युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 257, कुल 278 में से
संदर्भ में पढ़ेंयानयुक्तिः । २१७ त्रिहस्तसम्मितो मध्ये तदद्धं पार्श्वयोर्द्वयोः । विजयानाम दोलेयं विजयाय महोच्छिताम् ॥ २३ ॥ विजया मङ्गला क्रूरा शिवा लेशा शुभा क्रमात् । वितस्त्येकैकसंवृद्ध्या दोलाः षट् स्युः सुखान्नदाः (१) ॥ २४ ॥ कुम्भश्च पद्मकोषश्च शङ्खः पर्व्वत एव च । चतुर्विधानां दोलासुं कल्याणाय चतुष्टयम् ॥ २५ ॥ हंसः केकी शुको भृङ्गश्चतुष्टयमिदं क्रमात् । कुम्भाद्यग्रे निधातव्यं चतुर्विध महोच्छिताम् ॥ अत्रापि वक्रं(र्ग)विन्यासो विज्ञेयो नवदण्डवत् ॥ २६ ॥ भोजस्तु,— गजः प्रस्थानदोलायां रणदोलासु(च) केशरी । मृगो भ्रमणदोलायां क्रीड़ादोलासु षट्पदः ॥ २७ ॥ भुजङ्गमः शत्रुराज्ये वृषभो दान-कर्मणि । दोलोपरि (पर्य्यु) परि न्यस्यो वहुभिर्मुनि°शासनम् ॥ २८ ॥ यद्वक्रदण्डं यानं स्यात् तत् पर्य्यङ्कमिति स्मृतम् । त्रिहस्तसम्मितो यानस्तदर्द्धपरिणाहवान् ॥ २६ ॥ पर्य्यङ्कः क्षेमनामायं भर्तुः सर्व्वार्थ-साधकः । क्षेमो(मे) मृत्युर्जयो दुःखश्चत्वारस्ते यथाक्रमम् ॥ ३० ॥ वितस्त्येकैक संवृद्ध्या यथा चाण्नं सङ्गिनः । मणिधातुगुणादीनां नियमः पूर्व्ववन्मतः ॥ ३१ ॥ विशेषमथ वक्ष्यामि पर्य्यङ्कस्य यथाक्रमम् । शुक्तिश्च गजदन्तश्च मृगशृङ्गं तथैव च ॥ ३२ ॥ ( १ ) यथानन्दाः इति (क) पुस्तक पाठः । २८