युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 181, कुल 278 में से
संदर्भ में पढ़ेंअस्त्रयुक्तिः । १४१ अभिन्ने दृश्यते यादृग् विभिद्य घटिते तथा। यदेव दृश्यते चिह्नं तदङ्गं संप्रचक्षते ॥ ३९ ॥ नील कृष्णादिकं खड्गे रूपमित्यभिधीयते । तेनैव यत्प्रतीतं स्यात् तज्ज्ञाभिरिति (३) गद्यते ॥ ४० ॥ अङ्गातिरिक्तं यज्जाति स्तन्माहात्म्योपसूचकम् । तन्नेत्रमिति जानीयात् खड्गे खड्गविशारदाः ॥ ४१ ॥ अङ्गातिरिक्तं खड्गादि यच्छुद्रत्वापसूचकम् । तदरिष्टमिति प्राहुर्भूमि रङ्गादि-धारणम् ॥ ४२ ॥ यः खड्गे जायते शब्दो नखदण्डादिनाहते । स ध्वनिस्तुलना मानं ज्ञानमष्टविधन्त्विदम् ॥ ४३ ॥ पञ्चाद्या निपुणैः खड्गे सम्भाव्यन्तेऽपि कृत्रिमाः । अन्यावकृत्रिमौ ज्ञेयौ तावेव सहजाविति ॥ ४४ ॥ शतमङ्गानि चत्वारि रूपाणि जातयस्तथा । विंशन्नेत्राणि जानीयादरिष्टानि तथैव च ॥ ४५ ॥ भूमिश्च द्विविधा ज्ञेया ध्वनिरष्टविधो मतः । मानन्तु द्विविधं प्रोक्तमित्येषां संग्रहो मतः ॥ ४६ ॥ अथ खड्गस्य शताङ्गगणना । लौहार्णवे,— रूप्यस्वर्णगजोरुवुकमदन(४)-स्थूलाङ्ग कृष्णारुणः श्वेताम्भोज गदातिमानन (५)कलाग्रन्थिस्थिरा तैत्तिराः। मालाजोवक षटपदोर्ध्ममरिच व्यालाश्ववर्हाञ्जन- ( ३ ) तज्जातिरिति (क) पुस्तक पाठः । ( ४ ) रोप्यस्वर्णागजोरुदमन इति (ख) पुस्तकपाठः । ( ५ ) गदातिलानलक्षा इति (ग) पुस्तकपाठः ।