युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 42, कुल 278 में से
संदर्भ में पढ़ेंDigitized By Siddhanta eGangotri Gyaan Kosha ४ युक्तिकल्पतरौ— वृद्धः (१) कुलोद्गतः शक्तः पितृपैतामहः शुचिः । राज्ञामन्तःपुराध्यक्षो विनीतश्च तथेष्यते ॥ २३ ॥ हयशिक्षा विधानज्ञ * स्तच्चिकित्सित-पारगः । अश्वाध्यक्षो महीभर्तुः सुभक्तश्च प्रशस्यते ॥ २४ ॥ गजलक्षण-जातिज्ञ † स्तच्चिकित्सित पारगः । निर्भयश्च विशुद्धश्च गजाध्यक्षः प्रशस्यते ॥ २५ ॥ अस्त्र (२) शास्त्रेषु कुशलो बहुबन्धु-जनान्वितः । शुद्धः कुलोद्भवो विद्वान् धर्मभीरु रभोस्तथा ॥ २६ ॥ युद्धाध्यक्षः ‡ स्मृतोराज्ञां दुर्गसन्धानकार्यवित् (३) । अध्यक्षान् विविधान् कुर्य्या स्तत्र तत्र विपश्चितः ॥ २७ ॥ (१) बुद्धः इति (ख) पुस्तक पाठः । (२) अस्त्र शस्तेषु इति (ख) पुस्तक पाठः ।—अत्रास्त्रशास्त्राणि धनु- [L1