युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 256, कुल 278 में से
संदर्भ में पढ़ें२१६ युक्तिकल्पतरौ— अथ द्विपद्यानोद्देशः । मानुषैः पक्षिभिर्वापि तथान्यैर्द्विपदैरपि । यानं स्याद्द्विपदं नाम तस्य भेदो ह्यनेकधा ॥ १७ ॥ हंसैर्मयूरैः कङ्कालैरन्यैर्वापि विशेषतः । सामान्यञ्च विशेषश्च तस्य भेदो द्विधा भवेत् ॥ १८ ॥ तत्र सामान्यम् । यथा,— यानं यद्द्विपदाभ्यां सत्तद्दोलादि कमुच्यते (१) । चतुर्भियुं क्ति संयुक्तैर्दण्डधातुगुणाम्बरैः ॥ दोलेति कथ्यते तेषां नियमोऽयं प्रदर्श्यते ॥ १९ ॥ तत्र समयः । उपेन्द्र मूलाद्भि शिवाग्निवर्जं, शस्ते न्दुतारा (२) तिथि योगलग्ने । विष्टिक्षमापुत्र यमाह्ववर्जं ; दोलादिकारोहणमाद्यमिष्टम् ॥ २० ॥ दण्डकाष्ठस्य नियमे नियमश्चात्र दण्डवत् । कनकं रजतं ताम्रं लौहं धातुचतुष्टयम् ॥ २१ ॥ चतुर्विधानां सुद्दिष्टं ब्रह्मादीनां यथाक्रमम्(मात्) । सुराणाम (३) सुराणाञ्च चातुर्वर्ण्यमुदाहृतम् ॥ २२ ॥ ( १ ) यत्तद्द्यानादिकमुच्यते इति (क) पुस्तकपाठः । ( २ ) भावा इति इति (ख) पुस्तक पाठः । ( ३ ) गुह्यानाम् इति (ग) पुस्तक पाठः ।