युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 253, कुल 278 में से
संदर्भ में पढ़ेंसारमेययुक्तिः । २१३ अथ सारमेय परीक्षा । मृगयार्थं शाकुनार्थं कौतुकार्थि-महोच्छिता (१) । श्वानः पोष्यास्ततस्तेषामथ वक्ष्यामि लक्षणम् ॥ गुणजाति प्रभेदेन शुनां भेदो ह्यनेकधा ॥ ९७ ॥ तद्यथा । सात्त्विका राजसाश्चैव तामसाश्च त्रिधा मताः । अश्रान्ता अपरिच्छीणाः पवित्राः स्वल्पभोजिनः ॥ ९८ ॥ श्वानस्ते सात्त्विकाः प्रोक्ता दृश्यन्ते च क्वचित् क्वचित् । क्रुद्धा बहुभुजो दीर्घा गुरु वक्षस्तनूदराः ॥ ९९ ॥ जाङ्गलस्था जाङ्घिकाश्च श्वानस्ते राजसा मताः । अल्पश्रमेण ये श्रान्ता ललज्जिह्वा गुरुदराः ॥ १०० ॥ श्वानस्ते तामसा ज्ञेयाः सम्प्लावनसमाश्रयाः । ब्रह्मादि जातिभेदेन चतुर्द्धा सर्व्व एव हि ॥ १ ॥ शुभ्रा दीर्घाः स्तब्धकर्णा लघुपुच्छास्तनूदराः । सुशुक्लनखदन्ताश्च श्वानस्ते ब्रह्मजातयः ॥ २ ॥ रक्ताङ्गास्तनुलोमानो ललत्कर्णास्तनूदराः । दीर्घा दीर्घा नखरदाः श्वानस्ते क्षत्रजातयः ॥ ३ ॥ ये पीतवर्णा मृदवस्तनुलोमान एव च । क्रुद्धाक्रुद्धा ललज्जिह्वास्ते श्वानो वैश्यजातयः ॥ ४ ॥ कृष्णवर्णास्तनुमुखा दीर्घरोमाण एव च । अक्रुद्धाः श्रमयुक्ताश्च ते श्वानः शूद्रजातयः ॥ ५ ॥ (१) मृगयत्वं भ्राईयर्थं कौतुकार्थं महोच्छिता इति (क) पुस्तक पाठः ।