युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 108, कुल 278 में से
संदर्भ में पढ़ें१८ युक्तिकल्पतरौ— तत्रध्वज-युक्तिः । सेना-चिह्नं क्षितीशानां दण्डोध्वज इति स्मृतः । सपताको निष्पताकः स ज्ञेयो द्विविधो बुधैः ॥ ४६२ ॥ स पातक-ध्व[ज]स्याग्रे यथा हस्तं परिन्यसेत् । जय-हस्तो ध्वजो नाम नैनं सामान्यमर्हति ॥ ४६३ ॥ वंशोऽथवा कुलः शालः पालाशश्चम्पकस्तथा । नैपो नेषो(१)थवा दण्डस्तथा वैराज-वारणः ॥ ४६४ ॥ अज्ञानादिक-(२) संज्ञानां वर्ण-रूपः प्रकाशितः । सर्वेषां चैव वंशस्तु दण्डः सम्पत्ति-कारकः ॥ ४६५ ॥ अकचटतप यशाः । पताका सार्द्ध-दैर्घ्येण दण्डस्तु पृथिवी-भुजाम् । प्रता पाय पताकास्तु अष्टावेव प्रकाशिताः ॥ ४६६ ॥ पञ्चहस्तायता(यथा) हस्त-परिणाहा जयाभिधाः । जया च विजया भीमा चपला वैजयन्तिका ॥ ४६७ ॥ दीर्घा विलासा लोला च ज्ञेया हस्तैक वृद्धितः । परिणाहे पादवृद्धि रथ वर्गस्य निर्णयः ॥ ४६८ ॥ रक्तः श्वेतोऽरुणः पीतो चित्रो नीलोऽथ कर्बुरः । कृष्णश्चेति पताकानां वर्णः रूपः प्रकाशितः । अवर्णा(ज्ञा)दिकसंज्ञानां अष्टाना्राष्टक-चयम् ॥ ४६९ ॥ कलसो दर्पणश्चन्द्रः पद्मकोषो यथाक्रमम् । ब्रह्म-क्षत्रिय-विट्शूद्र-जातीनां संप्रकाशितः ॥ ५०० ॥ ( १ ) नैषा निम्बो इति (ख) पुस्तक पाठः । ( २ ) अवर्णादिक इति (ख) पुस्तक पाठः ।