युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 250, कुल 278 में से
संदर्भ में पढ़ें२१० युक्तिकल्पतरौ— व्यङ्गत्वं मारकत्वञ्च वृषदोषा उदाहृताः । ब्रह्मादि-जातिभेदेन चत्वारो ये वृषा मताः ॥ ७१ ॥ चतुर्विधानां लोकानां त एव स्युः शुभावहाः । यो मोहादन्यजातीयं कुरुते वृषभं नरः ॥ ७२ ॥ तस्य नश्यन्ति वित्तानि धनमायुः कुलं वलम् । दुर्बलो वृषभोयत्र गो-जातिस्तत्रनश्यति ॥ ७३ ॥ वातपित्तकफोद्रेकाद् व्याधयो ये वृषे मताः । तेषामुपशमः कार्य्यो यथास्वं विधिना बुधैः ॥ ७४ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ वृषपरीक्षा । ——————*—————— अथ महिष परीक्षा । विपत्ते ह्यसन्नासं कुरुते येन हेतुना । भारं वहति वा दूरं महिषोऽस्मान्निरूप्यते । ब्रह्मक्षत्रियविट्शूद्रान्त्यजभेदेन पञ्चधा ॥ ७५ ॥ तद्यथा । भृशं कृष्णाः पवित्राश्च वृहद्वृषण घोणकाः । वह्नाशिनो मारकाश्च महिषा ब्रह्मजातयः ॥ ७६ ॥ केकराः कामलाः (१) स्थूला भृशं क्रुद्धाश्च मारकाः । वह्नाशिनो बहुवला महिषाः क्षत्रजातयः ॥ ७७ ॥ श्लथाङ्गाः क्षीणशृङ्गाश्च सुक्रुद्धाभारवाहिनः । अमारका बहुवला महिषाः वैश्यजातयः ॥ ७८ ॥ क्षीणाः क्षीणवलाः क्षीणशृङ्गघोणारुषश्च (२) ये । अल्पाशिनो भारसहा महिषाः शूद्रजातयः ॥ ७९ ॥ (१) कपिलां इति (क) पुस्तक पाठः । (२) घोणारुणाश्चः इति (ख) पुस्तक पाठः ।