युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 258, कुल 278 में से
संदर्भ में पढ़ें२१८ युक्तिकल्पतरौ— अनू(नृ)पादिकजातानां पर्यङ्केषु न्यसेत् क्रमात् । पद्मशङ्खगजाश्वालिशंसकोकशुकान् (१) क्रमात् ॥ ३३॥ आदित्यादि दशाजानां मणिरूपेण विन्यसेत् । महीन्द्राणां विशेषेण सिंहमानेव शस्यते ॥ ३४ ॥ निम्माणे शुक्तिदण्डाश्च राज्यभोगसुखप्रदाः । तदेवावक्रदण्डन्तु खट्वयानमिति स्मृतम् ॥ ३५ ॥ अस्यापि पूर्व्ववन्मानं मणिधात्त्वादि-निर्णयः । विशेषश्चरणोच्छ्रायः परिणाहार्द्ध-सम्मितः । तदेव चेन्निच्चरणं पोठयानमिति स्मृतम् ॥ ३६ ॥ तस्य भेदो द्विधा दण्डवक्रावक्र (२) प्रभेदतः । मानादिकं पूर्व्वतुल्यं विशेषाच्चतुरस्रता ॥ ३७ ॥ एवमन्यानि मिश्रानि यानानि विविधानि च । सामान्याख्यानि जानीयात् शिल्पिभिर्निर्मितानि वै ॥ ३८ ॥ मनोहरत्वं लघुता दृढतेति गुणत्रयम् । प्रोक्तं द्विपदयानानां सहजं भोजभूभुजा ॥ ३९ ॥ इति श्रीभोजराजोये युक्तिकल्पतरौ द्विपदयानपरीक्षा । —*— अथ विशेष द्विपदयान कथनम् । राज्ञो यद्विपदं यानं विशेषाख्यमलं विदुः (३) ॥ ४० ॥ तद्यथा । चतुर्भिरुह्यते यत्तु चतुर्द्दोलं तदुच्यते ॥ ४१ ॥ (१) शुकाः इति (क) पुस्तक पाठः । (२) वक्रावक्र इति (ख) पुस्तकपाठः । (३) -मतद्विहः इति (ग) पुस्तक पाठः।