युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 167, कुल 278 में से
संदर्भ में पढ़ेंमरकतयुक्तिः । १२७ कथिता विजातय इमे सदृशा मणिरिन्द्रनीलेन ॥ २५ ॥ गुरुभावकठिन-भावावितेषां नित्यमेव विज्ञेयौ । काचाद् यथावदुत्तर-विवर्द्धमानौ विशेषेण ॥ २६ ॥ इन्द्रनीलो यदा कश्चिद्विभर्त्त्याताम्रवर्णताम् । रक्तणैयौ तथा ताम्रौ करवीरौत्पलावभौ ॥ २७ ॥ यावन्तञ्च क्रमेदग्निं पद्मरागः प्रयोगतः । इन्द्रनीलमणिस्तस्मात् क्रमेत सुमहत्तरम् ॥ २८ ॥ तदाकर-समुद्भूतो मत्तभृङ्ग-सम-द्युतिः । दीप्तिच्छाया-समाविष्टो भ्रामरो मणिरुच्यते ॥ २६ ॥ आरक्तता सदा तत्र तदा टोट्टिभसंज्ञितः । तस्य धारणमात्रेण गर्भिणी स्त्री प्रसूयते ॥ ३० ॥ अथ मूल्यम्,— यत्पद्मरागस्य महागुणस्य, मूल्यम्भवेन्माष(स)-समुन्त्रि(त्थि)तस्य । तदिन्द्रनीलस्य महागुणस्य ; सुवर्णसंख्या तुलितस्य मूल्यम् ॥ ३१ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ इन्द्रनील परीक्षा ॥ अथ मरकत परीक्षा । गरुड़पुराणे,— दानवाधिपतेः पित्तमादाय भुजगाधिपः । द्विधा कुर्व्वन्निव व्योम-सत्वरं वासुकिर्ययौ ॥ ३२ ॥ (स तदा स्व-शिरोरत्न-प्रभादीप्ते नभोऽम्बुधौ ।