भारतकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 234, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 234

१८४          युक्तिकल्पतरौ— शिशिरे तैल पलाष्टकं कटिख्यं , दिनसप्तावधि पाययेत् तुरङ्गान् । तदनु प्रातर्भोजयेद् यवांश्च ; यवयवसांश्च तथाऽमृतस्वरूपान् ॥ २६ ॥ यस्य दत्ता यवाभोज्ये शिशिरे समुपस्थिते । अकृत्वापि क्रियाः सर्व्वाः स हयः सुखमृच्छति ॥ २७ ॥ वसन्ते संप्राप्ते निजसुखवशाद्वाह्य हयान्, घृतं तैलं शस्तं सकलविधिरुक्तोऽपि च मतः । पयो दद्यादस्मै सलवणमथो वाहनविधि- ; भृशं योज्यस्तेनाब्दमपि सुखमिच्छेद्धयवरः ॥ २८ ॥ वसन्तसमये योऽश्वः स्थाने तिष्ठति बन्धने । तस्योत्साहः प्रणश्येत सालस्यं जायते वपुः ॥ २९ ॥ ग्रीष्मे घृतं चतजमोक्षणघर्म्मशान्तिं, सुच्छायवन्धन-विमर्द्दन-शीततोयम् । दूर्व्वा तृणं लघु च कोमलमन्यदेव ; यत् किञ्चिदेवमुपयुक्तमिदं वदन्ति ॥ ३० ॥ भोजेन तु हयलक्षणमन्यथोक्तम् । तद्यथा,— स्निग्धाङ्गो लघुतरलोमकस्तु पुच्छो, दीर्घास्यास्थिनयनकेश पृष्ठवंशः (१) । रक्तोष्ठः पृथुलनितम्बभारर(व)क्षा ; राजार्हो भवति तुरङ्गमः प्रशस्यः ॥ ३१ ॥


(१) स्निग्धा......कर्ण पुच्छोदीर्घास्य विनयनकेश पृष्ठवंशः इति (क) पुस्तक पाठः ।