BharatKosha
Back to the archive

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

by महर्षि याज्ञवल्क्य

Source: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (origin)

DevanagariSanskritpublished782 pages
Page 382Permalink

३२६ याज्ञवल्क्यस्मृतिः

तद्विक्रेत्रे न प्रत्यर्पणीयम्; तदुक्तम्- 'क्रेता पण्यं परीक्षेत प्राक् स्वयं गुणदोषतः । परीक्ष्याभिमतं क्रीतं विक्रेतुर्न भवेत्पुनः ॥' ( ना० ३।८ ) इति ॥ १७७ ॥ भाषा-ब्रीहि आदि का बीज, लोहा, भार ढोने वाले बैल आदि पशु, रत्न, स्त्री (दासी) भैंस आदि दूध देने वाले पशु और पुरुष (दास) का क्रय के उपरान्त परीक्षण का काल क्रमशः दश, एक, पाँच, सात, दिन, एक मास, ३ दिन और एक पक्ष का होता है । (अर्थात् निर्दिष्ट समय के भीतर ही फेर बदल हो सकता है) ॥ १७७ ॥ दोह्यादिपरीक्षाप्रसङ्गेन स्वर्णादेरपि परीक्षामह- अग्नौ सुवर्णमक्षीणं ¹रजते द्विपलं शते । अष्टौ त्रपुणि सीसे च ताम्रे पञ्च दशायसि ॥ १७८ ॥ वह्नौ प्रताप्यमानं सुवर्णं न क्षीयते, अतः कटकादिनिर्माणार्थं यावत्स्वर्ण- कारहस्ते प्रक्षिप्तं तावत्तुलितं तैः प्रत्यर्पणीयम्; इतरथा क्षयं दाप्या दण्ड्याश्च । रजते तु शतपले प्रताष्यमाने पलद्वयं क्षीयते । अष्टौ त्रपुणि सीसे च, 'शते' इत्यनुवर्तते । त्रपुणि सीसे च शतपले प्रताष्यमानेऽष्टौ पलानि क्षीयन्ते । ताम्रे पञ्च, दशायसि,-ताम्रे शतपले पञ्चपलानि, अयसि दशपलानि क्षीयन्ते । अत्रापि 'शते' इत्येव । कांस्यस्य तु त्रपुताम्रयोनित्वात्त²दनुसारेण क्षयः कल्पनीयः । ³ततोऽधिकक्षयकारिणः शिल्पिनो दण्ड्याः ॥ १७८ ॥ भाषा-आग में तपाने पर सोना कम नहीं होता, चाँदी सौ में दो पल कम हो जाती है, पीतल और शीशा सौ में आठ पल, ताँबा पाँच पल और लोहा दस पल घट जाता है ॥ १७८ ॥ क्वचित्कम्बलादौ वृद्धिमाह- शते दशपला वृद्धिरौर्णे कार्पाससौत्रिके । मध्ये पञ्चपला वृद्धिः सूक्ष्मे तु त्रिपला मता ॥ १७६ ॥ स्थूलेनौर्णसूत्रेण यत्कम्बलादिकं क्रियते तस्मिन् शतपले दशपला वृद्धि- र्वेदितव्या । एवं कार्पाससूत्रनिर्मिते पटादौ वेदितव्यम् । मध्ये अनतिसूक्ष्म- सूत्रनिर्मिते पटादौ पञ्चपला वृद्धिः । सुसूक्ष्मसूत्ररचिते शते त्रिपला वृद्धिवैदि- तव्या । एतच्चाप्रक्षालितवासोविषयम् ॥ १७९ ॥ १. द्विपलं रजते शतम् । अष्टौ तु त्रपुसीसे च । २. तदंशानुसारेण । ३. इतोऽधिक । ४. कार्पासिके तथा, कार्पासकेऽथ वा । मध्ये पञ्चपला हानिः ।

Page 383Permalink

व्यवहाराध्यायः ३२७ भाषा-ऊन और कपास के मोटे सूत से कम्बल आदि बनाने में सौ पल में दस पल, मोटाई में मध्यम श्रेणी के सूत में पाँच पल और पतले सूत से बनी वस्तु में सौ पल में तीन पल की वृद्धि समझना चाहिए ॥ १७९ ॥ द्रव्यान्तरे विशेषमाह- कार्मिके रोमबद्धे च त्रिंशद्भागः क्षयो मतः । न क्षयो न च वृद्धिश्श्च कौशेये वोल्कलेषु च ॥ १८० ॥ कार्मिकं कर्मणा चित्रेण निर्मितम् । यत्र निष्पन्ने पटे चक्रहस्तिकादिकं चित्रं ३ सूत्रैः क्रियते तत्कार्मिकमित्युच्यते । यत्र प्रावारादौ ४ रोमाणि बध्यन्ते स रोमबद्धः, ५ तत्र त्रिंशत्तमो भागः क्षयो वेदितव्यः कौशेये कोशप्रभवे वाल्कलेषु वृक्षत्वङ्निर्मितेषु वस्त्रेषु वृद्धिक्षयौ न स्तः, किंतु यःवहयनार्थं कुविन्दादिभ्यो दत्तं तावदेव प्रद्यादेयम् ॥ १८० ॥ भाषा-कसीदाकारी, और किनारों में रोम बाँधने में तीसवें भाग का क्षय बताया जाता है । कौशेय और वल्कल के वस्त्र बनवाने में न तो कमी होती है और न वृद्धि ही होती है ॥ १८० ॥ द्रव्यानन्त्यात्प्रतिद्रव्यं क्षयवृद्धिप्रतिपादनाशक्तेः सामान्येन हासवृद्धिज्ञानो- पायमाह- देशं कालं च भोगं च ज्ञात्वा नष्टे बलाबलम् । द्रव्याणां कुशला ७ब्रूयुर्यत्तद्दाप्यमसंशयम् ॥ १८१ ॥ शाणक्षौमादौ द्रव्ये नष्टे ह्रासमुपगते द्रव्याणां कुशलाः द्रव्यवृद्धिक्षयाभिज्ञाः देशं कालमुपभोगं तथा नष्टद्रव्यस्य बलाबलं सारासारतां च परीक्ष्य यत्कल्प- यन्ति तदसंशयं शिल्पिनो दाप्याः ॥ १८१ ॥ भाषा-द्रव्य के नष्ट हो जाने पर देश, काल, भोग उस वस्तु की सारता और असारता जानकर उस द्रव्य के विषय में विशेष ज्ञान रखने वाले जितना कहें उतना ही ( शिल्पियों को ) दिलाना चाहिए ॥ १८१ ॥ इति क्रीतानुशयप्रकरणम् । अथाभ्युपेत्याशुश्रूषाप्रकरणम् १४ सांप्रतमभ्युपेत्याशुश्रूषाख्यमपरं विवादपदमभिधातुमुपक्रमते तत्स्वरूपं च नारदेनोक्तम् ( ५।१ ) - 'अभ्युपेत्य तु शुश्रूषां यस्तां न प्रतिपद्यते । अशु- १. वृद्धिः स्यात् । २. वाल्कले तथा. वहकलेषु. । ३. चित्रं सूत्रैः । ४. प्रान्तादौ । ५. रोमबन्धः । ६. यावद्वानार्थं । ७. यत्तद्दाप्या असंश्यम् यत्तद्दाप्यमृणद्वयम् ।

Page 384Permalink

३८८ याज्ञवल्क्यस्मृतिः श्रूषाभ्युपेत्यैतद्विवादपदमुच्यते ॥' इति । १आज्ञाकरणं शुश्रूषा, तामङ्गीकृत्य पश्चाद्यो न संपादयति तद्विवादपदमभ्युपेत्याशुश्रूषाख्यम् । शुश्रूषकश्च पञ्चविधः- शिष्योऽन्तेवासी भृतकोऽधिकर्मकृद्दास इति । तेषामाद्याश्चत्वारः कर्मकरा इत्यु- च्यन्ते । ते च शुभकर्मकारिणः । दासाः पुनर्गृहजातादयः पञ्चदशप्रकाराः- गृहद्वाराशुचिस्थानरथ्यावस्करशोधनाद्यशुभकर्मकारिणः । तदिदं नारदेन स्पष्टी- कृतम्-'शुश्रूषकः पञ्चविधः शास्त्रे दृष्टो मनीषिभिः । चतुर्विधः कर्मकरस्तेषां दासास्त्रिपञ्चकाः ॥ शिष्यान्तेवासिभृतकाश्चतुर्थस्त्वधिकर्मकृत् । एते कर्मकरा ज्ञेया दासास्तु गृहजादयः ॥ सामान्यमस्वतन्त्रत्वमेषामाहुर्मनीषिणः । जाति- कर्मकृतस्तूतौ विशेषो वृत्तिरेव च ॥ कर्मापि द्विविधं ज्ञेयमशुभं शुभमेव च । अशुभं दासकर्मोक्तं शुभं कर्मकृतां स्मृतम् ॥ गृहद्वाराशुचिस्थानरथ्यावस्करशोध- नम् । गुह्याङ्गस्पर्शनोच्चिष्टविण्मूत्रग्रहणोज्झनम् ॥ इच्छतः ४स्वामिनश्चाङ्गै रुप- स्थानमथान्ततः । अशुभं कर्म विज्ञेयं शुभमन्यदतः परम् ॥' (ना० ५।२-७) इति ॥ तत्र शिष्यो वेदविद्यार्थी, अन्तेवासी शिल्पशिक्षार्थी, मूल्येन यः कर्म करोति स भृतकः, कर्मकुर्वतामधिष्ठाताऽधिकर्मकृत्, अशुचिस्थानमुच्छिष्टप्रक्षे- पार्थं गर्तादिकम्, अवस्करो गृहमार्जितपांस्वादिर्निश्चयस्थानम्, उज्झनं त्यागः । भृतकश्चात्र त्रिविधः । तदुक्तम्-'उत्तमस्त्वायुधीयोऽत्र मध्यमस्तु कृषीवलः । अधमो भारवाही स्यादित्येवं त्रिविधो भृतः ॥' (ना० ५।२२) इति । दासाः पुनः-'गृहजातस्तथा क्रीतो लब्धो दायादुपागतः । अनाकालभृतस्तद्वदाहितः स्वामिना च यः ॥ मोक्षितो महतश्चर्णाद्युद्धप्राप्तः पणे जितः । तवाह मित्यूपगतः प्रव्रज्यावसितः कृतः ॥ भक्तदासश्च विज्ञेयस्तथैव वडवाहृतः । विक्रेता चात्मनः शास्त्रे दासाः पञ्चदश स्मृताः ॥' (ना० ५।२६) गृहे दास्यां जातो गृहजातः, क्रीतो मूल्येन, लब्धः प्रतिग्रहादिना, दायादुपागतः पित्रादिदासः, अनाका- लभृतो दुर्भिक्षे यो दासत्वाय मरणाद्रक्षितः, आहितः स्वामिना धनग्रहणे- नाधिरं नीतः, ऋणमोचनेन दासत्वमभ्युपगतो ऋणदासः, युद्धप्राप्तः समरे विजित्य गृहीतः, पणे जितः- 'यद्यस्मिन्विवादे पराजितोऽहं तदा त्वद्दासो भवामि' इति परिभाष्य जितः, तवाहमित्युपगतः 'तवाहं दासः' इति स्वयं संप्रतिपन्नः, प्रव्रज्यावसितः प्रव्रज्यातश्च्युतः, कृतः 'एतावत्कालं त्वद्दासः' इत्यभ्युपगमितः, भक्तदासः सर्वकालं भक्तार्थमेव दासत्वमभ्युपगम्य यः प्रविष्टः, वडवाहृतः-वडवा गृहदासी तया हृतः तल्लोभेन तामूद्वाह्य दासत्वेन प्रविष्टः, य आत्मानं विक्रीणीतेऽसावात्मविक्रेता; इत्येवं पञ्चदश प्रकाराः ॥ यत्तु मनुना (८।४१५)- 'ध्वजाहतो भक्तदासो गृहजः क्रीतदत्रिमौ । पैतृको दण्डदासश्च १. आज्ञाकारणं । २. श्चाधिकर्मकृत् । ३. कर्मकरस्तूक्तो । ४. स्वामिनः श्वाङ्गैः । ५. निर्वापस्थानम् । ६. भृतश्चैव । ७. मोचितो ।

Page 385Permalink

व्यवहाराध्यायः ३२६ सप्तैते दास्योनयः ॥' इति सप्तविधत्वमुक्तं, - तत्तेषां दासत्वप्रतिपादनार्थं, नतु परिसंख्यार्थम् । तत्रैषां शिष्यान्तेवासिभृतकाधिकर्मकृद्दासानां मध्ये शिष्यवृत्तिः प्रागेव प्रतिपादिता । - 'आहूतश्चाप्यधीयीत लब्धं चास्मै निवेदयेत्' ( आ० २७) इत्यादिना । अधिकर्मकृद्भृतकानां तु भृतिं वेतनादानप्रकरणे वक्ष्यते । - 'यो यावत्कुरुते कर्म तावत्तस्य तु वेतनम्' ( व्य० १९६ ) इत्यादिना ॥ दासान्तेवासिनोस्तु धर्मविशेषं वक्तुमाह- बलाद्दासीकृतश्चौरैर्विक्रीतश्चापि मुच्यते । स्वामिप्राणप्रदो <sup></sup>भक्तत्यागान्निरुष्क्रयादपि ॥ १८२ ॥ बलात् बलावष्टम्भेन यो दासीकृतः, यश्चौरैरपहृत्य विक्रीतः, 'अपि'शब्दा- द्दाहितो दत्तश्च; स मुच्यते । यदि स्वामी न मुञ्चति तर्हि राज्ञा मोचयितव्यः । उक्तं च नारदेन ( ५।३८ ) - 'चैौरापहृतविक्रीता ये च दासीकृता बलात् । राज्ञा मोचयितव्यास्ते दास्यं तेषु हि नेष्यते ॥' इति । चौरव्याघ्राद्यवरुद्धस्य स्वामिनः प्राणान्यः प्रददाति रक्षत्यसावपि मोचयितव्यः । तदिदं सर्वदासानां साधारणं दास्यनिवृत्तिकारणम् । - 'यश्चैषां स्वामिनं कश्चिन्मोचयेत्प्राणसंशयात् । दासत्वात्स विमुच्येत पुत्रभागं लभेत च ॥' ( ५।३० ) इति नारदस्मरणात् ॥ भक्तदासादीनां प्रातिस्विकमपि मोक्षकारणमुच्यते । अनाकालभृतभक्तदासौ भक्तस्य त्यागाद्दासभावादारभ्य स्वामिद्रव्यं यावदुपभुक्तं तावद्दत्त्वा मुच्येते । आहितर्णदासौ तु तन्निष्क्रयात् यद्गृहीत्वा स्वामिना आहितः, यच्च दत्त्वा धनिनोत्तमर्णान्मोचितः, तस्य निष्क्रयात्सवृद्धिकस्य प्रत्यर्पणात्मुच्यते । नारदेन विशेषोऽप्युक्तः-'अनाकालभृतो दास्यान्मुच्यते गोयुगं ददत् । संभक्षितं यद्दुर्भिक्षे न तच्छुद्ध्येत कर्मणा ॥' 'भक्तस्योत्क्षेपणात्सद्यो भक्तदासः प्रमुच्यते ।', 'आहितेऽपि धनं दत्त्वा स्वामी यद्येनमुद्धरेत् ॥', 'ऋणं तु सोदयं दत्त्वा ऋणी दास्यात्प्रमुच्यते ( ना० ५।३१, ३६, ३२, ३३ ) ॥' इति ॥ तथा 'तवाहम्' इत्युपगतयुद्धप्राप्तपणजितकृतकवडवाहतानां <sup></sup>च प्रातिस्विकं मोचनकारणं <sup></sup>तेनैवोक्तम्- 'तवाह मित्यूपगतो युद्धप्राप्तः पणे जितः । 'प्रतिशीर्षप्रदानेन मुच्येर्ँस्तुल्यकर्मणा ॥', 'कृतकालव्यपगमात्कृतकोऽपि विमुच्यते ।', 'निग्रहाद्ब- डवायास्तु मुच्यते वडवाहृतः ॥' ( ना० ५।३४, ३३, ३७ ) इति । दासेन सह संभोगनिरोधादित्यर्थः । तदेवं गृहजातकीतलब्धदायप्राप्तात्मविक्रयिणां स्वामिप्रा- णप्रदानतत्प्रसादरूपसाधारणकारणव्यतिरेकेण मोक्षो नास्ति; विशेषकारणानभि-


३. प्रतिपादनपरम् । ४. भक्तस्त्यागात्त । भाक्तस्त्यागान्निरुष्क्रयादपि ( = भाक्तः भक्तदासः ) । ५. मोचनीयः । ६. कृतवडवा । ७. नारदेनैव । ८. प्रदानात्तत्समाद् ।

Page 386Permalink

३३० याज्ञवल्क्यस्मृतिः धानात् । दासमोक्षश्चानेन क्रमेण कर्तव्यः—'स्वं दासमिच्छेद्यः कर्तुमदासं शीतमानसः । स्कन्धादादाय तस्यासौ भिन्द्यात्कुम्भं सहाम्भसा ॥ साक्षताभिः सपुष्पाभिर्मूर्धन्यद्भिरवाकिरेत् । अदास इत्यथोक्त्वा त्रिः प्राङ्मुखं तमवासृजेत् ॥' ( ना० ५।४२, ४३ ) इति तेनैवोक्तम् ॥ १८२ ॥ भाषा—बलपूर्वक बनाया गया और चोरों द्वारा बेचा गया दास स्वामी का प्राण बचाने पर, स्वामी के खाये हुए धन को लौटाने पर अथवा निष्क्रय का मूल्य चुका देने पर (दासता से) मुक्त हो जाता है ॥ १८२ ॥ प्रव्रज्यावसितस्य तु मोक्षो नास्तीत्याह— प्रव्रज्यावसितो राज्ञो दास १आमरणांतिकम् । प्रव्रज्या संन्यासः, ततोऽवसितः प्रच्युतः । अनभ्युपगतप्रायश्चित्तश्चेद्राज्ञ एव दासो भवति । मरणमेव २तद्दासत्वस्यान्तो नान्तरा प्रतिमोक्षोऽस्ति ॥- वर्णापेक्षया दास्यव्यवस्थामाह— वर्णानामानुलोम्येन दास्यं न प्रतिलोमतः ॥ १८३ ॥ ब्राह्मणादीनां वर्णानामानुलोम्येन दास्यम्-ब्राह्मणस्य क्षत्रियादयः, क्षत्रियस्य वैश्यशूद्रौ, वैश्यस्य शूद्र इत्येवमानुलोम्येन दासभावो भवति, न प्रतिलोम्येन । स्वधर्मत्यागिनः पुनः परिव्राजकस्य प्रातिलोम्येनापि दासत्वमिष्यत एव; यथाह नारदः ( ५।३९ )—'वर्णानां प्रतिलोम्येन दासत्वं न विधीयते । स्वधर्मत्यागिनोऽन्यत्र दारवद् दासता मता ॥' इति ॥ १८३ ॥ भाषा—संन्यास से च्युत व्यक्ति जीवन भर राजा का दास होकर रहता है । दास्य भाव वर्णों के आनुलोम्य से ही होता है अर्थात् अपने से निम्नवर्ण का ही दास होता है । प्रातिलोम्य नहीं होता (निम्नवर्ण के व्यक्ति का दास उससे उच्चवर्ण वाला नहीं होता ) ॥ १८३ ॥ अन्तेवासिधर्मानाह— कृतशिल्पोऽपि निवसेत्कृतकालं गुरोर्गृहे । अन्तेवासी गुरुप्राप्तभोजनस्तत्फलप्रदः ॥ १८४ ॥ अन्तेवासी गुरोर्गृहे कृतकालं 'वर्षचतुष्टयमायुर्वेदादिशिल्पशिक्षार्थं त्वद्गृहे वसामि' इति यावदङ्गीकृतं तावत्कालं वसेत् ,-यद्यपि वर्षचतुष्टयादर्वागेव लब्धापेक्षितशिल्पविद्यः । कथं निवसेत् ? गुरुप्राप्तभोजनः गुरोः सकाशात्प्राप्तं भोजनं येन स तथोक्तः, तत्फलप्रदः तस्य शिल्पस्य फलमाचार्याय प्रददातीति १. मरणान्तिकः । २. स्यान्तो नान्तरा प्रतिमोक्षोऽस्ति । ३. भोजनं तत्फलप्रदः ।

Page 387Permalink

तत्फलप्रदः, एवंभूतो वसेत् । नारदेन विशेषोऽप्यत्र दर्शितः—'स्वशिल्पमि- च्छन्नाहर्तुं बान्धवानामनुज्ञया । आचार्यस्य वसेदन्ते कृत्वा कालं सुनिश्चितम् ॥ आचार्यः शिक्षयेदेनं स्वगृहे दत्तभोजनम् । न चान्यत्कारयेत्कर्म पुत्रवच्चैनमाच- रेत् ॥ शिष्यन्तमसन्दुष्टं य आचार्यं परित्यजेत् । बलाद्वासयितव्यः स्याद्वधबन्धौ च सोऽर्हति ॥ शिक्षितोऽपि कृतं कालमन्तेवासी समाप्नुयात् । तत्र कर्म च यत्कुर्यादाचार्यस्यैव तत्फलम् ॥ गृहीतशिल्पः समये कृत्वाचार्यं प्रदक्षिणम् । शक्ति्तश्चानुमान्यैनमन्तेवासी निवर्तते ॥' (ना० ५।१६-२०) इति ! 'वध'श- ब्दोऽत्र ताडनार्थः; दोषस्याल्पत्वात् ॥ १८४ ॥ भाषा--पहले निवास की अवधि निश्चित करके गुरु के घर रहने वाला ब्रह्मचारी उसके पूर्व विद्या समाप्त कर लेने पर भी अपनी जीविका का शिल्प सीखकर उसका फल गुरु को देते हुए और गुरु द्वारा दिया गया भोजन ग्रहण करता हुआ उन्हीं के निकट निवास करे ॥ १८४ ॥

इत्यभ्युपेत्याशुश्रूषाख्यं विवादप्रकरणम् ।

अथ संविद्व्यतिक्रमप्रकरणम् १५

संप्रति संविद्व्यतिक्रमः कथ्यते; तस्य च लक्षणं नारदेन व्यतिरेकमुखेन दर्शितम्—'पाखण्डिनैगमादीनां स्थितिः समय उच्यते । समयस्यानपाकर्म तद्वि- वादपदं स्मृतम् ॥' इति पारिभाषिकधर्मेण व्यवस्थानं समयः, तस्यानपाकर्माव्य- तिक्रमः परिपालनं तद्व्यतिक्रम्यमाणं विवादपदं भवतीत्यर्थः ॥ तदुपक्रमार्थं किंचिदाह— राजा कृत्वा पुरे स्थानं ब्राह्मणान्न्यस्य तत्र तु । त्रैविद्यं वृत्तिमद्ब्रूयात्स्वधर्मः पाल्यतामिति ॥ १८५ ॥ राजा स्वपुरे दुर्गादौ स्थानं धवलगृहादिकं कृत्वा तत्र ब्राह्मणान्न्यस्य स्थापयित्वा ^३तद्ब्राह्मणव्रातं त्रैविद्यं वेदत्रयसंपन्नं वृत्तिमद्भूहिरण्यादिसंपन्नं च कृत्वा स्वधर्मो वर्णाश्रमनिमित्तः श्रुतिस्मृतिविहितो भवद्भिरनुष्ठीयतामिति तान्ब्राह्मणान्ब्रूयात् ॥ १८५ ॥ भाषा—राजा अपने दुर्ग में स्थान बनाकर उसमें तीनों वेदों के अध्ययन से सम्पन्न, ब्राह्मणों को बुलाकर उन्हें कुछ वृत्ति देकर उनसे कहे कि आप लोग अपने धर्म का पालन करें ॥ १८५ ॥


१. व्यवहारपदं । २. त्रैविद्यान् । ३. तद्ब्राह्मणजातं ।

Page 388Permalink

३३२ याज्ञवल्क्यस्मृतिः एवं नियुक्तैस्तैर्यत्कर्म कर्तव्यं तदाह— निजधर्माविरोधेन यस्तु सामयिको भवेत् । सोऽपि यत्नेन संरक्ष्यो धर्मो राजकृतश्च यः ॥ १८६ ॥ श्रौतस्मार्तधर्मानुपमर्देन समयान्निष्पन्नो यो धर्मो गोप्रचारोदकरक्षण- देवगृहपालनादिरूपः सोऽपि यत्नेन पालनीयः । तथा राज्ञा च निजधर्मा- विरोधेनैव यः सामयिको धर्मो 'यावत्पथिकं भोजनं देयमस्मदरातिमण्डलं तुरङ्गादयो न प्रस्थापनीया' इत्येवंरूपः कृतः सोऽपि रक्षणीयः ॥ १८६ ॥ भाषा—अपने धर्म के अनुकूल जो धर्म सामयिक हो तथा राजा द्वारा निर्दिष्ट धर्म की यत्नपूर्वक रक्षा करें ॥ १८६ ॥ एवं समयधर्मः परिपालनीय इत्युक्त्वा तदतिक्रमादौ दण्डमाह— गणद्रव्यं हरेद्यस्तु संविदं लङ्घयेच्च यः । सर्वस्वहरणं कृत्वा तं राष्ट्राद्विप्रवासयेत् ॥ १८७ ॥ यः पुनर्गणस्य ग्रामादिजनसमूहस्य संबन्धि साधारणं द्रव्यमपहरति, संवित् समयस्तां समूहकृतां राजकृतां वा यो लङ्घयेदतिक्रामेत्, तदीयं सर्वं धनमपहृत्य, स्वराष्ट्राद्विप्रवासयेन्निष्कासयेत् ॥ अयं च दण्डोऽनुबन्धाद्य- तिशये द्रष्टव्यः ॥ अनुबन्धाल्पत्वे तु ( मनुः ८।२१९-२२० )—'यो ग्रामदेश- संघानां कृत्वा सत्येन संविदम् । विसंवदेन्नरो लोभात्तं राष्ट्राद्विप्रवासयेत् ॥ निगृह्य दापयेदेनं समयव्यभिचारिणम् । चतुःसुवर्णं षण्णिष्काञ्छतमानं च राज- तम् ॥' इति मनुप्रतिपादितदण्डानां निर्वासनचतुःसुवर्णषण्णिष्कशतमानानां चतुर्णामन्यतमो जातिशक्त्याद्यपेक्षया कल्पनीयः ॥ १८७ ॥ भाषा—जो गण के अर्थात् सबके सामूहिक धन का अधर्मपूर्वक अपहरण करे अथवा राजा द्वारा या समूह द्वारा दी गई व्यवस्था का उल्लंघन करे उसका सम्पूर्ण धन छीनकर उसे राज्य से निर्वासित कर देना चाहिए ॥ १८७ ॥ इदं च तैः कर्तव्यमित्याह— कर्तव्यं वचनं सर्वैः समूहहितवादिनाम् । गणिनां मध्ये ये समूहहितवादनशीलास्तद्वचनमितरैर्गणानामन्तर्गतैर- नुसरणीयम् ॥— अन्यथा दण्ड इत्याह— यस्तत्र विपरीतः स्यात्स दाप्यः प्रथमं दमम् ॥ १८८ ॥ १. मण्डले । २. राजा विप्रवासयेत् । ३. राज्ञा कृतां । ४. हितवदन ।

Page 389Permalink

यस्तु गणिनां मध्ये समूहहितवादिबचनप्रतिबन्धकारी स राज्ञा प्रथम- साहसं दण्डनीयः ॥ १८८ ॥ भाषा-( गण के व्यक्तियों में ) समूह का हित कहे उनका अनुसरण सभी को करना चाहिए । जो उसके (समूह के हित के) विपरीत बोले उसे प्रथम साहस का दण्ड देना चाहिए ॥ १८८ ॥ राज्ञा ^१चेत्थं गणेषु वर्तनीयमित्याह— समूहकार्य आयातान्कृतकार्यान्विसर्जयेत् । स दानमानसत्कारैः पूजयित्वा महीपतिः ॥ १८९ ॥ समूहकार्यनिर्वृत्त्यर्थं स्वपार्श्वं प्राप्तान् गणिनो निर्वर्तितारमीयप्रयोजनान् दानमानसत्कारैः स राजा परितोष्य विसर्जयेत् ॥ १८९ ॥ भाषा—समूह के कार्य के लिये आये हुए व्यक्तियों का कार्य करके राजा उन्हें दान, मान और सत्कार द्वारा सन्तुष्ट करके विदा करे ॥ १८९ ॥ समूहदत्तापहारिणं प्रत्याह— समूहकार्यप्रहितो यल्लभेत तदर्पयेत् । एकादशगुणं दाप्यो यद्यसौ नार्पयेत्स्वयम् ॥ १९० ॥ समूहकार्यार्थं महाजनैः प्रेषितो राजपार्श्वे यद्वसहिरण्यादिकं लभते तद्- प्रार्थित एव महाजनेभ्यो निवेदयेत् । अन्यथा लब्धादेकादशगुणं दण्डं दापनीयः ॥ १९० ॥ भाषा—समूह के कार्य से भेजा गया व्यक्ति जो कुछ पावे उसे समूह के श्रेष्ठ जनों के समक्ष अर्पित करे । यदि वह ऐसा धन नहीं अर्पित करता है तो उससे उसका ग्यारह गुना दण्ड लेना चाहिए ॥ १९० ॥ एवंप्रकाराश्च कार्यचिन्तकाः कार्या इत्याह— धर्मज्ञाः शुचयोऽलुब्धा भवेयुः कार्यचिन्तकाः । कर्तव्यं वचनं तेषां समूहहितवादिनाम् ॥ १९१ ॥ श्रौतस्मार्तधर्मज्ञा बाह्याभ्यन्तरशौचयुक्ता अर्थेष्वलुब्धाः कार्यविचारकाः कर्तव्याः । तेषां वचनमितरैः कार्यमित्येतदादरार्थं पुनर्वचनम् ॥ १९१ ॥ भाषा—श्रौत और स्मार्त धर्म जानने वाले, पवित्र, लोभहीन कार्य- विचारक बनाने चाहिए । उन समूह का हित कहने वालों के वचनों का पालन करना चाहिए ॥ १९१ ॥ १. चैवंगणिषु वर्तितव्यं । २. यद्यस्मै । ३. वेदज्ञाः ।

श्रेणिर्नैगम'पाखण्डिगणानामप्ययं विधिः ।

Page 390Permalink

३३४ याज्ञवल्क्यस्मृतिः इदानीं त्रैविद्यानां प्रतिपादितं धर्मं श्रेण्यादिष्वतिदिशन्नाह— श्रेणिर्नैगम'पाखण्डिगणानामप्ययं विधिः । भेदं चैषां नृपो रक्षेत्पूर्ववृत्तिं च पालयेत् ॥ १९२ ॥ एकपण्यशिल्पोपजीविनः श्रेणयः, नैगमाः ये वेदस्याप्तप्रणीतत्वेन प्रामाण्य- मिच्छन्ति पाशुपतादयः, पाखण्डिनो ये वेदस्य प्रामाण्यमेव नेच्छन्ति नग्नाटक- सौगतादयः, गणो व्रातः आयुधीयादीनामेककर्मोपजीविनां, एषां चतुर्विधाना- मप्ययमेव विधिः-यो 'निजधर्माविरोधेन' ( व्य० १८६ ) इत्यादिना प्रतिपा- दितः । एतेषां श्रेण्यादीनां भेदं धर्मव्यवस्थां नृपो रक्षेत् । पूर्वोपात्तां वृत्तिं च पालयेत् ॥ १९२ ॥ भाषा—श्रेणी ( एक व्यापार या शिल्प करने वाले ), नैगम ( एक ही वेद को पढ़ने वाले ), पाखण्डी (वेद को प्रमाण न मानने वाले ) और गण ( शस्त्रादि विषयक एक ही कार्य द्वारा जीविका चलाने वालों ) के विषय में भी यही नियम है। राजा इन सबके भेद की रक्षा करे और उनकी पूर्ववृत्ति का पालन करे ॥ १९२ ॥ इति संविद्व्यतिक्रमप्रकरणम् । अथ वेतनादानप्रकरणम् १६ संप्रति वेतनस्यानपाकमार्यं व्यवहारपदं प्रस्तूयते । तत्स्वरूपं च नारदे- नोक्तम् ( ६।१ )—'भृत्यानां२ वेतनस्योक्तो दानादानविधिक्रमः । वेतनस्यान- पाकर्म तद्विवादपदं स्मृतम् ॥' इति । अस्यार्थः—भृत्यानां वेतनस्य वक्ष्यमाण- श्लोकैरूक्तो दानादानविधिक्रमो यत्र विवादपदे तद्वेतनस्यानपाकर्मेत्युच्यते; तत्र निर्णयमाह— गृहीतवेतनः कर्म त्यजन्द्विगुणमावहेत् । अगृहीते ३समं दाप्यो भृत्यै रक्ष्य उपस्करः ॥ १९३ ॥ गृहीतं वेतनं येनासौ स्वानीकृतं कर्म त्यजन् अकुर्वन् द्विगुणां भृतिं स्वामिने दद्यात् । यदा पुनरभ्युपगतं कर्म अगृहीते एव वेतने त्यजति तदा समं यावद्वेतनमभ्युपगतं तावद्दाप्यो न द्विगुणम् । यद्वाऽङ्गीकृतां भृतिं दत्त्वा बलात्कारयितव्यः; 'कर्माकुर्वन्प्रतिश्रुत्य कार्यो दत्त्वा भृतिं बलात्' ( ६।५ ) इति नारद्ववचनात् । भृतिरपि तेनैवोक्ता—'४भृत्याय वेतनं दद्यात्कर्मस्वामी यथा- १. पाषाण्डि । २. भृतानां । ३. समं कार्यं ४. त्यैः पात्य उपस्करः । ४. भृताव ।

Page 391Permalink

व्यवहाराध्यायः ३३५ क्रमम् । आदौ मध्येऽवसाने वा कर्मणो यद्विनिश्चितम् ॥' ( ना० ६।२ ) इति । तैश्च भृत्यैरुपस्कर ^१उपकरणं लाङ्गलादीनां प्रग्रहयोक्त्रादिकं यथाशक्त्या रक्षणी- यम् ; इतरथा कृष्यादिनिष्पत्त्यनुपपत्तेः ॥ १९३ ॥ भाषा—वेतन लेकर काम छोड़ देने वाले से दूना वेतन स्वामी को दिलावे । बिना वेतन लिये ही कार्य करना स्वीकार करके न करे तो वेतन के बराबर धन दिलावे । वे भृत्य भी उपस्करण ( हल आदि औजार की ) यत्न- पूर्वक रक्षा करें ॥ १९३ ॥ भृतिमपरिच्छिद्य यः कर्म कारयति तं प्रत्याह— ^२दाप्यस्तु दशमं भागं वाणिज्यपशुसस्यतः । अनिश्चित्य भृतिं यस्तु कारयेत्स महीक्षिता ॥ १९४ ॥ यस्तु स्वामी वणिक् गोमी क्षेत्रिको वा अपरिच्छिन्नवेतनमेव ^३भृत्यं कर्म कारयति स तस्माद्वाणिज्यपशुसस्यलक्षणात् कर्मणो यल्लब्धं तस्य दशमं भागं भृत्याय महीक्षिता राज्ञा दापनीयः ॥ १९४ ॥ भाषा—जो भृति ठहराये बिना भृत्यों से कार्य लेता है व्यापार, पशुपालन या खेती का काम लेता है उससे राजा तत्तत् कार्यों से होने वाले लाभ का दसवाँ भाग भृत्यों को दिलावे ॥ १९४ ॥ अनाज्ञप्तकारिणं प्रत्याह— देशं कालं च ^४योऽतीयाल्लाभं कुर्याच्च योऽन्यथा । तत्र स्यात्स्वामिनश्छन्दोऽधिकं देयं कृतेऽधिके ॥ १९५ ॥ यस्तु भृत्यः पण्यविक्रयाद्युचितं देशं कालं च पण्यविक्रयाद्यकुर्वन्दर्पादि- नोल्लङ्घयेत्तस्मिन्नेव वा देशे काले च लाभमन्यथा व्ययाद्यतिशयसाध्यतया हीनं करोति तस्मिन्भृतके भृतिदानं प्रति स्वामिनश्छन्द इच्छा भवेत् यावदि- च्छति तावद्दद्यान्न पुनः सर्वामेव भृतिमित्यर्थः । यदा पुनर्देशकालाभिज्ञतयाऽ- धिको लाभः कृतस्तदा पूर्वपरिच्छिन्नाय ^६भृतेरधिकमपि धनं स्वामिना भृत्याय दातव्यम् ॥ १९५ ॥ भाषा—जो भृत्य ( व्यापार योग्य ) स्थान और समय का उल्लंघन करके लाभ के स्थान पर हानि कराता है तो उसके वेतन के विषय में स्वामी अपने इच्छानुसार करे; किन्तु जब देश और समय के ज्ञान से वह अधिक लाभ कराता है तो उसे वेतन से अधिक धन देना चाहिए ॥ १९५ ॥ १. उपस्करणं । २. दाप्यस्त्वष्टमकं । ३. भृत्यकर्म । ४. यो यावत्कर्म कुर्यात् । ५. दर्पादिनानुल्लङ्घयेत् । ६. भृतेरपि किमपि धनमधिकं ।

Page 392Permalink

३३६ याज्ञवल्क्यस्मृतिः

अनेकभृत्यसाध्यकर्मणि भृतिदानप्रकारमाह— यो यावत्कुरुते कर्म तावत्तस्य तु वेतनम् । उभयोरप्यसाध्यं चेत्साध्ये कुर्याद्यथाश्रुतम् ॥ १९६ ॥ यदा पुनरेकमेव कर्म नियतवेतनमुभाभ्यां क्रियमाणं उभयोरप्यसाध्यं चेद्ब्याध्याद्यभिभवाद्वाभ्यामपिषाड्ढादृबहुभिरपि यदि न परिसमापितं तदा यो भृत्यो यावत्कर्म करोति, तावत्तस्मै तत्कृतकर्मानुसारेण मध्यस्थकल्पितं वेतनं देयं, न पुनः समम् । नचावयवशः कर्मणि वेतनस्योपरिभाषितत्वाद्ददान- मिति मन्तव्यम् । साध्ये तूभाभ्यां कर्मणि निर्वर्तिते यथाश्रुतं यावत्परिभाषितं तावदुभाभ्यां देयं, न पुनः प्रत्येकं कृत्स्नं वेतनं, नापि कर्मानुरूपं परिकल्प्य देयम् ॥ १९६ ॥ भाषा—यदि एक ही कार्य को दो भृत्य करें और (व्याधि एवं आधि के कारण) वह समाप्त न हो सके तो जो जितना कार्य किये हो उसी के अनुसार उसका वेतन होता है और कार्य पूरा हो जाने पर जितना बताया जाय उतना उन दोनों को देना चाहिए ॥ १९६ ॥

आयुधीयभारवाहकौ प्रत्याह— ³अराजदैविकं नष्टं भाण्डं दाप्यस्तु वाहकः । प्रस्थानविघ्न⁴कृच्चैव प्रदाप्यो द्विगुणां भृतिम् ॥ १९७ ॥ न विद्यते राजदैविकं यस्य भाण्डस्य तत्तथोक्तम् । तच्चेदि प्रज्ञाहीनतया वाहकेन नाशितं तदा नाशानुसारेणासौ तद्भाण्डं दापनीयः । तदाह नारदः (६।९)—'भाण्डं व्यसनमागच्छेद्यदि वाहकदोषतः । दाप्यो यत्तत्र नश्येत्तु दैवराजकृतादृते ॥' इति । यः पुनर्विवाहाद्यर्थं मङ्गलवति वासरे प्रतिष्ठमानस्य तत्प्रस्थानौपयिकं कर्म प्रागङ्गीकृत्य तदानीं 'न करिष्यामि' इति प्रस्थानविघ्नमा- चरति तदासौ द्विगुणां भृतिं दाप्यः । अत्यन्तोत्कर्षहेतुकर्मनिरोधात् ॥ १९७ ॥ भाषा—राजा और दैव के उत्पात के बिना ले जाने वाले भृत्य से भाण्ड का नाश हो जाय तो उससे भाण्ड दिलावे; जो (विवाहादि मंगलकार्य के) प्रस्थान के समय विघ्न करे (जाने को कहकर न जावे) उससे वेतन का दूना धन दिलावे ॥ १९७ ॥

प्रक्रान्ते सप्तमं भागं चतुर्थे पथि ⁵संत्यजन् । भृतिमर्धपथे सर्वां प्रदाप्यस्त्याजकोऽपि च ॥ १९८ ॥


१. च । २. उभयोरप्यशाठ्यं चेच्छाठ्ये कुर्या(द्यथाश्रुतम्)यथाकृतम् । ३. अराजदैविकान्नष्टं । ४. विघ्नकर्ता च । ५. संत्यजेत् ।

Page 393Permalink

[व्यपहाराध्यायः] ३३७

किंच,-प्रक्रान्ते अध्यवसिते प्रस्थाने स्वाङ्गीकृतं कर्म यस्त्यजति, असौ भृतेः सप्तमं भागं दाप्यः । नन्वत्रैव विषये 'प्रस्थानविघ्नकृत्' (व्य० १९७) इत्या- दिना द्विगुणभृतिदानमुक्तं, इदानीं सप्तमो भाग इति विरोधः । उच्यते,-भृत्य- न्तरोपादानावसरसंभवे स्वाङ्गीकृतं कर्म यस्त्यजति तस्य सप्तमो विभागः । यस्तु प्रस्थानलग्नसमय एव त्यजति, तस्य द्विगुणभृतिदानमित्यविरोधः । यः पुनः पथि प्रक्रान्ते गमने वर्तमाने सति कर्म त्यजति, स भृतेश्चतुर्थं भागं दाप्यः । अर्धपथे पुनः सर्वां भृतिं दाप्यः । यस्तु त्याजकः कर्मात्यजन्तं त्याजयति स्वामी पूर्वोक्तप्रदेशेष्वसावपि पूर्वोक्तसप्तमभागादिकं भृत्याय दापनीयः; एतच्चान्या- धितादिविषयम् । 'अथ्योऽर्त्तो न कुर्याच्चो दर्पात्कर्म यथोचितम् । स दण्ड्यः कृष्णलान्यष्टौ न देयं तस्य वेतनम् ॥' (८।२१५)-इति मनुवचनात् । यदा १पुनर्व्याधावपगतेऽन्तरितदिवसान्परिगणय्य पूरयति, तदा लभत एव वेतनम् । 'आर्तस्तु कुर्यात्स्वस्थः सन्यथाभाषितमादितः । स दीर्घस्यापि कालस्य स्वं लभेतेव वेतनम् ॥' (८।२१६) इति मनुस्मरणात् ॥ यस्त्वपगतव्याधिः स्वस्थ एवालस्यादिना स्वारब्धं कर्माल्पोनं न करोति, परेण वा न समापयति, तस्मै वेतनं न देयमिति । यथाह मनुः (८।२१७) - 'यथोक्तमार्तः स्वस्थो वा यस्त- त्कर्म न कारयेत् । न तस्य वेतनं देयमल्पोनस्यापि कर्मणः ॥' इति ॥ १९८ ॥ भाषा-प्रस्थान के समय कार्य करके जो मार्ग में छोड़ दे तो उस भृत्य से वेतन का सातवाँ भाग ले और आधे मार्ग में कार्य छोड़ दे तो उससे सम्पूर्ण भृति दिलानी चाहिए और जो उससे काम छोड़वाता है उससे भी सारी भृति दिलावे ॥ १९८ ॥ इति वेतनादानप्रकरणम् ।

अथ द्यूतसमाह्वयप्रकरणम् १७

अधुना द्यूतसमाह्वयाख्यं २विवादपदमधिक्रियते; तत्स्वरूपं नारदेनाभिहितम् (१६।१) - 'अक्षबधनशलाकाद्यैर्देवनं ३जिह्मकारितम् । पणक्रीडावयोभिश्च पदं द्यूतसमाह्वयम् ॥ इति । अक्षाः पाशकाः, बधनश्चर्मपट्टिका, शलाका दन्तादि- मय्यो दीर्घचतुरस्राः, 'आद्य'ग्रहणाच्च तुरङ्गादिक्रीडासाधनं करितुरङ्गरथादिकं गृह्यते । तैरप्राणिभिर्यद्देवनं क्रीडा पणपूर्विका क्रियते । तथा वयोभिः पक्षिभिः कुक्कुटपारावतादिभिः 'च' शब्दान्मल्लमेषमहिषादिभिश्च प्राणिभिर्या पणपूर्विका क्रीडा क्रियते, तदुभयं यथाक्रमेण द्यूतसमाह्वयाख्यं विवादपदम् । द्यूतं च समाह्वयश्च द्यूतसमाह्वयम् । तदुक्तं मनुना ( ९।२२३) - 'अप्राणिभिर्यत्क्रियते तल्लोके द्यूतमुच्यते । प्राणिभिः क्रियमाणस्तु स विज्ञेयः समाह्वयः ॥' इति ॥

१. व्याध्याद्यपगमे । २. व्यवहारपदमधि । ३. अक्षवभ्र ।

Page 394Permalink

३३८ | याज्ञवल्क्यस्मृतिः तत्र द्यूतसभाधिकारिणो वृत्तिमाह— ग्लहे शतिकवृद्धेस्तु सभिकः पञ्चकं शतम् । गृह्णीयाद् धूर्तकितवादितराद्दशकं शतम् ॥ १९९ ॥ परस्परसंप्रतिपत्त्या कितवपरिकल्पितः पणो ग्लह इत्युच्यते । तत्र ग्लहे तदाश्रया शतिका शतपरिमिता तदधिकपरिमाणा वा वृद्धियंस्यासौ शतिकवृद्धिः, तस्माद् धूर्तकितवात्पञ्चकं शतमात्मवृत्त्यर्थं सभिको गृह्णीयात् । पञ्च पणा आयो यस्मिन् शते तत् पञ्चकं शतम् । 'तदस्मिन्वृद्धयायलाभ—' (पा० ५।१।- ४७) इत्यादिना कन् । जितग्लहस्य विंशतितमं भागं गृह्णीयादित्यर्थः । सभा- कितवनिवासार्था यस्यास्त्यसौ सभिकः । कल्पिताष्टादिनिखिलक्रीडोपरणस्त- दुपचितद्रव्योपजीवी सभापतिरुच्यते । इतरस्मात्पुनरपि पूर्णशतिकवृद्धेः कितवा- दशकं शतं जितद्रव्यस्य दशमं भागं गृह्णीयादिति यावत् ॥ १९९ ॥ भाषा—जुआ के खेल में धूर्त जुआरी (जीतने वाले) के धन में पाँच प्रतिशत सभिक (जुवा चलाने वाला) लेवे और दूसरों से दस प्रतिशत वसूल करे ॥ १९९ ॥ एवं क्लृप्तवृत्तिना सभिकेन किं कर्तव्यमित्याह— स सम्यक्पालितो १दद्याद्राज्ञे भागं यथाकृतम् । जितंमुद्ग्राहयेज्जेत्रे दद्यात्सत्यं वचः क्षमी ॥ २०० ॥ य एवं क्लृप्तवृत्तिर्द्यूताधिकारी स राज्ञा धूर्तकितवेभ्यो रक्षितस्तस्मै राज्ञे यथा संप्रतिपन्नमंशं दद्यात् ; तथा ३जितं यद् द्रव्यं तदुद्ग्राहयेत् बन्धकग्रहणेना- सेधादिना च पराजितसकाशादुद्धरेत् । उद्धृत्य च तद्धनं जेत्रे जयिने सभिको दद्यात् । तथा क्षमी भूत्वा सत्यं वचो विश्वासार्थं द्यूतकारिणां दद्यात् । तदुक्तं नारदेन (१६।२) - 'सभिकः कारयेद् द्यूतं देयं दद्याच्च तत्कृतम्' इति ॥२००॥ भाषा-वह सभिक राजा द्वारा संरक्षित होने पर उसे यथोचित अंश प्रदान करे और जीतने वाले को जीता हुआ धन दिलावे तथा क्षमाशील होकर दूसरे द्यूतकरों के विश्वास के लिये सत्य वचन देवे ॥ २०० ॥ यदा पुनः सभिको दापयितुं न शक्नोति, तदा राजा दापयेदित्याह— प्राप्ते नृपतिना भागे प्रसिद्धे धूर्तमण्डले । जितं ससभिके स्थाने दापयेदन्यथा नै तु ॥ २०१ ॥ १. भागं राज्ञे दद्याद्यथाश्रुतम् । २. जितमुद्ग्राहयेज्जेत्रे दद्यात्सत्यवचाः क्षमी । ३ जितं द्रव्यमुद्ग्राहयेत् । ४. प्राप्ते भागे च नृपतिः । ५. तु न ।

Page 395Permalink

प्रसिद्धे अप्रच्छन्ने राजाध्यक्षसमन्विते ससभिके सभिकसहिते कितवस- माजे सभिकेन च राजभागे दत्ते राजा धूर्त्तकितवमविप्रतिपन्नं जितं पणं दाप- येत् । अन्यथा प्रच्छन्ने सभिकरहिते अदत्तराजभागे 'द्यूते जितपणं जेत्रे न दापयेत् ॥ २०१ ॥ भाषा—राजा ( सभिक से ) अपना अंश प्राप्त करने पर ज्ञात ( गुप्त नहीं अपितु राजा द्वारा संरक्षित ) द्यूतकरों के मण्डल में सभिक के निरीक्षण में जीता हुआ धन जीतने वाले को दिलावे अन्यथा ( संरक्षित द्यूतकरमण्डल न होने पर ) न दिलावे ॥ २०१ ॥ जयपराजयविप्रतिपत्तौ निर्णयोपायमाह— द्रष्टारो व्यवहाराणां साक्षिणश्च त एव हि । द्यूतव्यवहाराणां द्रष्टारः सभ्यास्त एव कितवा एव राज्ञा नियोक्तव्याः; न तत्र 'श्रुताध्ययनसंपन्ना' ( व्य० २ ) इत्यादिनियमोऽस्ति । साक्षिणश्च द्यूते द्यूतकरा एव कार्याः न तत्र 'स्त्रीबालवृद्धकितव-' ( व्य० ७० ) इत्यादि- निषेधोऽस्ति ॥— क्वचिद्द्यूतं निषेद्धुं दण्डमाह— राज्ञा संचिह्नं निर्वास्याः कूटक्षोपधिक्षेविनः ॥ २०२ ॥ कूटैरक्षादिभिरुपधिना च मतिवञ्चनहेतुना मणिमन्त्रौषधादिना ये दीव्यन्ति तान् श्वपदादिनाऽङ्कयित्वा राजा स्वराष्ट्राद्निर्वासयेत् । नारदेन तु निर्वासने विशेष उक्तः ( १६।६ )—'कूटाक्षदेविनः पापान् राजा राष्ट्राद्विवासयेत् । कण्ठेऽक्षमालामासज्य स ह्येषां विनयः स्मृतः ॥' इति । यानि च मनुवचनानि द्यूतनिषेधपराणि ( मनुः ९।२२४ )—'द्यूतं समाह्वयं चैव यः कुर्यात् कारयेत वा । तान्सर्वान्घातयेद्राजा शूद्रांश्च द्विजलिङ्गिनः ॥' इत्यादीनि, तान्यपि कूटा- क्षदेवनविषयतया राजाध्यक्षसभिकरहितद्यूतविषयतया च योज्यानि ॥ २०२ ॥ भाषा—जुए के व्यवहार को देखने वाले एवं साक्षी वे ही ( द्यूतकर ही) होते हैं। कपटपूर्वक ( मणि, मंत्र, औषध आदि से ) जुआ खेलने वाले को कुत्ते के पंजे आदि चिह्न से दागकर राज्य से निर्वासित कर देवे ॥ २०२ ॥ द्यूतमेकमुखं कार्यं तस्करज्ञानकारणात् । किंच, यत्पूर्वोक्तं द्यूतं तदेकमुखं एकं मुखं प्रधानं यस्य द्यूतस्य तत्तथोक्तं कार्यम् , राजाध्यक्षाधिष्ठितं राज्ञा कारयितव्यमित्यर्थः; तस्करज्ञानकारणात् । १. द्यूते पणं जेत्रे । २. सचिह्ना । २२ या०

Page 396Permalink

३४० याज्ञवल्क्यस्मृतिः तस्करज्ञानरूपं प्रयोजनं पर्यालोच्य प्रायश्चौर्यार्जितधना एव कितवा भवन्ति, अतश्चौरविज्ञानार्थमेकमुखं कार्यम् ॥- द्यूतधर्मं समाह्वयेऽतिदिशन्नाह- एष एव विधिर्ज्ञेयः प्राणिद्यूते समाह्वये ॥ २०३ ॥ 'ग्लहे शतिकवृद्धेः' ( व्य० १९९ ) इत्यादिना यो द्यूतधर्म उक्तः, स एव प्राणिद्यूते मल्लमेषमहिषादिनिर्वर्त्ये समाह्वयसंज्ञके ज्ञातव्यः ॥ २०३ ॥ भाषा-चोरों के पहिचान के लिये एक व्यक्ति को द्यूत का प्रधान (अध्यक्ष) नियुक्त कर देना चाहिए । प्राणिद्यूत (पहलवान, भेंड़ा, भैंसा आदि को लड़ाकर खेले जाने वाले जुए) में भी ये नियम समझने चाहिए ॥ इति द्यूतसमाह्वयाख्यं प्रकरणम् । अथ वाक्पारुष्यप्रकरणम् १८ इदानीं वाक्पारुष्यं प्रस्तूयते; तल्लक्षणं चोक्तं नारदेन ( १५।१)-'देश- जातिकुलादीनामाक्रोशं न्यङ्गसंयुतम् । यद्वचः प्रतिकूलार्थं वाक्पारुष्यं तदुच्यते ॥' इति । देशादीनामाक्रोशं न्यङ्गसंयुतम् । उच्चैर्भाषणमाक्रोशः, न्यङ्गमवद्यं तदु- भययुक्तं यत्प्रतिकूलार्थमुद्वेगजननार्थं वाक्यं तद्वाक्पारुष्यं कथ्यते । तत्र 'कलह- प्रियाः खलु गौडाः' इति देशाक्रोशः । 'नितान्तं लोलुपाः खलु विप्राः' इति जात्याक्रोशः । 'क्रूरचरिता ननु वैश्वामित्राः' इति कुलाक्षेपः । आदिग्रहणात्स्व- विद्याशिल्पादिनिन्दया विद्वच्छिल्पादिपुरुषाक्षेपो गृह्यते । तस्य च दण्डतारत- म्यार्थं निष्ठुरादिभेदेन त्रैविध्यमभिधाय तल्लक्षणं तेनैवोक्तम् ( १५।२)- 'निष्ठुरार्लीकतीव्रत्वादपि तत्रिविधं स्मृतम् । गौरवानुक्रमात्तस्य दण्डोऽपि स्यात्क्रमाद् गुरुः ॥ साक्षेपं निष्ठुरं ज्ञेयमश्लीलं न्यङ्गसंयुतम् । पतनीयैरुपक्रोशै- स्तीव्रामाहुर्मनीषिणः ॥' इति । तत्र ^३धिङ्मूर्खं जाल्ममित्यादि साक्षेपम् । अत्र म्यङ्गमित्यसभ्यम् । अवद्यं भगिन्यादिगमनं तद्युक्तमश्लीलम् । सुरापोऽसीत्या- दिमहापातकाद्याक्रोशैर्युकं वचस्तीव्रम् ॥ तत्र निष्ठुराक्रोशे सवर्णविषये दण्डमाह- सत्यासत्यान्यथास्तोत्रैर्न्यूनाङ्गेन्द्रियरोगिणाम् । क्षेपं करोति चेद्दण्ड्यः पणानर्ध^४त्रयोदशान् ॥ २०४ ॥ न्यूनाङ्गाः करचरणादिविकलाः, न्यूनेन्द्रिया नेत्रश्रोत्रादिरहिताः, रोगिणो दुश्चर्मप्रभृतयः, तेषां सत्येनासत्येनान्यथास्तोत्रेण च निन्दार्थया स्तुत्या । १. खलु लोलुपाः । २. शिल्पादि । ३. धिङ्‌मूर्ख जाल्मस्त्वमित्यादि । ४. त्रयोदश ।

Page 397Permalink

व्यवहाराध्यायः ३४१ यत्र नेत्रयुगलहीन श्चेोऽन्ध इत्युच्यते तत्सत्यम् । यत्र पुनश्चक्षुष्मानेवान्ध इत्युच्यते तदसत्यम् । यत्र विकृताकृतिरेव दर्शनीयस्त्वमसीत्युच्यते तदम्ब- त्थास्तोत्रम् । एवंविधैयैः क्षेपं निर्भर्त्सनं करोत्यसौ अर्धाधिकत्रयोदशपणान्दण्ड- नीयः । ( मनुः ८।२७४ )—'काणं वाऽप्यथवा खञ्जमन्यं वाऽपि तथाविधम् । तथ्येनापि ब्रुवन्दाप्यो दण्डं कार्षापणावरम् ॥' इति यन्मनुवचनं, तदतिदुर्वृत्तव- र्णविषयम् । यदा पुनः पुत्रादयो मात्रादीन् शपन्ति तदा शतं दण्डनीया इति तेनैवोक्तम् । ( मनुः ८।२७५ )—'मातरं पितरं जायां भ्रातरं श्वशुरं गुरुम् । आक्षारयञ्शतं दाप्यः पन्थानं चाददद् गुरोः ॥' इति, एतच्च सापराधेषु मात्रादिषु गुरुषु निरपराधायां च जायायां द्रष्टव्यम् ॥ २०४ ॥ भाषा—जो किसी विकलेन्द्रिय और रोगी आदि को सच्चे या झूठे ही निन्दापरक वचनों से आक्षेप करता है तो उससे साढ़े तेरह पण दण्ड लेना चाहिए ॥ २०४ ॥ अश्लीलाक्षेपे दण्डमाह— अभिगन्तास्मि भगिनीं मातरं वा तवेति हं । शपन्तं दापयेद्राजा पञ्चविंशतिकं दमम् ॥ २०५ ॥ 'त्वदीयां भगिनीं मातरं वा अभिगन्तास्मि' इति शपन्तं अन्यां वा 'स्व- जायामभिगन्ताऽस्मि' इत्येवं शपन्तं राजा पञ्चविंशतिकं पणानां पञ्चाधिका विंशतिर्यस्मिन्दण्डे स तथोक्तस्तं दमं दापयेत् ॥ २०५ ॥ भाषा—'तुम्हारी बहन या माँ का मैं अभिगन्ता ( जार ) हूँ' इस प्रकार का वचन कहकर गाली देने वाले से राजा पच्चीस पण दण्ड ले ॥ २०५ ॥ एवं समानगुणेषु वर्णिषु दण्डमभिधाय विषमगुणेषु दण्डं प्रतिपादयि- षुमाह— अर्धोऽधमेषु द्विगुणः परस्त्रीषूत्तमेषु च । अधमेष्वाक्षेप्त्रेपेक्षया न्यूनवृत्तादिगुणेष्वर्धो दण्डः । पूर्ववाक्ये पञ्चविं- शतेः प्रकृतत्वात्तदपेक्षयार्धः सार्धद्वादशपणात्मको द्रष्टव्यः । परभार्यासु पुनर- विशेषेण द्विगुणः पञ्चविंशत्यपेक्षयैव पञ्चाशत्पणात्मको वेदितव्यः । तथोत्त- मेषु च स्वापेक्षयाधिकश्रुतवृत्तेषु दण्डः पञ्चाशत्पणात्मक एव ॥ वर्णानां मूर्धावसिक्तादीनां च परस्पराक्षेपे दण्डकल्पनामाह— दण्डप्रणयनं कार्यं वर्णजात्युत्तराधरैः ॥ २०६ ॥ १. नेत्रोऽन्ध इति । २. हि । ३. गृह्यः ।

Page 398Permalink

१४२ याज्ञवल्क्यस्मृतिः वर्णा ब्राह्मणादयः, जातयो मूर्धावसिक्ताद्याः । वर्णाश्च जातयश्च वर्णजातयः उत्तराश्च अधराश्च उत्तराधराः, वर्णजातयश्च ते उत्तराधराश्च वर्णजात्युत्तराधराः, तैः वर्णजात्युत्तराधरैः परस्परमाक्षेपे क्रियमाणे दण्डस्य प्रणयनं प्रकर्षेण नयनमूह्यं वेदितव्यम् । तच्च दण्डकल्पनमुत्तराधरैरिति १विशेषेणोपादानादुत्तरा- धरभावापेक्षयैव कर्तव्यमित्यवगम्यते । यथा मूर्धावसिक्तं ब्राह्मणाद्धीनं क्षत्रियादु- त्कृष्टं चाक्रुश्य ब्राह्मणः क्षत्रियाक्षेपनिमित्तात्पञ्चाशत्पणदण्डात्किंचिदधिकं पञ्च- सप्तत्यात्मकं दण्डमर्हति, क्षत्रियोऽपि तमाक्रुश्य ब्राह्मणाक्षेपनिमित्ताच्छ्रुतदण्डो- दूनं पञ्चसप्ततिमेव दण्डमर्हति । मूर्धावसिक्तोऽपि तावाक्रुश्य तमेव दण्डमर्हति । मूर्धावसिक्ताम्बष्ठयोः परस्पराक्षेपे ब्राह्मणक्षत्रिययोः परस्पराक्रोशनिमित्तकौ यथा- क्रमेण दण्डौ वेदितव्यौ । एवमन्यत्राप्यूहनीयम् ॥ २०६ ॥ भाषा—हीन वर्ण की स्त्रियों के विषय में ऐसी गाली देने पर उपरोक्त दण्ड आधा होता है और उत्तम वर्ण की परस्त्री के लिये कहने पर दूना होता है । इसी प्रकार वर्ण और जाति की उच्चता एवं निम्नता का विचार करके दण्ड देना चाहिए ॥ २०६ ॥ एवं संवर्णविषये दण्डमभिधाय वर्णानामेव प्रतिलोमानुलोमाक्षेपे दण्डमाह— प्रातिलोम्यापवादेषु द्विगुणत्रिगुणा दमाः । वर्णानामानुलोम्येन तस्मादर्धार्धहानितः ॥ २०७ ॥ अपवादा अधिक्षेपाः । प्रातिलोम्येनापवादाः प्रातिलोम्यापवादाः, तेषु ब्राह्मणाक्रोशकारिणोः क्षत्रियवैश्ययोर्यथाक्रमेण पूर्ववाक्याद् द्विगुणपदोपात्तपञ्चाश- त्पणापेक्षया द्विगुणाः शतपणाः, त्रिगुणाः सार्धशतपणा दण्डा वेदितव्याः । शूद्रस्य ब्राह्मणाक्रोशे ताडनं जिह्वाच्छेदनं वा भवति; यथाह मनुः ( ८।२६७ ) —‘शतं ब्राह्मणमाक्रुश्य क्षत्रियो दण्डमर्हति । वैश्योऽध्यर्धशतं द्वे वा शूद्रस्तु वधमर्हति ॥’ इति; विट्शूद्रयोरपि क्षत्रियादनन्तरैकान्तरयोस्तुल्यन्यायतया शतमध्यर्धशतं च यथाक्रमेण क्षत्रियाक्रोशे वेदितव्यम् । शूद्रस्य वैश्याक्रोशे शतम् । आनुलोम्येन तु वर्णानां क्षत्रियविट्शूद्राणां ब्राह्मणेनाक्रोशे कृते तस्माद्- ब्राह्मणाक्रोशनिमित्ताच्छ्रुतपरिमितात्क्षत्रियदण्डात्प्रतिवर्णमर्धस्यार्धस्य हानिं कृत्वावशिष्टं पञ्चाशत्पञ्चविंशतिसार्धद्वादशपणात्मकं यथाक्रमं ब्राह्मणो दण्डनीयः । तदुक्तं मनुना (८।२६८)—‘पञ्चाशद्ब्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने । ७वैश्ये १. विशेषोपादानात् । २. दण्डाद्धीनं । ३. सर्ववर्णं । ४. प्रतिलोमा- पवादेषु । ५. वर्णान्त्याच्चानुलोम्येन तस्मादेवार्धहानतः । ६. पञ्चविंशत्यर्धं द्वादश । ७. वैश्यस्य चार्धपञ्चाशत ।

Page 399Permalink

स्यादर्धपञ्चाशच्छूद्रे द्वादशको दमः ॥' इति ॥ क्षत्रियेण वैश्ये शूद्रे वाक्रुष्टे यथा- क्रमं पञ्चाशत्पञ्चविंशतिकौ दमौ । वैश्यस्य च शूद्राक्रोशे पञ्चाशदित्यूहनीयम्; 'ब्राह्मणराजन्यवत्क्षत्रियवैश्ययोः' ( १२।२४ ) इति गौतमस्मरणात् । —'विट्शू- द्वयोरेवमेव स्वजातिं प्रति तत्त्वतः' इति ( ८।२७७ ) मनुस्मरणाच्च ॥ २०७ ॥ भाषा—वर्णों की प्रतिलोमता से दोष लगाने पर (अर्थात् जब छोटी जाति वाला बड़ी जाति वाले को दोष लगावे तो) दूना, तिगुना दण्ड होता है और वर्णों की अनुलोमता से (बड़ी जाति वाले पर मिथ्या आरोप लगावे तो) वर्णानुसार दण्ड आधा कम होता जाता है ॥ २०७ ॥ पुनर्निष्ठुराक्षेपमधिकृत्याह— बाहुग्रीवानेत्रसक्थिविनाशे वाचिके दमः । शत्यस्तदर्धिकः पादनासाकर्णकरादिषु ॥ २०८ ॥ बाह्वादीनां प्रत्येकं विनाशे वाचिके वाचा प्रतिपादिते 'तव बाहू छिनद्मि' इत्येवंरूपे शत्यः शतपरिमितो दण्डो वेदितव्यः । पादनासाकर्णकरा- दिषु 'आदि'ग्रहणात्स्फिगादिषु वाचिके विनाशे तदर्धिकः तस्य शतस्यार्धं तदर्धं तद्यस्यास्त्यसौ तदर्धिकः, पञ्चाशत्पणिको दण्डो वेदितव्यः ॥ २०८ ॥ भाषा—बाहु, गर्दन, आँख, हड्डी, तोड़ने की धमकी देने पर। सौ पण और पैर, नाक, कान और हाथ आदि तोड़ने की धमकी देने पर उसके आधा अर्थात् पचास पण दण्ड होता है ॥ २०८ ॥ अशक्तस्तु वदन्नेवं दण्डनीयः पणान्दश । तथा शक्तः प्रतिभुवं दाप्यः क्षेमाय तस्य तु ॥ २०९ ॥ किंच, यः पुनर्ज्वरादिना क्षीणशक्तिः 'त्वद्वाह्वाद्यङ्गभङ्गं करोमि' इत्येवं शप- न्त्यसौ दश पणान्दण्डनीयः । यः पुनः समर्थः क्षीणशक्तिं पूर्ववदाक्षिपत्यसौ पूर्वोक्त शतादिदण्डोत्तरकालं तस्याशक्तस्य क्षेमार्थं प्रतिभुवं दापनीयः ॥ २०९ ॥ भाषा—यदि अशक्त (ज्वरादि से क्षीण शक्ति वाला) इस प्रकार का वचन बोले तो उसे दस पण का दण्ड देना चाहिए और यदि शक्तिशाली व्यक्ति दुर्बल व्यक्ति से ऐसा वचन कहे तो उससे सौ पण दण्ड लेवे और उस (दुर्बल व्यक्ति) की रक्षा के लिये उससे प्रतिभू (जामिन) उपस्थित करावे ॥ २०९ ॥ तीव्राक्रोशे दण्डमाह— पतनीयकृते क्षेपे दण्डो मध्यमसाहसः । उपपातकयुक्ते तु दाप्यः प्रथमसाहसम् ॥ २१० ॥ १. स्ततोऽर्धिकः । २. क्षेमाच्च । ३. प्रथमसाहसः ।

Page 400Permalink

३४४ याज्ञवल्क्यस्मृतिः पातित्यहेतुभिर्ब्रह्महत्यादिभिर्वर्णिनामाक्षेपे कृते मध्यमसाहसं दण्डः। उपपातकेसंयुक्ते पुनः 'गोघ्नस्त्वमसि' इत्येवमादिरूपे क्षेपे प्रथमसाहसं दण्डनीयः ॥ २१० ॥ भाषा—जो ऐसा (ब्रह्महत्यादि) मिथ्या आरोप लगावे जिससे पतित होने की संभावना हो तो मध्यम साहस का दण्ड और उपपातक (गोवध आदि का दोष) लगाने पर प्रथम (अधम) साहस का दण्ड देना चाहिए ॥ त्रैविद्यनृपदेवानां क्षेप उत्तमसाहसः । मध्यमो जातिपूगानां प्रथमो ग्रामदेशयोः ॥ २११ ॥ किंच, त्रैविद्याः वेदत्रयसंपन्नास्तेषां राज्ञां देवानां च क्षेपे उत्तमसाहसो दण्डः । ये पुनर्ब्राह्मणमूर्धावसिक्तादिजातीनां पूगाः संघास्तेषामाक्षेपे मध्यम- साहसो दण्डः । ग्रामदेशयोः प्रत्येकमाक्षेपे प्रथमसाहसो दण्डो वेदितव्यः ॥२११॥ भाषा—तीनों वेदों के विद्वानों राजा और देवताओं पर आक्षेप करने से उत्तम साहस का दण्ड होता है । जाति, पूग (संघ) के आक्षेप में मध्यम साहस का और ग्राम तथा देश के आक्षेप में प्रथम साहस का दण्ड होता है ॥ २११ ॥ इति वाक्पारुष्यं नाम विवादपदप्रकरणम् । अथ दण्डपारुष्यप्रकरणम् १९ संप्रति दण्डपारुष्यं प्रस्तूयते, तत्स्वरूपं च नारदेनोक्तम् (१५।४)—'परगा- त्रेष्वभिद्रोहो हस्तपादायुधादिभिः । भस्मादिभिश्चोपघातो दण्डपारुष्यमुच्यते ॥' इति। परगात्रेषु स्थावरजङ्गमात्मकद्रव्येषु हस्तपादायुधैरादिग्रहणाद् ग्रावादिभिर्यो- ऽभिद्रोहो हिंसनं दुःखोत्पादनं तथा भस्मना आदिग्रहणाद्रजः पङ्कपुरीषाद्यैश्च य उपघातः संस्पर्शनरूपं मनोदुःखोत्पादनं तदुभयं दण्डपारुष्यम् । दण्ड्यतेऽनेनेति दण्डो देयः, तेन यत्पारुष्यं विरुद्धाचरणं जङ्गमादेर्द्रव्यस्य तद्दण्डपारुष्यम् । तस्य चावगोरणादिकारणभेदेन त्रैविध्यमभिधाय हीनमध्यमोत्तमद्रव्यरूपकर्मत्रैविध्या- त्पुनस्त्रैविध्यं तेनैवोक्तम् (१५।५-६)—'तस्यापि दृष्टं त्रैविध्यं हीनमध्योत्तमक्रमात् । अवगोरणनिःसङ्गापातनक्षतदर्शनैः ॥ हीनमध्योत्तमानां च द्रव्याणां समति- क्रमात् । त्रीण्येव साहसान्याहुस्तत्र कण्टकशोधनम् ॥' इति । निःसङ्गपातनं निःशङ्कप्रहरणम् । त्रीण्येव साहसानि त्रिप्रकाराण्येव । सहसा कृतानि दण्ड- १. वर्णानामाक्षेपे ।- २. संबन्धे तु । ३. जातिरूपाणां । ४. करण- भेदेन । ५. तस्योपहतं । ६. निःशङ्कपातन ।

Page 401Permalink

व्यवहाराध्यायः ३४५ पारुष्याणीत्यर्थः । तथा वाग्दण्डपारुष्ययोरुभयोरपि द्वयोः प्रवृत्तकलहयोः- यः क्षमते न केवलं तस्य दण्डाभावः, किंतु पूज्य एव । तथा पूर्वं कलहे प्रवृत्तस्य दण्डगुरुत्वम् । कलहे च बद्धवैरानुसन्धातुरेव दण्डभाक्त्वम् । तथा तयोर्द्वयोर- पराधविशेषापरिज्ञाने दण्डः समः । तथा श्वपचादिभिरार्याणामपराधे कृते सज्जना एव दण्डदापनेऽधिकारिणः, तेषामशक्यत्वे तान् राजा घातयेदेव; नार्थं गृह्णीया- दित्येवं पञ्च प्रकारा विधयस्तेनैवोक्ताः ( ना० १५।७ )—'विधिः पञ्चविधस्तूक्त एतयोरुभयोरपि । पारुष्ये सति संरम्भादुत्पन्ने क्रुद्धयोर्द्वयोः ॥ स मन्यते यः क्षमते दण्डभाग्योऽतिवर्तते । पूर्वमाचारयेद्यस्तु नियतं स्यात्स दोषभाक् ॥ पश्चाच्चः सोऽप्यसत्कारी पूर्वे तु विनयो गुरुः । द्वयोरापन्नयोस्तुल्यमनुबध्नाति यः पुनः ॥ स तयोर्दण्डमाप्नोति पूर्वो वा यदि वेतरः । पारुष्यदोषावृतयोर्युगपत्संप्र- वृत्तयोः ॥ विशेषश्चेन्न लक्ष्येत विनयः स्यात्समस्तयोः । श्वपाकषण्डचण्डाल- व्यङ्गेषु वधवृत्तिषु ॥ हस्तिपव्रात्यदासेषु गुर्वाचार्यनृपेषु च । मर्यादातिक्रमे सद्यो घात एवानुशासनम् ॥ यमेव ह्यतिवर्तेरन्नेते सन्तं जनं नृषु । स एव विनयं १कुर्यान्नूनं विनयभाङ्नृपः ॥ मला ह्येते मनुष्याणां धनमेषां मलात्मकम् । अत- स्तान्घातयेद्राजा नार्थदण्डेन दण्डयेत् ॥' ( १५।९, १०, ११-१४ ) इति ॥ एवंभूतदण्डपारुष्यनिर्णयपूर्वकत्वादण्डप्रणयनस्य तत्स्वरूपसंदेहे निर्णय- हेतुमाह— २असाक्षिकहते चिह्नैर्युक्तिभिश्चागमेन च । द्रष्टव्यो व्यवहारस्तु कूटचिह्नकृतो ३ भयात् ॥ २१२ ॥ यदा कश्चित् 'रहस्यहरनेन हतः' इति राज्ञे निवेदयति, तदा ४चिह्नैर्वा- दिस्वरूपगतैर्लिङ्गैर्युक्त्या कारणप्रयोजनपर्यालोचनात्मिकया आगमेन जनप्र- वादेन 'च'शब्दाद्दिव्येन वा कूटचिह्नकृतसंभावनाभयात्परीक्षा कार्या ॥ २१२ ॥ भाषा—जो विना साक्षी उपस्थित किये हुए किसी पर एकान्त में मारने पीटने का अभियोग लगाता है तो चिह्नों, युक्ति ( कारण, प्रयोजन और पर्यालोचन ) और आगम द्वारा उसकी परीक्षा करे; कारण झूठे ( चोट के ) चिह्न बना लेने की भी शंका रहती है ॥ २१२ ॥ एवं निश्चिते साधनविशेषेण दण्डविशेषमाह— भस्मपङ्करजःस्पर्शो दण्डो दशपणः स्मृतः । अमेध्यपाणिंनिष्ठ्यूतस्पर्शने द्विगुणस्ततः ॥ २१३ ॥ १. कुर्यान्न तद्विनयभाक् । २. असाक्षिके हते । ३. कृताहते । कृताङ्गवात् । ४. चिह्नैर्मर्गादि । ५. द्विगुणः स्मृतः ।