युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 248, कुल 278 में से
संदर्भ में पढ़ें२०८ युक्तिकल्पतरौ— कुरुते धनवृद्धिं स दोषैर्मुक्तो यदा त्वयम् ॥ ४९ ॥ वर्णस्तु (१) सध्वजः पुच्छो रम्यश्च ध्वज उच्यते । भर्तुः कुलं धनं धान्यं विवर्द्धयति निश्चयम् ॥ ५० ॥ पूर्व्वार्द्धे चोन्नतो वस्तु परार्द्धे चैव नीचकः । निर्द्दोषो वाम इत्येष कुरुते रिपुसङ्क्षयम् ॥ ५१ ॥ चन्द्रकं दृश्यते यस्य ललाटे देवनिर्मितम् । क्षेमनामा वृषः कुर्यात् धनधान्यविवर्द्धनम् ॥ ५२ ॥ आवर्त्ताश्च शुभा यस्य शुक्तयश्चापि वा शुभाः । भद्रनामा वृषः कुर्यात् भर्तुः सर्व्वार्थ-साधनम् ॥ ५३ ॥ आवर्त्तं शुक्तिविज्ञानं हयेषु वृषभेष्वपि । पादाः सर्व्वे सिता यस्य पुच्छभालौ सितौ तथा ॥ ५४ ॥ महोक्षा चायते नेत्रे कर्णौ चाति लघू स्थिरौ । मुष्कयोः कृष्णता चैव शृङ्गे चातिशुभे दृढे ॥ ५५ ॥ तनुरोमा (२) महावेगः स्निग्धगम्भीर निस्वनः । शिव इत्येष कथितः शिवं प्रकुरुते ध्रुवम् ॥ ५६ ॥ चरणाः पञ्जराः स्थूलाः शिरः शुभ्रं भवेत्तनुः । आपुच्छादायता शुभ्रा रेखा मस्तकगामिनी ॥ ५७ ॥ रक्ताताल्वोष्ठजिह्वस्तु स्थिरः स्थैर्य्यकरः श्रियाः । नाल्पपुण्येन लभ्योऽयं वृषभः शुभलक्षणः ॥ ५८ ॥ गर्गस्तु,— महत्त्वं तनुलोमत्वं पुष्टता भारवाहिता (३) । कुमारकत्वमित्येते वृषभाणां गुणा मताः ॥ ५९ ॥ (१) षण्डस्तु रम्यः सध्वज इति (क) पुस्तकपाठः । (२) तानुरोमाः इति (ख) पुस्तकपाठः । (३) बारवाहिता इति (ग) पुस्तकपाठः ।