युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 251, कुल 278 में से
संदर्भ में पढ़ेंमृगयुक्तिः । २११ सर्व्वदा जलमिच्छन्ति येऽल्पसत्त्वा महौजसः । भारसहाः कुण्ठशृङ्गास्तेऽन्यजा महिषा मताः ॥ ८० ॥ एषां दोषा गुणा वापि वृषवल्लक्षयेद्बुधः । पोषणञ्चापि संस्थानं वृषतुल्यं तथा मतम् ॥ ८१ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ महिषपरीक्षा । अथ मृगपरीक्षा । मृगनाभिं समादातुं कौतुकार्थं तथापुनः । मृगाःपोष्या महीन्द्राणां तेषां वक्ष्यामि लक्षणम् ॥ ८२ ॥ पृथिव्यव् वायुगगनास्तेजोऽधिकास्तु पञ्चधा । भिद्यन्ते नैकभेदास्तु समस्ता मृगजातयः ॥ ८३ ॥ तद्यथा । ये गन्धिनः क्षीणशरीरकर्णास्ते पार्थिवा गन्धमृगाः प्रदिष्टाः । सर्व्वाङ्गमेषां सुरभि प्रकामं पुण्ये प्रदेशे प्रभवन्ति ते तु ॥ ८४ ॥ ये वै विशाला गुरुदीर्घशृङ्गा अमांसलास्तीव्रखुर प्रदेशाः । आप्यास्तु ते वै प्रसरन्तिभूरि सर्व्वत्र देशे प्रभवन्ति चैव ॥ ८५ ॥ धावन्ति ये वातमिवान्तरीक्षे दीर्घास्तु ते वातमृगाः प्रदिष्टाः । ते यत्र यत्रैव भवन्ति शक्तास्तत्रैव सर्व्वाणि शुभानि सन्ति ॥८६॥ लघुप्रमाणा लघु वीर्य्यसत्त्वा निर्गन्धदेहाश्छगल-प्रमाणाः । ते गगना वेगकरा नराणां स्पृश्या न ते नापि निरीक्षणीयाः ॥८७॥ ये कृष्णवर्णा गुरुदीर्घशृङ्गाः क्रुद्धा भृशं यान्ति च वायुवेगाः(त्) । ते कृष्णसाराः खलु तेजसास्तु पुण्यप्रदेशे प्रभवन्ति ते तु ॥ ८८ ॥