युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
DevanagariHindipublished278 पृष्ठ
पृष्ठ 252, कुल 278 में से
संदर्भ में पढ़ेंपृष्ठ 252
२१२ युक्तिकल्पतरौ— भोजोऽप्याह । पार्थिवादिर्मृगः सर्व्वश्चतुर्जातिर्भवेत् पृथक् । सुशृङ्गास्तनुलोमानो ब्राह्मणा मृगजातयः ॥ ८९ ॥ क्रुद्धाः पञ्चरि (१) शृङ्गाश्च क्षत्रियाः खरलोमशाः । आवर्त्त शृङ्गास्तनवो हरिणा वैश्यजातयः ॥ ९० ॥ कुशृङ्गा वाप्यशृङ्गा वा शूद्राः खरतनूरुहाः । अश्वानां ये गुणा दोषास्ते ज्ञेया हरिणेष्वपि ॥ ९१ ॥ तथापि दोषाः पञ्चामी वच्यन्ते हरिणाश्रयाः । नेत्रयोरन्तरे यस्य लोमावर्त्तः स पापकृत् ॥ ९२ ॥ विषमौ विकतौ शृङ्गौ यस्य स क्षेमनाशनः । आवर्त्तः पृष्ठतो यस्य आनाभि-मभिविन्दति ॥ ९३ ॥ पश्चार्द्धे यस्य वावर्त्तस्तौ त्याज्यौ भयकारको । वर्णनेत्रपदादीनां वैकृताङ्गन-नाशनः ॥ ९४ ॥ गार्ग्यः । दोषवन् मृगजातीनां विजातीनामथापि वा । दर्शनात् स्पर्शनात् चैव गन्धादानाच्च पोषणात् । भवेयुर्विपदः सर्व्वास्तथा चैवाद्य पोषणात् ॥ ९५ ॥ शङ्खोऽपि । हरिणपोषणतो धरणीभुजांनहि भवेन्नरुद्भव-पीड़नम् । न परिवह्निरुजोरिपुजं भयं तदव तं हरिणं गुणिनं नृप ॥ ९६॥ इति श्रीभोजराजीये युक्तिकल्पतरौ मृगपरीक्षा ।
( १ ) पशुरि इति (क) पुस्तक पाठः ।