः। याच्ञा वधः पणो दण्डो मदो दम्भोऽक्षमाऽबलम् ॥
एषां रजस्तमोयुक्ता प्रवृत्तिर्द्वापरे स्मृता ॥ ४


* धनुश्चिह्नान्तर्गतग्रन्थो ङ. पुस्तके नास्ति । + धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति ।

Page 204Permalink

[अ० ५८ श्लो ० ५-३०] वायुपुराणम् । १९५

(चतुर्युगाख्यानम् ) आद्ये कृते न धर्मोऽस्ति त्रेतायां संप्रपद्यते । द्वापरे व्याकुली भूत्वा प्रणश्यति कलौ युगे ॥ ५ वर्णानां विपरिध्वंसः संकीर्त्यते तथाऽऽश्रमः । द्वैधमुत्पद्यते चैव युगे तस्मिञ्छ्रुतौ स्मृतौ ॥ ६ द्वैधाच्छ्रुतेः स्मृतेश्चैव निश्चयो नाधिगम्यते । अनिश्चयाधिगमनाद्धर्मतत्त्वं न विद्यते ॥ धर्मतत्त्वे तु भिन्नानां मतिभेदो भवेन्नृणाम् ॥ ७ परस्परविभिन्नैस्तैर्दृष्टीनां विभ्रमेण च । अयं धर्मो ह्ययं नेति निश्चयो नाभिगम्यते ॥ ८ कारणानां च वैकल्यात्कारणस्याप्यनिश्चयात् । मतिभेदे च तेषां वै दृष्टीनां विभ्रमो भवेत् ॥ ९ ततो दृष्टिविभिन्नैस्तैः कृतं शास्त्रकुलं त्विदम् । एको वेदश्चतुष्पादस्त्रेतास्विह विधीयते ॥ १० संरोधादायुषश्चैव दृश्यते द्वापरेषु च । वेदव्यासैश्चतुर्धा तु व्यस्यते द्वापरादिषु ॥ ११ ऋषिपुत्रैः पुनर्वेदा भिद्यन्ते दृष्टिविभ्रमैः । मन्त्रब्राह्मणविन्यासैः स्वरवर्णादिपर्ययैः ॥ १२ संहिता ऋग्यजुःसाम्नां संहन्यन्ते श्रुतर्षिभिः । सामान्याद्वैकृताच्चैव दृष्टिभिन्नैः क्वचित्क्वचित् ॥ १३ ब्राह्मणं कल्पसूत्राणि मन्त्रप्रवचनानि च । अन्ये तु प्रहितास्तीर्थैः केाचित्तान्प्रत्यवस्थिताः ॥ १४ द्वापरेषु प्रवर्तन्ते भिन्नवृत्ताश्रमा द्विजाः । एकमाध्वर्यवं पूर्वमासीद्वैधं पुनस्ततः ॥ १५ सामान्याविपरीतार्थैः कृतं शास्त्रकुलं त्विदम् । आध्वर्यवस्य प्रस्तावैर्बहुधा व्याकुलं कृतम् ॥ १६ तथैवाथर्वऋक्साम्नां विकल्पैश्चाप्यसंख्ययाः । व्याकुलं द्वापरे भिन्नं क्रियते भिन्नदर्शनैः ॥ १७ तेषां भेदाः प्रभेदाश्च विकल्पैश्चाप्यसंख्ययाः । द्वापरे संप्रवर्तन्ते विनश्यन्ति पुनः कलौ ॥ १८ तेषां विपर्ययाश्चैव भवन्ति द्वापरे पुनः । अवृष्टिर्मरणं चैव तथैव व्याध्युपद्रवाः ॥ १९ वाङ्मनःकर्मजैर्दुःखैर्निर्वेदो जायते पुनः । निर्वेदाज्जायते तेषां दुःखमोक्षविचारणा ॥ २० विचारणाच्च वैराग्यं वैराग्याद्दोषदर्शनम् । दोषाणां दर्शनाच्चैव द्वापरे ज्ञानसंभवः ॥ २१ तेषां च मानिनां पूर्वमाद्ये स्वायंभुवेऽन्तरे । उत्पद्यन्ते हि शास्त्राणां द्वापरे परिपन्थिनः ॥ २२ आयुर्वेदविकल्पाश्च अङ्गानां ज्योतिषस्य च । अर्थशास्त्रविकल्पश्च हेतुशास्त्रविकल्पनम् ॥ २३ स्मृतिशास्त्रप्रभेदाश्च प्रस्थानानि पृथक्पृथक् । द्वापरेष्वभिवर्तन्ते मतिभेदास्तथा नृणाम् ॥ २४ मनसा कर्मणा वाचा कृच्छाद्वार्ता प्रसिध्यति । द्वापरे सर्वभूतानां कायक्लेशपुरस्कृता ॥ २५ लोभोऽधृतिर्विनिर्युद्धं तत्त्वानामनिश्चयः । वेदशास्त्रप्रणयने धर्माणां संकरस्तथा ॥ २६ द्वापरेषु प्रवर्तन्ते रागो लोभो वधस्तथा । वर्णाश्रमपरिध्वंसाः कामद्वेषौ तथैव च ॥ २७ पूर्णे वर्षसहस्रे द्वे परमायुस्तथा नृणाम् । निःशेषे द्वापरे तस्मिंस्तस्य संध्या तु पादतः ॥ २८ प्रतिष्ठते गुणैर्हीनो धर्मोऽसौ द्वापरस्य तु । तथैव संध्यापादेन अंशतस्त्यावतिष्ठते ॥ २९ द्वापरस्य च वर्षे या तिष्यस्य तु निबोधत । द्वापरस्यांशशेषे तु प्रतिपत्तिः कलेरतः ॥ ३०

Page 205Permalink

१६६ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ५८ श्लो० ३१-५६] (चतुर्युगाख्यानम्)

हिंसाऽसूयाऽनृतं माया वधश्चैव तपस्विनाम् । एते स्वभावास्तिष्यस्य साधयन्ति च वै प्रजाः ॥ ३१
एष धर्मः कृतः कृत्स्नो धर्मश्च परिहीयते । मनसा कर्मणा स्तुत्या वार्ता सिध्यति वा नवा ॥ ३२
कलौ प्रमारको रोगः सततं क्षुद्रयानि वै । अनावृष्टिभयं घोरं देशानां च विपर्ययः ॥ ३३
न प्रमाणं स्मृतेरस्ति तिष्ये लोके युगे युगे । गर्भस्थो ध्रियते कश्चिद्यौवनस्थस्तथाऽपरः ॥
स्थाविरे मध्यकौमारे म्रियन्ते वै कलौ प्रजाः ॥ ३४
अधार्मिकास्त्वनाचारा मोहकोपाल्पतेजसः । अनृतंब्रुवाश्च सततं तिष्ये जायन्ति वै प्रजाः ॥ ३५
दुरिष्टैर्दुरधीतैश्च दुराचारैर्दुरागमैः । विप्राणां कर्मदोषैस्तैः प्रजानां जायते भयम् ॥ ३६
हिंसा माया तथेष्र्या च क्रोधोऽसूयाऽक्षमाऽनृतम् । तिष्ये भवन्ति जन्तूनां रागो लोभश्च सर्वशः ॥
संक्षोभो जायतेऽत्यर्थं कलिमासाद्य वै युगम् । नाधीयन्ते तदा वेदा न यजन्ते द्विजातयः ॥
उत्सीदन्ति नराश्चैव क्षत्रियाः सविशः क्रमात् ॥ ३८
शूद्राणामन्त्ययोनेस्तु संबन्धा ब्राह्मणैः सह । भवन्तीह कलौ तस्मिञ्शयनासनभोजनैः ॥ ३९
राजानः शूद्रभूयिष्ठाः पाषण्डानां प्रवर्तकाः । भ्रूणहत्याः प्रजास्तत्र प्रजा एवं प्रवर्तते ॥ ४०
आयुर्मेधा बलं रूपं कुलं चैव महीयते । शूद्राश्च ब्राह्मणाचाराः शूद्राचाराश्च ब्राह्मणाः ॥ ४१
राजवृत्ते स्थिताश्चौराश्चौरवृत्ताश्च पार्थिवाः । भृत्याश्च नष्टसुहृदो युगान्ते पर्युपस्थिते ॥ ४२
अशीलिन्योऽव्रताश्चापि स्त्रियो मद्यामिषप्रियाः । मायामात्रा भविष्यन्ति युगान्ते प्रत्युपस्थिते ॥ ४३
श्वापदप्रबलत्वं च गवां चैवाप्युपक्षयः । साधूनां विनिवृत्तिश्च विद्यात्तस्मिन्कलौ युगे ॥ ४४
तदा सूक्ष्मो महोदर्को दुर्लभो दानमूलवान् । चतुराश्रमशैथिल्याद्धर्मः प्रविचालिष्यति ॥ ४५
तदा स्वल्पफला देवी भवेद्भूमिर्महीयसी । शूद्रास्तपश्चरिष्यन्ति युगान्ते प्रत्युपस्थिते ॥ ४६
तदा ह्यैकाहिको धर्मो द्वापरे यश्च मासिकः । त्रेतायां वत्सरस्थश्च एकाहादतिरिच्यते ॥ ४७
अराक्षितारो हर्त्तारो बलिभागस्य पार्थिवाः । युगान्तेषु भविष्यन्ति स्वरक्षणपरायणाः ॥ ४८
अक्षत्रियाश्च राजानो विशः शूद्रोपजीविनः । शूद्राभिवादिनः सर्वे युगान्ते द्विजसत्तमाः ॥ ४९
यतयश्च भविष्यन्ति बहवोऽस्मिन्कलौ युगे । चित्रवर्षी तदा देवो यदा स्यात्तु युगक्षयः ॥ ५०
सर्वे वाणिजकाश्चापि भविष्यन्त्यधमे युगे । (* शूद्राश्च यतिनश्चैव गूढवासास्तपस्विनः ॥
लोलुपाः परदारेषु नष्टमार्गाः कलौ युगे ।) भूयिष्ठं कूटमानैश्च पुण्यं विक्रीयते जनैः ॥ ५१
कुशीलचर्या पाषण्डैर्वृथारूपैः समावृतम् । पुरुषालपं बहुस्त्रीकं युगान्ते पर्युपस्थिते ॥ ५२
बहुयाचनको लोको भविष्यति परस्परम् । क्रव्यादनः क्रूरवाक्योऽनार्जवो नानसूयकः ॥ ५३
न कृते प्रतिकर्ता च क्षीणो लोको भविष्यति । अशङ्का चैव पतिते तद्युगान्तस्य लक्षणम् ॥ ५४
नरशून्या वसुमती शून्या चैव भविष्यति । मण्डलानि भवन्त्यत्र देशेषु नगरेषु च ॥ ५५
अल्पोदका चाल्पफला भविष्यति वसुंधरा । गोपाराश्चाप्यगोपाराः प्रभाविष्यन्त्यशासनाः ॥ ५६


* नास्त्ययं श्लोकः क. ध. ड. पुस्तकेषु ।

Page 206Permalink

[अ० ५८ श्लो० ५७--८२] वायुपुराणम् । १६७

(चतुर्युगाख्यानम्ः )
हर्तारः परत्नानां परदारमघर्षकाः । कामात्मानो दुरात्मानो ह्यधर्मात्साहसप्रियाः ॥ ५७
प्रनष्टचेतना पुंसो मुक्तकेशास्तु चूलिकाः । ऊनषोडशवर्षाश्च (÷प्रजायन्ते युगक्षये ॥ ५८
शुक्लदन्ता जिताक्षाश्च मुण्डाः काषायवाससः । शूद्रा धर्मं चरिष्यन्ति युगान्ते पर्युपस्थिते ॥ ५९
सस्यचौरा भविष्यन्ति तथा चैलाभिमर्शिनः । चौराश्चौरस्य हर्तारो हर्तुर्हतीर एव च ॥ ६०
ज्ञानकर्मण्युपरते लोके निष्क्रियतां गते । कीटमूषिकसर्पाश्च ) धर्षयिष्यन्ति मानवान् ॥ ६१
सुभिक्षं क्षेममारोग्यं सामर्थ्यं दुर्लभं भवेत् । कौशिकाः प्रतिवत्स्यन्ति देशान्क्षुद्भयपीडितान् ॥ ६२
दुःखनाभिप्लुतानां च परमायुः शतं भवेत् । दृश्यन्ते न च दृश्यन्तै वेदाः कलियुगेऽखिलाः ॥ ६३
उत्सीदन्ति तथा यज्ञाः केवला धर्मपीडिताः । कषायिणश्च निर्ग्रन्थास्तथा कापालिनश्च ह ॥ ६४
वेदविक्रयिणश्चान्ये तीर्थविक्रयिणोऽपरे । वर्णाश्रमाणां ये चान्ये पाषण्डाः पारपन्थिनः ॥ ६५
उत्पद्यन्ते तथा ते वै समाप्ते तु कलौ युगे । नाधीयन्ते तदा वेदाः शूद्रा धर्मार्थकोविदाः ॥ ६६
यजन्ते नाश्वमेधेन राजानः शूद्रयोनयः । स्त्रीवधं गोवधं कृत्वा हत्वा चैव परस्परम् ॥
उपहन्युस्तदाऽन्योन्यं साधयन्ति तथा प्रजाः ॥ ६७
दुःखप्रचारतोऽल्पायुर्देहोत्साहः सरोगता । मोहो ग्लानिस्तथा सौख्यं तमोधृतं कलौ स्मृतम् ॥ ६८
प्रजासु भ्रूणहत्या च अथ वै संप्रवर्तते । तस्मादायुर्बलं रूपं कालं प्राप्य प्रहीयते ॥
दुःखनाभिप्लुतानां वै परमायुः शतं नृणाम् ॥ ६९
दृश्यन्ते नाभिवृश्यन्ते वेदाः कलियुगेऽखिलाः । उत्सीदन्ते तदा यज्ञाः केवला धर्मपीडिताः ॥ ७०
तदा त्वल्पेन कालेन सिद्धिं यास्यन्ति मानवाः । धन्या धर्मं चरिष्यन्ति युगान्ते द्विजसत्तमाः ॥ ७१
श्रुतिस्मृत्यूदितं धर्मं ये चरन्त्यनसूयकाः । त्रेतायां वार्षिको धर्मो द्वापरे मासिकः स्मृतः ॥
यथाशक्ति चरन्प्राज्ञस्तदह्ना प्राप्नुयात्कलौ ॥ ७२
एषा कलियुगेऽवस्था संध्यांशं तु निबोध मे । युगे युगे तु हीयन्ते त्रिंस्त्रिनिपादांश्च सिद्धयः ॥ ७३
युगस्वभावात्संध्यास्तु तिष्ठन्तीमास्तु पादशः । संध्यास्वभावाच्चांशेषु पादशस्ते प्रतिष्ठिताः ॥ ७४
एवं संध्यांशके काले संप्राप्ते तु युगान्तिके । तेषां शास्ता ह्यसाधूनां भृगूणां निधनोत्थितः ॥ ७५
गोत्रेण वै चन्द्रमसो नाम्ना प्रमितिरुच्यते । माधवस्य तु सोऽशेन पूर्वं स्वायंभुवेऽन्तरे ॥ ७६
समाः स विंशतिं पूर्णाः पर्यटद्वै वसुंधराम् । आचकर्ष स वै सेनां सवाजिरथकुञ्जराम् ॥ ७७
प्रगृहीतायुधैर्विप्रैः शतशोऽथ सहस्रशः । स तदा तैः परिवृतो म्लेच्छान्हन्ति सहस्रशः ॥ ७८
स हत्वा सर्वगश्चैव राज्ञस्ताञ्शूद्रयोनिजान् । पाषण्डान्स ततः सर्वाञ्छेषान्कृतवान्प्रभुः ॥ ७९
नात्यर्थं धार्मिका ये च तान्सर्वान्हन्ति सर्वशः । वर्णव्यत्यासजातांश्च ये च तानुपजीविनः ॥ ८०
उदीच्यान्मध्यदेशांश्च पार्वतीयस्तथैव च । प्राच्यान्प्रतीच्यांश्च तथा विन्ध्यपृष्ठापरान्तिकान् ॥ ८१
तथैव दाक्षिणात्यांश्च द्रविडांन्सिंहलैः सह । गान्धारात्पारदांश्चैव पह्लवान्यवनांस्तथा ॥ ८२


÷ धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति ।

Page 207Permalink

१६८ श्रीमद्वैपायनमुनिप्रणीतम्— [अ०५८श्लो०८३-१०९] ( चतुर्युगाख्यानम्ः )

तुषारान्बर्बरांश्चीनाञ्शूलिकान्दरदान्खसान् । लम्पाकानथ केतांश्च किरातानां च जातयः ॥ ८३
प्रवृत्तचक्रो बलवानम्लेच्छानामन्तकृद्विभुः । अधृष्यः सर्वभूतानां चचाराथ वसुंधराम् ॥ ८४
माधवस्य तु सोंऽशेन देवस्य हि विजाज्ञिवान् । पूर्वजन्मविधिज्ञैश्च प्रमितिर्नाम वीर्यवान् ॥ ८५
गोत्रेण वै चन्द्रमसः पूर्वे कलियुगे प्रभुः । द्वात्रिंशेऽभ्युदिते वर्षे प्रक्रान्ते विंशतिं समाः ॥ ८६
विनिघ्नन्सर्वभूतानि मानवानि सहस्रशः । कृत्वा वीर्यावशेषा तु पृथ्वीं रूढेन कर्मणा ॥
परस्परनिमित्तेन कोपेनाऽऽकस्मिकेन तु ॥ ८७
स साधयित्वा वृषलान्प्रायशस्तानधार्मिकान् । गङ्गायमुनयोर्मध्ये निष्ठां प्राप्तः सहानुगः ॥ ८८
ततो व्यतीते तस्मिंस्तु अमात्ये सत्यसैनिके । उत्साद्य पार्थिवान्सर्वानम्लेच्छांश्चैव सहस्रशः ॥ ८९
तत्र संध्यांशके काले संप्राप्ते तु युगान्तिके । स्थितास्त्वल्पावशिष्टासु प्रजास्विह क्वचित्क्वचित् ॥ ९०
अप्रग्रहस्ततस्ता वै लोकचेष्टास्तु वृन्दशः । उपहिंसन्ति चान्योन्यं प्रपद्यन्ते परस्परम् ॥ ९१
अराजके युगशान्तसंशये समुपस्थिते । प्रजास्ताः वै ततः सर्वाः परस्परभयार्दिताः ॥ ९२
व्याकुलाश्च परिश्रान्तास्त्यक्त्वा दारान्गृहाणि चास्वान्प्राणान्समवेक्षन्तो निष्कारुण्याः सुदुःखिताः
नष्टे श्रौते स्मृते धर्मे परस्परहतास्तदा । निर्मर्यादा निराक्रन्दा निस्नेहा निरपत्रपाः ॥ ९४
नष्टे वर्षे प्रतिहता ह्रस्वकाः पञ्चविंशकाः । हित्वा दारांश्च पुत्रांश्च विषाद्व्याकुलेन्द्रियाः ॥ ९५
अनावृष्टिहताश्चैव वार्त्तामुत्सृज्य दुःखिताः । प्रत्यन्तांस्तान्निषेवन्ते हित्वा जनपदान्स्वकान् ॥ ९६
सरितः सागरानूपान्त्सेवन्ते पर्वतांस्तदा । मधुमांसैर्मूलफलैर्वर्तयन्ति सुदुःखिताः ॥ ९७
चीरवल्काजिनधरा निष्पत्रा निष्परिग्रहाः । वर्णाश्रमपरिभ्रष्टाः संकरं घोरमास्थिताः ॥ ९८
एतां काष्ठामनुप्राप्ता अल्पशेषाः प्रजास्तथा । जराव्याधिक्षुधाविष्टा दुःखान्निर्वेदमागमन् ॥ ९९
विचारणं तु निर्वेदात्साम्यावस्था विचारणात् । साम्यावस्थासु संबोधः संबोधाद्धर्मशीलता ॥ १००
तासपगमयुक्तासु कलिंशिष्टासु वै स्वयम् । अहोरात्रं तदा तासां युगं तु परिवर्तते ॥ १०१
चित्तसंमोहनं कृत्वा तासां तैः सक्षमं तु तत् । भाविनोऽर्थस्य च बलात्ततः कृतमवर्तत ॥ १०२
प्रवृत्ते तु पुनस्तस्मिंस्ततः कृतयुगे तु वै । उत्पन्नाः कलिंशिष्टास्तु कार्त्तयुग्यः प्रजास्तदा ॥ १०३
तिष्ठन्ति चेह ये सिद्धाः सुदृष्टा विचरन्ति च । सदा सप्तर्षयश्चैव तत्र ते च व्यवस्थिताः ॥ १०४
ब्रह्मक्षत्रविशः शूद्रा बीजार्थं ये स्मृता इह । कलिजैः सह ते सर्वे निर्विशेषास्तदाऽभवन् ॥ १०५
तेषां सप्तर्षयो धर्मं कथयन्तीतरेषु च । वर्णाश्रमाचारयुक्तः श्रौतः स्मार्तो द्विधा तु सः ॥ १०६
ततस्तेषु क्रियावत्सु वर्तन्ते वै प्रजाः कृते । श्रौतः स्मार्तः कृतानां तु धर्मः सप्तर्षिदर्शितः ॥ १०७
तासु धर्मव्यवस्थार्थं तिष्ठन्तीहाऽऽयुगक्षयात् । मन्वन्तराधिकारेषु तिष्ठन्ति मुनयस्तु वै ॥ १०८
यथा दावप्रदग्धेषु तृष्णेष्विह तपे ऋतौ । नवानां प्रथमं दृष्टास्तेषां मूले तु संभवः ॥ १०९

Page 208Permalink

[अ०५८-५९श्लो०११०-१२६-१-२] वायुपुराणम् १९९

(ऋषिलक्षणम्)

* तथा कार्त्तयुगानां तु कलिङ्गेष्विह संभवः । एवं युगाद्युगस्येह संतानस्तु परस्परम् ॥
वर्तते ह्यव्यवच्छेदाद्यावन्मन्वन्तरक्षयः ॥ ११०
सखमायुर्बलं रूपं धर्मार्थौ काम एव च । युगेष्वेतानि हीयन्ते त्रीणि पादक्रमेण तु ॥ १११
ससंध्यांशेषु हीयन्ते युगानां धर्मसिद्धयः । इत्येष प्रतिसंधिर्वः कीर्तितस्तु मया द्विजाः ॥ ११२
चतुर्युगाना(णां) सर्वेषामेतेनैव प्रसाधनम् । एषां चतुर्युगावृत्तिरासहस्रात्प्रवर्तते ॥ ११३
ब्रह्मणस्तदहः प्रोक्तं रात्रिश्च तावती स्मृता । अत्राऽऽर्जवं जडीभावो भूतानामायुगक्षयात् ॥ ११४
एतदेव तु सर्वेषां युगानां लक्षणं स्मृतम् । एषां चतुर्युगानां (णां) तु गणना ह्येकसप्ततिः ॥
क्रमेण परिवृत्ता तु मनोरन्तरमुच्यते ॥ ११५
चतुर्युगे तथैकस्मिन्भवतीह यथाश्रुतम् । तथा चान्येषु भवति पुनस्तद्वै यथाक्रमम् ॥ ११६
सर्गे सर्गे यथा भेदा उत्पद्यन्ते तथैव तु । पञ्चविंशत्परिमिता न न्यूना नाधिकास्तथा ॥ ११७
तथा कल्पयुगैः सार्धं भवन्ति समलक्षणाः । मन्वन्तराणां सर्वेषामेतदेव तु लक्षणम् ॥ ११८
तथा युगानां परिवर्तनानि चिरप्रवृत्तानि युगस्वभावात् ।
तथा न संतिष्ठति जीवलोकः क्षयोदयाभ्यां परिवर्तमानः ॥ ११९
इत्येतल्लक्षणं प्रोक्तं युगानां वै समासतः । अतीतानतीतानां वै सर्वमन्वन्तरेष्विह ॥ १२०
अनागतेषु तद्वच्च तर्कः कार्यो विजानता । मन्वन्तरेषु सर्वेषु अतीतानागतेष्विह ॥ १२१
मन्वन्तरेण चैकेन सर्वाण्येवान्तराणि वै । व्याख्यातानि विजानीध्वं कल्पे कल्पेन चैव हि ॥ १२२
अस्याभिमानिनः सर्वे नामरूपैर्मवन्त्युत । देवा ह्यष्टविधा ये च इह मन्वन्तरेश्वराः ॥ १२३
ऋषयो मनवश्चैव सर्वे तुल्याः प्रयोजनैः । एवं वर्णाश्रमाणां तु प्रविभागे युगे युगे ॥ १२४
युगस्वभावाच्च तथा विधत्ते वै सदा प्रभुः । वर्णाश्रमविभागश्च युगानि युगसिद्धये ॥ १२५
अनुषङ्गः समाख्यातः सृष्टिसर्गं निबोधत । विस्तरेणाऽनुपूर्व्या च स्थितिं वक्ष्ये युगेष्विह ॥ १२६

इति श्रीमहापुराणे वायुप्रोक्ते चतुर्युगाख्यानं नामाष्टपञ्चाशोऽध्यायः ॥ ५८ ॥

आदितः श्लोकानां समष्ट्यङ्काः-- ४६८३


अथोनषष्ट्यध्यायः ।

ऋषिलक्षणम् ।

सूत उवाच—
युगेषु यास्तु जायन्ते प्रजास्ता वै निबोधत । आसुरी सर्पगोपक्षिपैशाची यक्षराक्षसी ॥
यास्मिन्युगे च संभूतिस्तासां यावत्तु जीवितम् ॥ १
पिशाचासुरगन्धर्वा यक्षराक्षसपन्नगाः । युगमात्रं तु जीवन्ति ऋते मृत्युं वधेन ते ॥ २


* इदमर्धं नास्ति ङ. पुस्तके ।

Page 209Permalink

२०० श्रीमद्वैपायनमुनिप्रणीतम्- -[अ० ५९ श्लो० ३-२९] (ऋषिलक्षणम्)

मनुष्याणां पशूनां च पक्षिणां स्थावरैः सह । तेषामायुः परिक्रान्तं युगधर्मेषु सर्वशः ॥ ३
अस्थितिस्तु कलौ दृष्टा भूतानामायुषस्तु च । परमायुः शतं त्वेतन्मनुष्याणां कलौ स्मृतम् ॥ ४
देवासुरप्रमाणात्तु सप्तसप्ताङ्गुलं हसत् । अङ्गुलानां शतं पूर्णमष्टपञ्चाशदुत्तरम् ॥ ५
देवासुरप्रमाणं तदुच्छ्रायं कलिजैः स्मृतम् । चत्वारश्चाप्यशीतिश्च कलिजैरङ्गुलैः स्मृतम् ॥ ६
स्वेनाङ्गुलप्रमाणेण ऊर्ध्वमापादमस्तकम् । इत्येष मानुषोत्सेधो हसतहि युगान्तिके ॥ ७
सर्वेषु युगकालेषु अतीतानागतेष्विह । स्वेनाङ्गुलप्रमाणेण अष्टतालः स्मृतो नरः ॥ ८
आपादतो मस्तकं तु नवतालो भवेत्तु यः । संहताजानुबाहुस्तु स सुरैरपि पूज्यते ॥ ९
गवाश्वहस्तिनां चैव महिषस्थावरात्मनाम् । क्रमेणैतेन योगेन हासवृद्धी युगे युगे ॥ १०
षट्सप्तत्यङ्गुलोत्सेधः पशूनां ककुदस्तु वै । अङ्गुलाष्टशतं पूर्णमुत्सेधः कारिणां स्मृतः ॥ ११
अङ्गुलानां सहस्रं चत्वारिंशाङ्गुलं विना । पञ्चाशतं हयानां च उत्सेधः शाखिनां स्मृतः ॥ १२
मानुषस्य शरीरस्य संनिवेशस्तु यादृशः । तल्लक्षणस्तु देवानां पक्षिणां दृश्यते तत्त्वदर्शनात् ॥ १३
बुद्ध्याऽतिशययुक्तं च देवानां कायमुच्यते । देवानातिशयं चैव मानुषं कायमुच्यते ॥ १४
इत्येते वै परिक्रान्ता भावा ये दिव्यमानुषाः । पशूनां पक्षिणां चैव स्थावराणां निबोधत ॥ १५
गावो ह्यजा महिष्योऽश्वा हस्तिनः पक्षिणो नगाः । उपयुक्ताः क्रियास्वेते यज्ञियास्विह सर्वशः ॥ १६
देवस्थानेषु जायन्ते तद्रूपा एव ते पुनः । यथाशयोपभोगास्तु देवानां शुभमूर्तयः ॥ १७
तेषां रूपानुरूपैस्तैः प्रमाणैः स्थाणुजङ्गमैः । मनोज्ञैस्तत्त्वभावज्ञैः सुखिनो ह्युपपेदिरे ॥ १८
अतः शिष्टान्मवक्ष्यामि सतः साधूंस्तथैव च । सदिति ब्रह्मणः शब्दस्तद्वन्तो ये भवन्त्युत ॥
सायुज्यं ब्रह्मणोऽत्यन्तं तेन सन्तः प्रचक्षते ॥ १९
दशात्मके ये विषये कारणे चाष्टलक्षणे । न क्रुध्यन्ति न हृष्यन्ति जितात्मानस्तु ते स्मृताः ॥ २०
सामान्येषु च धर्मेषु तथा वैशेषिकेषु च । ब्रह्मक्षत्रविशो युक्ता यस्मात्तस्माद्द्विजातयः ॥ २१
वर्णाश्रमेषु युक्तस्य स्वर्गगोमुखचारिणः । श्रौतस्मार्तस्य धर्मस्य ज्ञानाद्धर्मः स उच्यते ॥ २२
विद्यायाः साधनात्साधुर्ब्रह्मचारी गुरोर्हितः । क्रियाणां साधनाच्चैव गृहस्थः साधुरुच्यते ॥ २३
साधनातपसोऽरण्ये साधुर्वैखानसः स्मृतः । यतमानो यतिः साधुः स्मृतो योगस्य साधनात् ॥ २४
एवमाश्रमधर्माणां साधनात्साधवः स्मृता । गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः ॥ २५
न च देवा न पितरो मुनयो न च मानवाः । अयं धर्मो ह्ययं नेति ब्रुवते भिन्नदर्शनाः ॥ २६
धर्माधर्माविह प्रोक्तौ शब्दावेतौ क्रियात्मकौ । कुशलाकुशलं कर्म धर्माधर्माविति स्मृतौ ॥ २७
[+ धारणा धृतिरित्यार्थाद्धातोर्धर्मः प्रकीर्तितः । अधारणेऽमहत्त्वे च अधर्म इति चोच्यते ॥ २८
अत्रेष्टमापको धर्म आचार्यैरुपदिश्यते ] वृद्धा ह्यलोलुपाश्चैव आत्मवन्तो ह्यदम्भकाः ॥
सम्यग्विनीता ऋजवस्तानाचार्यान्प्रचक्षते ॥ २९


+ धनुश्चिह्नान्तरग्रन्थो ग पुस्तके नास्ति ।

मन्वन्तरस्यातितस्य स्मृताऽऽचारं पुनर्जगौ । तस्मात्स्मार्तः स्मृतो धर्मो वर्णाश्रमविभागजः ॥ ३२

Page 210Permalink

[अ० ५९ श्लो० ३०-५४] वायुपुराणम् । २०१

(ऋषिलक्षणम्:)

स्वयमाचरते यस्मादाचारं स्थापयत्यपि । आचिनोति च शास्त्रार्थानियमैः संनियमैर्युतः ॥ ३०
पूर्वेभ्यो वेद्यित्वेह श्रौतं सप्तर्षयोऽब्रुवन् । ऋचो यजूंषि सामानि ब्रह्मणोऽङ्गानि च श्रुतिः ॥ ३१
मन्वन्तरस्यातितस्य स्मृताऽऽचारं पुनर्जगौ । तस्मात्स्मार्तः स्मृतो धर्मो वर्णाश्रमविभागजः ॥ ३२
स एष द्विविधो धर्मः शिष्टाचार इहोच्यते । शेषशब्दाच्छिष्ट इति शिष्टाचारः प्रचक्ष्यते ॥ ३३
मन्वन्तरेषु ये शिष्टा इह तिष्ठन्ति धार्मिकाः । मनुः सप्तर्षयश्चैव लोकसंतानकारणात् ॥
धर्मार्थं ये च शिष्टा वै याथातथ्यं प्रचक्षते ॥ ३४
मन्वादयश्च ये शिष्टा ये मया प्रागुदीरिताः । तैः शिष्टैश्चरितो धर्मः सम्यगेव युगे युगे ॥ ३५
त्रयी वार्ता दण्डनीतिरिज्या वर्णाश्रमस्तथा । शिष्टैराचार्यते यस्मान्मनुना च पुनः पुनः ॥
पूर्वैः पूर्वगतत्वाच्च शिष्टाचारः स शाश्वतः ॥ ३६
दानं सत्यं तपोऽलोभो विद्येज्याप्रजनौ दया । अष्टौ तानि चरित्राणि शिष्टाचारस्य लक्षणम् ॥ ३७
शिष्टा यस्माच्चरन्त्येनं मनुः सप्तर्षयश्च वै । मन्वन्तरेषु सर्वेषु शिष्टाचारस्ततः स्मृतः ॥ ३८
विज्ञेयः श्रवणाम्छ्रौतः स्मरणात्स्मार्त उच्यते । इज्यावेदात्मकः श्रौतः स्मार्तो वर्णाश्रमात्मकः ३९
प्रत्यङ्गानि च वक्ष्यामि धर्मस्येह तु लक्षणम् ॥ ४०
दृष्ट्वा प्रभूतमर्थं यः पृष्टो वै न निगूहति । यथा भूतप्रवादस्तु इत्येतत्सत्यलक्षणम् ॥ ४१
ब्रह्मचर्यं जपो मौनं निराहारत्वमेव च । इत्येतत्तपसो मूलं सुघोरं तद्दुरासदम् ॥ ४२
पशूनां द्रव्यहविषामृक्सामयजुषां तथा । ऋत्विजां दक्षिणानां च संयोगो यज्ञ उच्यते ॥ ४३
आत्मवत्सर्वभूतेषु या हितायाहिताय च । समा प्रवर्तते दृष्टिः कृत्स्ना ह्येषा दया स्मृता ॥ ४४
आक्रुष्टोऽभिहतो वाऽपि नाऽऽक्रोशेद्यो न हन्ति वा । वाङ्मनःकर्मभिः क्षान्तिस्तितिक्षैषा क्षमा स्मृता ॥ ४५
स्वामिनाऽरक्ष्यमाणानामुत्सृष्टानां च सत्सु च । परस्वानामनादानमलोभ इह कीर्त्यते ॥ ४६
मैथुनस्यासमाचारो ह्यचिन्तनमकल्पनम् । निवृत्तिर्ब्रह्मचर्यं तदाच्छिद्रं दम उच्यते ॥ ४७
आत्मार्थं वा परार्थं वा इन्द्रियाणीह यस्य वै । न मिथ्या संप्रवर्तन्ते शमस्यैतत्तु लक्षणम् ॥ ४८
दशात्मके यो विषये कारणे चाष्टलक्षणे । न क्रुध्येत्तु प्रतिहतः स जितात्मा विभाव्यते ॥ ४९
यद्यदिष्टतमं द्रव्यं न्यायेनोपागतं च यत् । तत्तद्गुणवते देयमित्येतद्दानलक्षणम् ॥
दानं त्रिविधमित्येतत्कनिष्ठज्येष्ठमध्यमम् । तत्र नैःश्रेयसं ज्येष्ठं कनिष्ठं स्वार्थसिद्धये ॥
कारुण्यात्सर्वभूतेभ्यः सुविभागस्तु बन्धुषु ॥ ५०
श्रुतिस्मृतिभ्यां विहितो धर्मो वर्णाश्रमात्मकः । शिष्टाचाराविरुद्धश्च धर्मः सत्साधुसङ्गतः ॥ ५१
अपद्वेषो ह्यनिष्टेषु तथेष्टानभिनन्दनम् । प्रीतितापविषादेभ्यो विनिवृत्तिर्विरक्तता ॥ ५२
संन्यासः कर्मणो न्यासः कृतानामकृतैः सह । कुशलाकुशलानां च प्रहाणं त्याग उच्यते ॥ ५३
अव्यक्ताद्योऽविशेषाच्च विकाराऽस्मिन्नचेतने । चेतनाऽचेतनान्यत्वविज्ञानं ज्ञानमुच्यते ॥ ॥ ५४

२६

Page 211Permalink

२०२ श्रीमद्द्वैपायनमुनिप्रणीतम्— [अ०५९–श्लो० ५५–७७] (ऋषिलक्षणम् )

प्रत्यङ्गानां तु धर्मस्य इत्येतल्लक्षणं स्मृतम् । ऋषिभिर्धर्मतत्त्वज्ञैः पूर्वे स्वायंभुवेऽन्तरे ॥ ५५
अत्र वो वर्तयिष्यामि विधिर्मन्वन्तरस्य यः । इतरेतरवर्णस्य च तुर्वर्णस्य चैव हि ॥
प्रतिमन्वन्तरं चैव श्रुतिरन्या विधीयते ॥ ५६
ऋचो यजूंषि सामानि यथावत्प्रतिदैवतम् । आभूतसंप्लवस्थायि वर्ज्यैकं शतरुद्रियम् ॥ ५७
विधिर्होत्रं तथा स्तोत्रं पूर्ववत्संप्रवर्तते । द्रव्यं स्तोत्रं गुणस्तोत्रं कर्मस्तोत्रं तथैव च ॥
चतुर्थमाभिजनिकं स्तोत्रमेतच्चतुर्विधम् ॥ ५८
मन्वन्तरेषु सर्वेषु यथा देवा भवन्ति ये । प्रवर्तयति तेषां वै ब्रह्मा स्तोत्रं चतुर्विधम् ॥
एवं मन्त्रगुणानां च समुत्पत्तिश्चतुर्विधा ॥ ५९
अथर्वयजुषां साम्नां वेदेष्विह पृथक्पृथक् । ऋषीणां तप्यतामुग्रं तपः परमदुश्चरम् ॥ ६०
मन्त्राः प्रादुर्बभूवुर्हि पूर्वमन्वन्तरेष्विह । परितोषाद्भयाद्वाद्दुःखात्सुखाच्छोकाच्च पञ्चधा ॥ ६१
ऋषीणां तपः कात्स्न्र्येन दर्शनेन यदृच्छया । ऋषीणां यदृषित्वं दि तद्वक्ष्यामीह लक्षणैः ॥ ६२
अतीतानागतानां तु पञ्चधा ऋषिरुच्यते । अतस्त्वृषीणां वक्ष्यामि ह्यार्षस्य स समुद्भवम् ॥ ६३
गुणसाम्ये वर्तमाने सर्वसंप्लये तदा । अतिचारे तु देवानामविद्देशे तयोर्यथा ॥ ६४
अबुद्धिपूर्वकं तद्वै चेतनार्थं प्रवर्तते । तेन ह्यबुद्धिपूर्वं तच्चेतनेन ह्यधिष्ठितम् ॥ ६५
वर्तने च यथा तौ तु यथा मत्स्योदके उभौ । चेतनाधिष्ठिते तत्त्वं प्रवर्तति गुणात्मना ॥ ६६
कारणत्वात्तथा कार्यं तदा तस्य प्रवर्तते । विषयं विषयित्वाच्च ह्यर्थेऽर्थित्वात्तथैव च ॥ ६७
कालेन पापणीयेन भेदास्तु कारणात्मकाः । संसिध्यन्ति तदा व्यक्ताः क्रमेण महदादयः ॥ ६८
महतश्चाप्यहंकारस्तस्माद्भूतेन्द्रियाणि च । भूतभेदास्तु भेदेभ्यो जज्ञिरे ते परस्परम् ॥
सांसिद्धिकारणं कार्यं सद्य एव विवर्तते ॥ ६९
यथोलमुकस्फुटदूर्ध्वमेककालं प्रवर्तते । तथा विवृत्तः क्षेत्रज्ञः कालेनैकेन कर्मणा ॥ ७०
यथान्धकारे खद्योतः सहसा संप्रदृश्यते । तथा विवृत्तो ह्यव्यक्तात्खद्योत इव चालवणः ७१
स महान्सशरीरस्तु यत्रैवाग्रे व्यवस्थितः । तत्रैव संस्थितो विद्वान्द्वारशालामुखे स्थितः ॥ ७२
महांस्तु तमसः पारे वैलक्षण्याद्विभाष्यते । तत्रैव संस्थितो विद्वांस्तमसाऽन्त इति श्रुतिः ॥ ७३
बुद्धिविर्वर्तमानस्य प्रादुर्भूता चतुर्विधा । ज्ञानं वैराग्यमैश्वर्यं धर्मश्चेति चतुष्टयम् ॥ ७४
सांसिद्धिकान्यथैतानि सुप्रतीकानि तस्य वै । महतः सशरीरस्य वैवत्यात्सिद्धिरुच्यते ॥ ७५
अत्र शेते च यत्पुर्यां क्षेत्रज्ञानमथापि वा । पुरीशत्वाच्च पुरुषः क्षेत्रज्ञानात्समुच्यते ॥ ७६
क्षेत्रज्ञः क्षेत्रविज्ञानाद्भगवान्मतिरुच्यते । यस्माद्बुबुद्धाऽनु शेते ह तस्माद्बोधात्मकः स वै ॥
संसिद्धये परिगतं व्यक्ताव्यक्तमचेतनम् ॥ ७७

Page 212Permalink

[अ० ५९ श्लो० ७८-९७] वायुपुराणम् । २०३

( ऋषिलक्षणम् )

एवं निवृत्तिः क्षेत्रज्ञा क्षेत्रज्ञेनाभिसंहिता । क्षेत्रज्ञेन परिज्ञातो भोग्योऽयं विषयस्त्विति ॥ ७८ ऋषीत्येष गतौ धातुः श्रुतौ सत्ये तपस्यथ । एतत्संनियतस्तस्मिन्ब्रह्मणा स ऋषिः स्मृतः ॥ ७९ निवृत्तिसमकालं तु बुद्ध्याऽऽव्यक्तमृषिः स्वयम् । परं हि ऋषते यस्मात्परमर्षिस्ततः स्मृतः ॥ ८० गत्यर्थादृषतेर्द्धातोर्नामानिर्वृत्तिरादितः । यस्मादेष स्वयंभूतस्तस्माच्च ऋषिता स्मृता ॥ ईश्वराः स्वयमुद्भूता मानसा ब्रह्मणः सुताः ॥ ८१ यस्मान्न हन्यते मानैर्महान्परिगतः पुरः । [* यस्माऽदृषन्ति ये धीरा महान्तं सर्वतो गुणैः ॥ तस्मान्महर्षयः प्रोक्ता बुद्धेः परमदर्शिनः :] ॥ ८२ ईश्वराणां शुभास्तेषां मानसा औरसाश्च ते । अहंकारं तपश्चैव त्यक्त्वा च ऋषितां गताः ॥ ८३ तस्मात्तु ऋषयस्ते वै भूतादौ तत्त्वदर्शनाः । ऋषिपुत्रा ऋषीकास्तु मैथुनाद्गर्भसंभवाः ॥ ८४ तन्मात्राणि च सत्यं च ऋषन्ते ते महौजसः । सप्तर्षयस्ततस्ते वै परमाः सत्यदर्शनाः ॥ ८५ ऋषीणां च सुतास्ते तु विज्ञेया ऋषिपुत्रकाः । ऋषन्ति वै श्रुतं यस्माद्विशेषां चैव तत्त्वतः ॥ तस्माच्छ्रुतर्षयस्तेपि श्रुतस्य परिदर्शनात् ॥ ८६ अव्यक्तात्मा महात्मा चाहंकारात्मा तथैव च । भूतात्मा चेन्द्रियात्मा च तेषां तज्ज्ञानमुच्यते ॥ इत्येता ऋषिजातिस्तु नामाभिः पञ्च वै शृणुः ॥ ८७ भृगुर्मरीचिरत्रिश्च अङ्गिराः पुलहः क्रतुः । मनुर्दक्षो वशिष्ठश्च पुलस्त्यश्चेति ते दश ॥ ब्रह्मणो मानसा ह्येत उद्भूताः स्वयमीश्वराः ॥ ८८ प्रवर्तत ऋषेर्यस्मान्महांस्तस्मान्महर्षयः । ईश्वराणां सुतस्त्वेव ऋषयस्तान्निबोधत ॥ ८९ काव्यो बृहस्पतिश्चैव कश्यपश्चोशनास्तथा । उतथ्यो वामदेवश्च अयोज्यश्चौशिजस्तथा ॥ ९० कर्दमो विश्रवाः शक्तिर्वालखिल्यस्तथा धराः । इत्येत ऋषयः प्रोक्ता ज्ञानतो ऋषितां गताः ॥ ९१ ऋषिपुत्रानृषीकांस्तु गर्भोत्पन्नान्निबोधत । वत्सरो नग्रहश्चैव भारद्वाजस्तथैव च ॥ ९२ बृहदुक्थः शारद्वतश्च अगस्त्यश्चौशिजस्तथा । ऋषिर्दीर्घतमाश्चैव बृहदुक्थ शरद्वतः ॥ ९३ वाजश्रवाः सुवित्तश्च सुवाग्वेषपरायणः । दधीचः शङ्खमांश्चैव राजा वैश्रवणस्तथा ॥ इत्येत ऋषिकाः प्रोक्तास्ते सत्यादृषितां गताः ॥ ९४ ईश्वरा ऋषिकाश्चैव ये चान्ये वै तथा स्मृता । एते मन्त्रकृतः सर्वे कृत्स्नशस्तान्निबोधत ॥ ९५ भृगुः काव्यः प्रचेतास्तु दधीचो ह्यात्मवानपि । और्वोऽथ जमदग्निश्च विदः सारस्वतस्तथा ॥ ९६ अद्रिषेणो ह्यरूपश्च वीतहव्यः सुमेधसः । वैन्यः पृथुर्दिवोदासः पश्चास्योगृत्समत्प्रभः ॥ एकोनविंशदित्येत ऋषयो मन्त्रवादिनः ॥ ९७


  • धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति ।
Page 213Permalink

२०४ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ५९, श्लो० ९८--१२२] (ऋषिलक्षणम्)

अङ्गिरा वेधसश्चैव भारद्वाजोऽथ बाष्कलिः । तथाऽमृतस्तथा गार्ग्यः शेनी संहतिरेव च ॥ ९८ पुरुकुत्सोऽथ मांधाता अम्बरीषस्तथैव च । युवनाश्वः पौरुकुत्सस्त्रसदस्यूः सदस्युमान् ॥ ९९ आहार्योऽथाजमीढश्च ऋषभो बलिरेव च । पृषदश्वो विरूपश्च कण्वश्चैवाथ मुद्गलः ॥ १०० उतथ्यश्च भरद्वाजस्तथा वाजश्रवा अपि । आयाप्यश्च सुवित्तिश्च वामदेवस्तथैव च ॥ १०१ औगजो बृहदुक्थश्च ऋषिर्दीर्घतपस्तथा । कक्षीवांश्च त्रयस्त्रिंशत्स्मृता अङ्गिरसो वराः ॥ एते मन्त्रकृतः सर्वे काश्यपांस्तु निबोधत ॥ १०२ कश्यपश्चैव वत्सारो विभ्रमो रैभ्य एव च । असितो देवलश्चैव षडेते ब्रह्मवादिनः॥ १०३ अत्रिरर्चिसनश्चैव श्यामावांश्चाथ निष्ठुरः । वल्गूतको मुनिर्धीमांस्तथा पूर्वातिथिश्थ यः ॥ इत्येते चात्रयः प्रोक्ता मन्त्रकारा महर्षयः ॥ १०४ वसिष्ठश्चैव शक्तिश्च तथैव च पराशरः । चतुर्थ इन्द्रप्रमतिः पञ्चमस्तु भरद्वसुः ॥ १०५ षष्ठस्तु मैत्रावरुणः कुण्डिनः सप्तमस्तथा । * एते सप्तर्षयो विप्रा ब्रह्मक्षेत्रनिवासिनः ॥ १०६ ब्रह्मक्षेत्रं महातीर्थं ब्रह्मणा निर्मितं पुरा । + कुरुक्षेत्रे पुण्यतमे पितामहनिषेविते ॥ १०७ देवानां च ऋषीणां च मुनीनां तत्र सङ्गमः । ब्रह्मणा च कृतं प्रश्नं क दृष्टा वायुदेवता ॥ १०८ ऋषिगणैस्तदा प्रोक्तं न दृष्टा (ष्टा) वायुदेवता । इति चिन्तयतां तेषामणुमात्रस्तु दृष्टवान् ॥ १०९ दृष्टं पुरं च तत्राऽऽसीद्वायोर्नाम्ना पुरं परम् । [× अष्टादशसहस्राणि द्विजाः संस्थापितास्तदा ॥ ११० शूद्रास्ताद्विगुणास्तत्र स्थापिता मातरिश्वना । तानुवाच ततो देवो मातरिश्वा महाविभुः ॥ १११ यूयं मद्द्भक्तिकर्तारो मन्नाम्ना ख्यातिमाप्नुथ । द्वयं दूतं नु प्रत्येकं द्विजान्भजत भो द्विजाः ॥ ११२ भवतां तु भविष्यन्ति गोत्रा ह्ये (ण्ये) कादशैव हि । विवाहकालोऽभिमतश्चत्वरस्नपनादरः ॥ ११३ तत्राकोत्सासिहस्तास्तु रक्ष्याः सुबलिनो नराः । तत्र स्नानं न पश्यन्ति यथाऽन्ये स विधिः शुभः ॥ गोत्रजायाश्च नैवेद्यं तथाकार्यं पृथक्पृथक् । चतस्रः सुभगास्तत्र कुर्युः कुण्डनमादरात् ॥ ११५ एवमेष कुलाचारो भवतां कथितः कियान् । मर्जुनेन च वापीयं भवज्वरविनाशिनी ॥ ११६ अस्यां नान्याधिकारोऽस्ति मर्जुने मर्त्यपुङ्गवाः । षट् स्थानानि च मन्नाम्ना दृष्ट्वा पूतो भवेन्नरः । ) तत्तीर्थं भुवि विख्यातं हनूमान्यत्र जीवितः । तत्र वै स्थापिता विप्रा वायुना ब्रह्मवादिना ॥ ११८ देवत्रयाणामादेशाद्धर्मसंरक्षणाय च । यत्र रुद्रः स्थिरस्त्वाऽऽसीद्दिक्षु सर्वासु मूर्त्तिमान् ॥ ११९ वाडादित्यश्च देवेशः स्थापितो वायुना तदा । कामदः सर्वदः सूर्यो प्रभुरीशः प्रतापवान् ॥ १२० सहस्रकरसंयुक्तः सर्वायुधविभूषितः । रत्नादेवीयुतः श्रीमांस्त्रयाधःरत्नयीमयः ॥ १२१ सूर्यकुण्डं च तत्राऽऽसीद्ब्रह्मकुण्डमतः परम् । रुद्रकुण्डं हरेः कुण्डमेतत्कुण्डचतुष्टयम् ॥ १२२


* एते सप्तर्षय इत्यारभ्य विधेया ब्राह्मणस्य त्वित्यन्तग्रन्थः क. ग. ङ. पुस्तकेषु नास्ति ।
+ इदमर्धं नास्ति घ. पुस्तके । × धनुश्चिह्नान्तर्गतग्रन्थः ख. पुस्तके नास्ति ।

Page 214Permalink

[अ० ५९।६० श्लो १२३-१४२।१-२] वायुपुराणम् । २०५

( महास्थानतीर्थवर्णनम् )

( * नव दुर्गाः स्थितास्तत्र क्षेत्रसंरक्षणाय च । वह्निद्वयं त्रिगुण्येशं तथा यज्ञचतुष्टयम् ) ॥ १२३
विवाहव्रतचूडासु करं तेषां प्रदीयते । आचारा विविधाः प्रोक्ता वाडवानां प्रयत्नतः ॥ १२४
तावन्तो द्विगुणाः शूद्रा यावन्तो ब्राह्मणाः स्मृताः । कुशरूपा द्विजाः पूर्वं मूर्तिमन्तस्ततः स्थिताः
मन्त्रैर्मन्त्रविदां श्रेष्ठैः कृता वै शास्त्रकोविदैः । वापीकूपतडागानि देवायतनानि च ॥ १२६
धर्मशालाऽपि बहुला वायुस्थाने महापुरे । रत्नावती स्वर्णमयी गङ्गा चामृतवाहिनी ॥ १२७
कलौ दृषद्वती नाम महापातकनाशिनी । वायुना स्थापितं ह्येतच्छासनं पापनाशनम् ॥ १२८
सुबन्दनं वनं तत्र रम्यं राजर्षिसेवितम् । एतत्स्थानं मया प्रोक्तं सर्वेषां च समासतः ॥ १२९
निरू(रु)पमाश्च ते विप्रा वायुना स्थापिताश्च ये । उपमा चैव देवेशि विधेया ब्राह्मणस्य तु॥ ]
( + सुद्युम्नाश्चाष्टमश्चैव नवमोऽथ बृहस्पतिः । दशमस्तु भरद्वाजो मन्त्रब्राह्मणकारकाः ॥ १३१
एते चैव हि कर्तारो विधर्मध्वंसकारिणः ) । लक्षणं ब्रह्मणश्चैतद्विहितं सर्वशाधिनाम् ॥ १३२
हेतुर्हितेः स्मृतो धातोर्यन्निहन्त्युदितं परैः । अथ वार्थपरिप्रोतेर्हिनोतेर्गतिकर्मणः ॥ १३३
तथा निर्वचनं ब्रूयाद्वाक्यार्थस्यावधारणम् । निन्दां तामाहुराचार्या यद्दोषानिन्द्यते वचः ॥ १३४
प्रपूर्वाच्छंसतेर्धातोः प्रशंसा गुणवत्तया । इदं त्विदमिदं नेदमित्यानिश्चित्य संशयः ॥ १३५
इदमेव विधातव्यमितीयं विधिरुच्यते । अन्यस्यान्यस्य चोक्तत्वाद्बुधाः परकृतिः स्मृता ॥ १३६
यो ह्यत्यन्तपरोक्षश्च पुराकल्पः स उच्यते । पुरा विक्रान्तवाचित्वात्पुराकल्पस्य कल्पना ॥ १३७
मन्त्रब्राह्मणकल्पैस्तु निगमैः शुद्धविस्तरैः । अनिश्चित्य कृतामाहुर्व्यवधारणकल्पनाम् ॥ १३८
यथा हीदं तथा तद्वै इदं वापि तथैव तत् । इत्येष ह्युपदेशोऽयं दशमो ब्राह्मणस्य तु ॥ १३९
इत्येतद्ब्राह्मणस्याऽदौ विहितं लक्षणं बुधैः । तस्य तद्वृत्तिरुद्दिष्टा व्याख्याऽप्यनुपदं द्विजैः ॥ १४०
मन्त्राणां कल्पनं चैव विधिदृष्टेषु कर्मसु । मन्त्रो मन्त्रयतेर्धातोर्ब्राह्मणो ब्रह्मणोऽवनात् ॥ १४१
अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ॥ १४२

इति श्रीमहापुराणे वायुप्रोक्ते ऋषिलक्षणं नामोनषष्ट्यध्यायः ॥ ५९ ॥
आदितः श्लोकानां समष्ट्यङ्काः--४८२५


अथ षष्ट्यध्यायः ।

महास्थानतीर्थवर्णनम्

ऋषय ऊचुः--
ऋषयस्तद्वचः श्रुत्वा सूतमाहुः सुदुस्तरम् । कथं वेदाः पुरा व्यस्तास्तन्नो ब्रूहि महामते ॥ १

सूत उवाच--
द्वापरे तु परावृत्ते मनोः स्वायंभुवेऽन्तरे । ब्रह्मा मनुमुवाचेदं तद्गादिष्ये महामते ॥ २


* धनुश्चिह्नान्तर्गतग्रन्थो घ. पुस्तके नास्ति । + धनुश्चिह्नान्तर्गतग्रन्थः ख. ग. घ. ङ. पुस्तकेषु नास्ति ।

भ्रश्यमानं युगवशादल्पशिष्टं हि दृश्यते । दशसाहस्रभागेन ह्यवशिष्टं कृतादिदम् ॥ ४

Page 215Permalink
२०६श्रीमद्द्वैपायनमुनिप्रणीतम्–[अ० ६० श्लो० ३–२८]<br>( महास्थानतीर्थवर्णनम् )

परिवृत्ते युगे तात स्वल्पवीर्या द्विजातयः । संवृत्ता युगदोषेण सर्वे चैव यथाक्रमम् ॥ ३
भ्रश्यमानं युगवशादल्पशिष्टं हि दृश्यते । दशसाहस्रभागेन ह्यवशिष्टं कृतादिदम् ॥ ४
वीर्यं तेजो बलं वाक्यं सर्वं चैव प्रणश्यति । वेदवेदा हि कार्याः स्युर्माभूद्वेदविनाशनम् ॥ ५
वेदे नाशमनुप्राप्ते यज्ञो नाशं गमिष्यति । यज्ञे नष्टे देवनाशस्ततः सर्वं प्रणश्यति ॥ ६
आद्यो वेदचतुष्पादः शतसाहस्रसंज्ञितः । पुनर्दशगुणः कृत्स्नो यज्ञो वै सर्वकामधुक् ॥ ७
एवमुक्तस्तथेत्युक्त्वा मनुर्लोकहिते रतः । वेदमेकं चतुष्पादं चतुर्था व्यभजत्प्रभुः ॥ ८
ब्रह्मणो वचनात्तात लोकानां हितकाम्यया । तदिदं वर्तमानेन युष्माकं वेदकल्पनम् ॥ ९
मन्वन्तरेण वक्ष्यामि व्यतीतानां प्रकल्पनम् । प्रत्यक्षेण परोक्षं वै तन्निबोधत सत्तमाः ॥ १०
अस्मिन्युगे कृतो व्यासः पाराशर्यः परंतपः । द्वैपायन इति ख्यातो विष्णोरंशः प्रकीर्तितः ॥ ११
ब्रह्मणा चोदितः सोऽस्मिन्वेदं व्यस्तुं प्रचक्रमे । अथ शिष्यान्स जग्राह चतुरो वेदकारणात् ॥ १२
जैमिनिं च सुमन्तुं च वैशम्पायनमेव च । पैलं तेषां चतुर्थं तु पञ्चमं लोमहर्षणम् ॥ १३
ऋग्वेदश्रावकं पैलं जग्राह विधिवद्द्विजम् । यजुर्वेदप्रवक्तारं वैशम्पायनमेव च ॥ १४
जैमिनिं सामवेदार्थश्रावकं सोऽन्वपद्यत । तथैवाथर्ववेदस्य सुमन्तुमृषिसत्तमम् ॥ १५
इतिहासपुराणस्य वक्तारं सम्यगेव हि । मां चैव प्रतिजग्राह भगवानीश्वरः प्रभुः ॥ १६
एक आसीद्यजुर्वेदस्तं चतुर्था व्यकल्पत् । चतुर्होत्रमभूतस्मिंस्तेन यज्ञमकल्पयत् ॥ १७
आध्वर्यवं यजुर्भिस्तु ऋग्भिर्होत्रं तथैव च । उद्गात्रं सामाभिश्चक्रे ब्रह्मत्वं चाप्यथर्वाभिः ॥
ब्रह्मत्वमकरोद्यज्ञे वेदेनाथर्वणेन तु ॥ १८
ततः स ऋतमुद्धृत्य ऋग्वेदं समकल्पयत् । होत्रकं कल्प्यते तेन यज्ञवाहं जगद्धितम् ॥ १९
सामाभिः सामवेदं च तेनोद्गात्रमरोचयत् । राज्ञस्त्वथर्ववेदेन सर्वकर्माण्यकारयत् ॥ २०
आख्यानैश्चाप्युपाख्यानैर्गाथाभिः कुलकर्मभिः । पुराणसंहितां चक्रे पुराणार्थविशारदः ॥ २१
याच्छिष्टं तु यजुर्वेदं तेन यज्ञमथायुजत् । युञ्जानः स यजुर्वेद इति शास्त्रविनिश्चयः ॥ २२
पदानामुद्धृतत्वाच्च यजूंषि विषमाणि वै । स तेनोद्धृतवीर्यस्तु ऋत्विग्भिर्वेदपारगैः ॥
प्रयुज्यते ह्यश्वमेधस्तेन वा युज्यते तु सः ॥ २३
ऋचो गृहीत्वा पैलस्तु व्यभजत्तद्विधा पुनः । द्विः कृत्वा संयुगे चैव शिष्याभ्यामददात्प्रभुः ॥ २४
इन्द्रप्रमतये चैकां द्वितीयां बाष्कलाय च । चतस्रः संहिताः कृत्वा बाष्कलिर्द्विजसत्तमः ॥
शिष्यानध्यापयामास शुश्रूषाभिरतान्हितान् ॥ २५
बोध्यं तु प्रथमां शाखां द्वितीयामभिमांढरम् । पराशरं तृतीयां तु याज्ञवल्क्यमथापराम् ॥ २६
इन्द्रप्रमतिरेकां तु संहितां द्विजसत्तमः । अध्यापयन्महाभागं मार्कण्डेयं यशस्विनम् ॥ २७
सत्यश्रवसमग्यं तु पुत्रं स तु महायशाः । सत्याश्रवाः सत्यहितं पुनरध्यापयद्विजः ॥ २८

Page 216Permalink

[अ० ६० श्लो २९-४७] वायुपुराणम् । २०७ ( महास्थानतीर्थवर्णनम् ) सोऽपि सत्यतरं पुत्रं ु नरध्यापयद्विभुः । सत्यश्रियं महात्मानं सत्यधर्मपरायणम् ॥ २९ अभवंस्तस्य शिष्या वै त्रयस्तु सुमहौजसः । सत्यश्रियस्तु विद्वांसः शास्त्रग्रहणतत्पराः ॥ ३० शाकल्यः प्रथमस्तेषां तस्मादन्यो रथान्तरः । बाष्कालिश्च भरद्वाज इति शाखाप्रवर्तकाः ॥ ३१ देवमित्रस्तु शाकल्यो ज्ञानाहंकारगर्वितः । जनकस्य स यज्ञे वै विनाशमगमद्द्विजः ॥ ३२

शांशपायन उवाच-- कथं विनाशमगमत्स मुनिर्ज्ञानगर्वितः । जनकस्याश्वमेधेन कथं वादो बभूव ह ॥ ३३ किमर्थं चाभवद्वादः केन सार्धमथापि वा । सर्वमेतद्यथावृत्तमाचक्ष्व विदितं तव ॥ ऋषीणां तु वचः श्रुत्वा तदुत्तरमथाब्रवीत् ॥ ३४

सूत उवाच-- जनकस्याश्वमेधे तु महानासीत्समागमः । ऋषीणां तु सहस्राणि तत्राऽऽजग्मुरनेकंशः ॥ राजर्षेर्जनकस्याथ तं यज्ञं हि दिदृक्षव ॥ ३५ आगतान्ब्राह्मणान्दृष्ट्वा जिज्ञासाऽस्याभवत्ततः । को न्वेषां ब्राह्मणः श्रेष्ठः कथं मे निश्चयो भवेत् ॥ इति निश्चित्य मनसा बुद्धिं चक्रे जनाधिपः ॥ ३६ गवां सहस्रमादाय सुवर्णमधिकं ततः । ग्रामान्रत्नानि दासांश्च मुनीन्प्राह नराधिपः ॥ ३७ सर्वांनहं प्रसन्नोऽस्मि शिरसा श्रेष्ठभागिनः ॥ ३८ यदेदाहृतं वित्तं यो वः श्रेष्ठतमो भवेत् । तस्मै तदुपनीतं हि विद्यावित्तं द्विजोत्तमाः ॥ जनकस्य वचः श्रुत्वा मुनयस्ते श्रुतिक्षमाः । दृष्ट्वा धनं महासारं धनवृद्ध्या जिघृक्षवः ॥ ३९ आह्वयांचकुरन्योन्यं वेदज्ञानमदोल्वणाः ॥ मनसा गतचित्तास्ते ममेदं धनमित्युत । ममैवैतन्नचेतन्यन्यो ब्रूहि किं वा विकल्प्यते ॥ इत्येव धनदोषेण वादांश्चकुरनेकंशः ॥ ४० तथाऽन्यस्तत्र वै विद्वान्ब्रह्मवाहसुतः कविः । याज्ञवल्क्यो महातेजास्तपस्वी ब्रह्मवित्तमः ॥ ४१ ब्रह्मणोऽङ्गात्समुत्पन्नो वाक्यं प्रोवाच सुस्वरम् । शिष्यं ब्रह्मविदां श्रेष्ठो धनमेतद्गृहाण भोः ॥ ४२ नयस्व च गृहंत्वत्स ममैतन्नात्र संशयः । सर्ववेदेष्वहं वक्ता नान्यः कश्चित्तु मत्समः ॥ यो वा न मीयते विप्रः स मे ह्वयतु मा चिरम् ॥ ४३ ततो ब्रह्मार्णवः क्षुब्धः समुद्र इव संप्लवे । तानुवाच ततः स्वस्थो याज्ञवल्क्यो हसन्निव ॥ ४४ क्रोधं मा कार्षुविद्वांसो भवन्तः सत्यवादिनः । वदामहे यथायुक्तं जिज्ञासन्तः परस्परम् ॥ ४५ ततोऽभ्युपागमंस्तेषां वादा जग्मुरनेकंशः । सहस्रधा शुभैरर्थैः सूक्ष्मदर्शनसंभवैः ॥ ४६ लोके वेदे तथाऽध्यात्म विद्यास्थानैरंलकृताः । शापोत्तमगुणैर्युक्ता नृपोधपरिर्वरजनाः ॥ वादाः समभवंस्तत्र धनेहेतोर्महात्मनाम् ॥ ४७

Page 217Permalink

२०८ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ० ६० श्लो० ४८-६९] ( महास्थानतीर्थवर्णनम् )

ऋषयस्त्वेकतः सर्वे याज्ञवल्क्यस्तथैकतः । सर्वे ते मुनवस्तेन याज्ञवल्क्येन धीमता ॥ ऐकैकशतस्तः पृष्टा नैवोत्तरमथाब्रुवन् ॥ ४८ तान्विजित्य मुनीन्सर्वान्ब्रह्मराशिर्महाद्युतिः । शाकल्यामिति होवाच वादकर्तारमञ्जसा ॥ ४९ शाकल्य वद वक्तव्यं किं ध्यायन्नवतिष्ठसे । पूर्णस्त्वं जडमानेन वाताध्मातो यथा दृतिः ॥ ५० एवं स धर्षितस्तेन रोषात्ताम्रास्यलोचनः । प्रोवाच याज्ञवल्क्यं तं परुषं मुनिसंनिधौ ॥ ५१ त्वमस्मांस्तृणवत्कृत्वा तथैवेमान्द्विजोत्तमान् । विद्याधनं महासारं स्वयंग्राहं जिघृक्षसि ॥ ५२ शाकल्येनैवमुक्तः स याज्ञवल्क्यः समब्रवीत् । बलिष्ठानां बलं विद्धि विद्यातत्त्वार्थदर्शनम् ॥ ५३ कामश्चार्थेन संबद्धस्तेनार्थं कामयामहे । कामप्रश्नेधना विप्राः कामप्रश्नान्वदामहे ॥ ५४ पणश्चैषोऽस्य राजर्षेस्तस्मान्नीतं धनं मया । एतच्छ्रुत्वा वचस्तस्य शाकल्यः क्रोधमूर्च्छितः ॥ याज्ञवल्क्यमथोवाच कामप्रश्नार्थवद्वचः ॥ ५५ ब्रूहीदानीं मयोद्दिष्टान्कामप्रश्नान्यथार्थतः । ततः समभवद्वादस्तयोर्ब्रह्मविदोर्महान् ॥ ५६ साग्रं प्रश्नसहस्रं तु शाकल्यस्तमचूचुदत् । याज्ञवल्क्योऽब्रवीत्सर्वानृषीणां शृण्वतां तदा ॥ ५७ शाकल्ये चापि निर्वीदे याज्ञवल्क्यस्तमब्रवीत् । प्रश्नमेकं ममापि त्वं वद शाकल्य कामिकम् ॥ शापः पणोऽस्य वादस्य अब्रुवन्मृत्युमाव्रजेत् ॥ ५८ अथो सन्नोदितं प्रश्नं याज्ञवल्क्येन धीमता । शाकल्यस्तमविज्ञाय सद्यो मृत्युमवामुयात् ॥ ५९ एवं स्मृतः स शाकल्यः प्रश्नव्याख्यानपीडितः । एवं वादश्च सुमहानासीत्तेषां धनार्थिनाम् ॥ ऋषीणां मुनिभिः सार्धं याज्ञवल्क्यस्य चैव हि ॥ ६० सर्वैः पृष्टांस्तु संप्रश्नाञ्शतशोऽथ सहस्रशः । व्याख्यायं वै मुने तेषां प्रश्नसारं महागतिः ॥ ६१ याज्ञवल्क्यो धनं गृह्य यशो विख्याप्य चाऽऽत्मनः । जगाम वै गृहं स्वस्थः शिष्यैः परिवृतो वशी देवमित्रस्तु शाकल्यो महात्मा द्विजसत्तमः । चकार संहिताः पञ्च बुद्धिमान्पदवित्तमः ॥ ६३ तच्छिष्या अभवन्पञ्च मुद्गलो गोलकस्तथा । खलीयश्च तथा मत्स्यः शैशरेयस्तु पञ्चमः ॥ ६४ प्रोवाच संहितास्तिस्रः शाकपूर्णरथीतरः । निरुक्तं च पुनश्चक्रे चतुर्थं द्विजसत्तमः ॥ ६५ तस्य शिष्यास्तु चत्वारः केतवो दालाकिस्तथा । * धर्मशर्मा देवशर्मा सर्वे व्रतधरा द्विजाः ॥ ६६ शाकल्ये तु मृते सर्वे ब्रह्मघ्नास्ते बभूविरे । तदा चिन्तां परां प्राप्य गतास्ते ब्रह्मणोऽन्तिकम् ॥ ६७ ताञ्ज्ञात्वा चेतसा ब्रह्मा प्रेषितः पवने पुरे । तत्र गच्छत यूयं वः सद्यः पापं प्रणश्यति ॥ ६८ द्वादशार्कं नमस्कृत्य तथा वै वालुकेश्वरम् । एकादश तथा रुद्रान्वायुपुत्रं विशेषतः ॥ कुण्डे चतुष्टये स्नात्वा ब्रह्महत्यां तरिष्यथ ॥ ६९


* धनुश्चिह्नान्तर्गतग्रन्थो ग. ङ. पुस्तकेयोर्नास्ति ।

Page 218Permalink

[अ० ६०-६१ श्लो० ७०-७५।१-११] वायुपुराणम् । २०९

( प्रजापतिवंशानुकीर्तनम् )

सर्वे शीघ्रतरा भूत्वा तत्पुरं समुपागताः । स्नानं कृतं विधानेन देवानां दर्शनं कृतम् ॥ ७०
उत्तरेश्वरं नमस्कृत्य वाडवानां प्रसादतः । सर्वे पापविनिर्मुक्ता गतास्ते सूर्यमण्डलम् ॥ ७१
तदा प्रभृति तत्तीर्थं जातं पातकनाशनम् । वायोः पुरं पवित्रं च वायुना निर्मितं पुरा ॥ ७२
अञ्जनीगर्भसंभूतो हनुमान्पवनात्मजः । यदा जातो महादेव हनुमान्सत्यविक्रमः ॥
तदैव निर्मितं तीर्थं वायुना ब्रह्मयोनिना ॥ ७३
उर्व्यां जातास्तु ये शूद्रा ब्राह्मणानां निवेदिताः । वृत्यथं ब्रह्मयज्ञार्थं करस्तेषु कृतो महान ॥ ७४
अनेन विधिना जातं विप्राणां शासनं महत् । गोघ्नो वापि कृतघ्नो वा सुरापी गुंरुतल्पगः
वाडादित्यं नमस्कृत्य सर्वपापैः प्रमुच्यते ॥ ७५
इति श्रीमद्भापुराणे वायुप्रोक्ते महास्थानतीर्थवेदशाखाप्रणयवर्णनं नाम षष्ठ्याऽध्यायः ॥
आदितः श्लोकानां समष्टयङ्काः-४९००


अथैकषष्टयऽध्यायः ।

प्रजापतिवंशानुकीर्तनम् ।

ऋषय ऊचुः--
भारद्वाजो याज्ञवल्क्यो गालाकिः सालाकिस्तथा ] धीमाञ्शतवलाकश्र्च नैगमश्च द्विजोत्तमः ॥ १
बाष्कलिश्च भरद्वाजस्तिस्रः प्रोवाच संहिताः । रथींतरो निरुक्तं च पुनश्चक्रे चतुर्थकम् ॥ २
त्रयस्तस्याभवञ्छिष्या महात्मानो गुणान्विताः । श्रीमान्बन्दायनीयश्च पन्नगारिश्च बुद्धिमान् ॥
तृतीयश्चाऽऽर्यवस्ते च तपसा संशितव्रताः ॥ ३
वीतरागा * महातेजाः संहिताज्ञानपारगाः । इत्येते बह्वृचाः प्रोक्ताः संहिता यैः प्रवर्तिताः ॥ ४
वैशम्पायनगोत्रोऽसौ यजुर्वेदं व्यकल्पयत् । षडशीतिस्तु येनोक्ताः संहिता यजुषां शुभाः ॥ ५
शिष्येभ्यः प्रददौ ताश्च जगृहुस्ते विधानतः । एकस्तत्र परित्यक्तो याज्ञवल्क्यो महातपाः ॥
षडशीतिश्च तस्यापि संहितानां विकल्पकाः । ६
सर्वेषामेव तेषां वै त्रिधा भेदाः प्रकीर्तिताः । त्रिधा भेदास्तु ते प्रोक्ता भेदेऽस्मिन्नवमे शुभे ॥ ७
उदीच्या मध्यदेशाश्च प्राच्याश्चैव पृथग्विधाः । श्यामायर्निरुदीच्यानां प्रधानः संबभूव ह ॥ ८
मध्यदेशप्रतिष्ठानामारुणिः प्रथमः स्मृतः । आलम्बिरादिः प्राच्यानां त्रयोदश्यादयस्तु ते ॥ ९
इत्येते चरकाः प्रोक्ताः संहितावादिनो द्विजाः । ऋषयस्तद्वचः श्रुत्वा सूतं जिज्ञासवोऽब्रुवन् ॥ १०
चरकाध्वर्यवः केन कारणं ब्रूहि तत्त्वतः । किं चीर्णं कस्य हेतोश्च चरकत्वं च भेजिरे ॥
इत्युक्तः प्राह तेषां स चरकत्वमभूद्यथा ॥ ११


* आर्षत्वादेकवचनम् ।

२७

Page 219Permalink

२१० श्रीमद्वैपायनमुनिप्रणीतम्- [अ०६१ श्लो० १२-३३] ( प्रजापतिवंशानुकीर्तनम् )

सूत उवाच-- कार्यमासीदृषीणां च किंचिद्ब्राह्मणसत्तमाः । येरुष्टं मेस्तदा त्विति मन्त्रितम् ॥ १२ यो नोऽत्र सप्तरात्रेण नाऽगच्छेद्द्विजसत्तमाः । स कुर्याद्ब्रह्मवध्यां वै समयो नः प्रकीर्तितः ॥ १३ ततस्ते सगणाः सर्वे वैशम्पायनवज्जिताः । प्रययुः सप्तरात्रेण यत्र संधिः कृतोऽभवत् ॥ १४ ब्राह्मणानां तु वचनाद्ब्रह्मवध्यां चकार सः । शिष्यानथ समानीय स वैशम्पायनोऽब्रवीत् ॥ १५ ब्रह्मवध्यां चरध्वं वै मत्कृते द्विजसत्तमाः । सर्वे यूयं समागम्य ब्रूत मैतद्धितं वचः ॥ १६

याज्ञवल्क्य उवाच-- अहमेव चरिष्यामि तिष्ठन्तु मुनयास्त्विमे । बलं चोत्थापयिष्यामि तपसा स्वेन भावितः ॥ १७ एवमुक्तस्ततः क्रुद्धो याज्ञवल्क्यमथाब्रवीत् । उवाच यत्त्वयाऽधीतं सर्वं प्रत्यर्पयस्व मे ॥ १८ एवमुक्तः स रूपाणि यजूंषि प्रददौ गुरोः । रुधिरेण तथाक्तानि छर्दित्वा ब्रह्मवित्तमः ॥ १९ ततः स ध्यानमास्थाय सूर्यमाराधयद्विजाः । सूर्यब्रह्म यदुच्छिन्नं खं गत्वा प्रतितिष्ठति ॥ २० ततो यानि गतान्यूर्ध्वं यजूंष्यादित्यमण्डलम् । तानि तस्मै ददौ तुष्टः सूर्यो वै ब्रह्मरातये ॥ अश्वरूपाय मार्तण्डो याज्ञवल्क्याय धीमते ॥ २१ यजूंष्यधीयन्ते यानि ब्राह्मणा येन केन च । अश्वरूपाय दत्तानि ततस्ते वाजिनोऽभवन् ॥ २२ ब्रह्महत्या तु यैश्चीर्णा चरणाच्चरकाः स्मृताः । वैशम्पायनशिष्यास्ते चरकाः समुदाहृताः ॥ २३ इत्येते चरकाः प्रोक्ता वाजिनस्तान्निबोधत । याज्ञवल्क्यस्य शिष्यास्ते कण्ववैधेयशालिनः ॥ २४ मध्यन्दिनश्च शापेयी विदिग्धश्चाप्य उद्दलः । ताम्रायणश्च वात्स्यश्च तथा गालवशौषिरी ॥ आटवी च तथा पर्णी वीरणी सपरायणः ॥ २५ इत्येते वाजिनः प्रोक्ता दश पञ्च च संस्मृताः । शतमेकाधिकं कृत्स्नं यजुषां वै विकल्पकाः ॥ २६ पुत्रमध्यापयामास सुमन्तुमथ जैमिनिः । सुमन्तुश्चापि सुत्वानं पुत्रमध्यापयत्प्रभुः ॥

  • सुकर्माणं सुतं सुत्वा पुत्रमध्यापयत्प्रभुः । २७ स सहस्रमधीत्याऽऽशु सुकर्माऽप्यथ संहिताः । प्रोवाचाथ सहस्रस्य सुकर्मा सूर्यवर्चसः ॥ २८ अनध्यायेष्वधीयानांस्ताञ्घान शतक्रतुः । प्रायोपवेशमकरोत्ततोऽसौ शिष्यकारणात् ॥ २९ क्रुद्धं दृष्ट्वा ततः शक्रो वरमस्मै ददौ पुनः । भाविनौ ते महावीर्यौ शिष्यावनलवर्चसौ ॥ ३० शधीयानौ महाप्राज्ञौ सहस्रं संहितावभौ । एतौ सुरौ महाभागौ मा क्रुध्य द्विजसत्तम ॥ ३१ इत्युक्त्वा वासवः श्रीमान्सुकर्माणं यशस्विनम् । शान्तक्रोधं द्विजं दृष्ट्वा तत्रैवान्तरधीयत ॥ ३२ तस्य शिष्यो भवद्धीमान्पौष्यञ्जि द्विजसत्तमः । हिरण्यनाभः कौशल्यो द्वितीयोऽभून्नराधिपः ॥ ३३ .

  • इदमर्धं नास्ति ख. घ. पुस्तकयोः ।
Page 220Permalink

[ अ० ६१ - श्लो० ३४-५५ ]
वायुपुराणम् ।
३११
( प्रजापतिवंशानुकीर्तनम् )

अध्यापयत्तु पौष्यञ्जी सहस्रार्थं तु संहिताः । ते नाम्नोदीच्यसामान्याः शिष्याः पौष्यञ्जिनः शुभाः
शतानि पञ्च कौशिल्यः संहितानां च वीर्यवान् । शिष्या हिरण्यनाभस्य स्मृतास्ते प्राच्यसामगाः ॥
लोकाक्षी कुथुमिश्चैव कुशीती लाङ्गलिस्तथा । पौष्यञ्जिशिष्याश्चत्वारस्तेषां भेदान्निबोधत ॥ ३६

राणायनीयः सहितण्डितपुत्रस्तस्मादन्यो मूलचारी सुविद्वान् ।
सकैतिपुत्रः सहसात्यपुत्र एतान्भेदान्वित्त लोकाक्षिणस्तु ॥ ३७

त्रयस्तु कुथुमेः पुत्रा औरसो रसपासरः । भागवित्तिक्ष तेजस्वी त्रिविधाः कौथुमाः स्मृताः ॥ ३८
शौरिद्युः शृङ्गिपुत्रश्च द्वावेतौ चरितव्रतौ । राणायनीयः सौमित्रिः सामवेदविशारदौ ॥ ३९
प्रोवाच संहितास्तिस्रः शृङ्गिपुत्रो महातपाः । चैलः प्राचीनयोगश्च सुरालश्च द्विजोत्तमाः ॥ ४०
प्रोवाच संहिताः षट् तु पाराशर्य्यस्तु कौथुमः । आसुरायणवैशाख्यौ वेदवृद्धपरायणौ ॥ ४१
प्राचीनयोगपुत्रश्च बुद्धिमांश्च पतञ्जलिः । कौथुमस्य तु भेदास्ते पाराशर्यस्य षट् स्मृताः ॥ ४२
लाङ्गलिः शालिहोत्रश्च षट्षट् प्रोवाच संहिताः ॥
भालुकिः कामहानिश्च जैमिनिर्लोमगायिनिः । कण्डुश्च कीहलश्चैव षडेते लाङ्गलाः स्मृताः ॥ ४३
एते लाङ्गलिनः शिष्याः संहिता यैः प्रसाधिताः ॥
ततो हिरण्यनाभस्य कृतशिष्यो नृपात्मजः । सोऽकरोच्च चतुर्विंशत्संहिता द्विपदां वरः ॥ ४४
प्रोवाच चैव शिष्येभ्यो येभ्यस्तांश्च निबोधत ॥
राडश्च महवीर्यश्च पञ्चमो वाहनस्तथा । तालकः पाण्डकश्चैव कालिको राजिकस्तथा ॥ ४५
गौतमश्चाजबस्तश्च सोमराजाऽपतत्ततः ॥
पृष्टघ्नः परिकृष्टश्च उलूखलक एव च । यवीयसश्च वैशालो अङ्गुलीयश्च कौशिकः ॥ ४६
सालिमञ्जरिसत्यश्च कापीयः कानिकश्च यः । पराशरश्च धर्मात्मा इति क्रान्तास्तु सामगाः ॥ ४७
सामगानां तु सर्वेषां श्रेष्ठौ द्वौ तु प्रकीर्तितौ । पौष्यञ्जिश्च कृतिश्चैव संहितानां विकल्पकौ ॥ ४८
अथर्वाणं द्विधा कृत्वा सुमन्तुरददान्द्विजाः । कबन्धाय गुरुः कृत्स्नं स च विद्याद्यथाक्रमम् ॥ ४९
कबन्धस्तु द्विधा कृत्वा पथ्यायैकां पुनर्ददौ । द्वितीयं वेदस्पर्शाय स चतुर्धाऽकरोत्पुनः ॥ ५०
मोदो ब्रह्मबलश्चैव पिप्पलादस्तथैव च । शौष्कायनिश्च धर्मज्ञश्चतुर्थस्तपनः स्मृतः ॥ ५१
वेदस्पर्शस्य चत्वारः शिष्यास्त्वेते दृढव्रताः ॥
पुनश्च त्रिविधं विद्धि पथ्यानां भेदमुत्तमम् । जाजलिः कुमुदादिश्च तृतीयः शौनकः स्मृतः ॥ ५२
शौनकस्तु द्विधा कृत्वा ददावेकं तु बभ्रवे । द्वितीयां संहितां धीमान्सैन्धवायनासञ्जिते ॥ ५३
सैन्धवो मुञ्जकेशाय भिन्ना सा च द्विधा पुनः । नक्षत्रकल्पो वैतानस्तृतीयः संहिताविधिः ॥ ५४
चतुर्थोऽङ्गिरसः कल्पः शान्तिकल्पश्च पञ्चमः ॥
श्रेष्ठास्त्वथर्वणो ह्येते संहितानां विकल्पनाः । षट्शः कृत्वा मयाऽप्युक्तं पुराणमृषिसत्तमाः ॥ ५५