भारतकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 254, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 254

२१४ युक्तिकल्पतरौ— लघु प्रमाणास्तु गुरुदरा ये येऽमेध्यभक्षा बहुपुत्रकाश्च । प्रवृद्धपुच्छा लघुसूक्ष्म दन्ता- स्ते चान्त्यजाः कुक्कुरजातयः स्युः ॥ ६ ॥ द्विजाति चिह्नंसंसर्गात् द्विजातिः श्वा भयावहः । लक्षणत्रयसम्बन्धात् त्रिजातिर्धननाशनः ॥ ७ ॥ भोजोऽपि,— द्विजातिर्वा त्रिजातिर्वा विजातिः श्वा महीभृताम् । भयं धनक्षयं शोकं विदधाति यथाक्रमम् ॥ ८ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ श्वपरीक्षा । भरद्वाजस्तु वलिप्रकरणे— अजलक्षणमाह । तदनुसारिन भोजोऽपि,— नक्षत्राणां विभेदेन नराणान्तु गणत्रयम् । तेषां शुभाय निर्दिष्टं पशुवस्तत्रयं (१) वलौ ॥ ९ ॥ तद्यथा,— ये कृष्णाः शुचयश्चाङ्गाः पशवोऽन्ये तथैव च । देवजातिभिरुत्सृज्यास्ते सर्व्वार्थोपसिद्धये ॥ १० ॥ ये पीता हरिता वापि नरजातेरुदीरिताः । ये शुक्लाश्च महान्तो वा रक्षोजातेः शुभप्रदाः ॥ ११ ॥ ( १ ) पशुवस्तुलयं इति (क) पुस्तक पाठः ।