वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 99, कुल 355 में से
संदर्भ में पढ़ें७८ वेणीसंहारं नाटकं (प्रवेशं रूपयित्वा ।) प्रिये, अलब्धावकाशः समीरणसारः स्तिमित- त्वाद्गर्भगृहस्य । विस्रब्धमुन्मीलय चक्षुरुन्मृष्टरेणुनिकरम् । भानुमती - (सहर्षम् ।) दिट्ठिआ उह दाव उप्पादसमीरणो ण बाधेइ । (दिष्ट्येह तावदुत्पातसमीरणो न बाधते !) सखी- आरोहणसम्भमणिस्सहं पिअसहीए ऊरुजुअलम् । ता कीस दाणी महाराओ आसणवेदीं ण भूसेदि । (आरोहणसम्भ्रमनिःसहं प्रियसख्या ऊरुयुगलम् । तत्कस्मादिदानीं महाराज आसनवेदीं न भूषयति ।) राजा- (देवीमवलोक्य ।) भवति, अनल्पमेवापकृतं वात्यासम्भ्रमेण । तथाहि- समीरणः = वायुः, अलब्धावकाशः = अप्राप्तावस्थितिः प्रवेशायोग्य इत्यर्थः, गर्भ- गृहस्य = मध्यवेश्मनः, स्तिमितत्वात् = आवरणात्, उन्मृष्टरेणुनिकरम् = उन्मृष्टः पृथक् कृतः रेणुनिकरः (रजःसमूहः) यस्मात् तत्, चक्षुः = नेत्रम्, विस्रब्धम् = यथेच्छम्, उन्मीलय = उन्मीलितं कुरु, प्रस्फुटितं कुर्वित्यर्थः । दिष्ट्येति-दिष्ट्याशब्द आनन्दे 'दिष्ट्या समुपजोषं चेत्यानन्दे' इत्यमरः । आनन्दोऽयमित्यर्थः । उत्पातसमीरणः = अनिष्टसूचकवायुः । अथवा महावायुः । आरोहणसम्भ्रमनिःसहम् = आरोहणवेगस्यासहनशीलम्, ऊरुयुगलम् = सक्थिद्वयम् 'सक्थि क्लीबे पुमानूरुरि'त्यमरः । प्रियसख्याः = भानुमत्याः । आसनवेदीम् = उप- वेशनस्थानम्, न भूषयति = अलङ्करोति । कथं नासन उपविशतीत्यर्थः । भवति = भानुमति, अनल्पम् = अधिकम्, एव, अपकृतम् = अपकारः कृतः, वात्यासम्भ्रमेण = वायुसमूहवेगेन । (प्रवेश का अभिनय करते हुए) वल्लभे ! इस भवन के चारों ओर से घिरे रहने के कारण यहाँ झंझावात का सञ्चार सम्भव नहीं। अतः निश्शङ्क धूल पोंछकर आँखें खोलिए। भानुमती - बड़ी प्रसन्नता है कि यहाँ आँधी का वश नहीं चल रहा है। सखी - प्रियसखी के ऊरुद्वय चढ़ाई के कष्ट से आगे बढ़ने में असमर्थ हैं। फिर क्यों नहीं महाराज इस समय किसी चबूतरे को अलंकृत करते हैं? राजा- (देवी को देखकर) श्रीमती, इस वायुवेग ने महान् अपकार किया है। देखिये-