भारतकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 113, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 113

चामरयुक्तिः । ७३ सौवर्णं राजतं युग्मं त्रैदशानां महीभुजाम् । योजयेदिति निश्चित्य वलि-कल्पन कर्म्मणि ॥ ३७ ॥ स्थलजं जाङ्गलो राजा आनूपो जलजं वहेत् । हीरञ्च पद्मरागञ्च वैदूर्य्यं नील मेव च ॥ ३८ ॥ मणिवलिषु योक्तव्यो ब्रह्मादीनां यथाक्रमम् । शुक्लो रक्तोऽथ पीतश्च नानावर्णी यथाक्रमम् ॥ ३९ ॥ ब्रह्म-क्षत्रिय-विट्-शूद्र-जातीनाञ्च महीभुजाम् । चामरं राज-केशस्य न सामान्यस्य भूपतेः ॥ ४० ॥ न भव्यमानं तो न्यूनं चामरं गुणमावहेत् । * अथ चामरपरीक्षा । स्थलजं जलजञ्चेति चामरं द्विविधं विदुः ॥ ४१ ॥ मेरौ हिमालये विन्ध्ये कैलासे मलये तथा । उदयेऽस्तगिरौ चैव गन्धमादन पर्व्वते ॥ ४२ ॥ एवमेतेषु शैलेषु याश्चमर्यो भवन्ति हि । तासां वालस्य जायेत चामरेत्यभिधा भुवि ॥ ४३ ॥ आपीताः कनकाद्रिजा हिमगिरेः शुभ्रायता विन्ध्यजाः, कैलासादसिताः सिता मलयजाः शुक्लास्तथा पिङ्गलाः । आरक्ता उदयोद्भवा अस्तजा आनील-शुक्लत्विषः ; कृष्णाः केचन गन्धमादन भवाः पाण्डुत्विष-श्चामराः ॥४४॥ अन्येषु प्रायशः कृष्णा श्चामराः सम्भवन्ति हि । ब्रह्म-क्षत्रिय-विट्-शूद्र-जातयस्ता-श्चतुर्विधाः ॥ ४५ ॥ चमर्य्यः पर्व्वतोद्भूता यथापूर्वं गुणावहाः । दीर्घ-वालाः सुलघवः स्निग्धाङ्गाश्चापि कोमलाः ॥ ४६ ॥ १०