भारतकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 46, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 46

८ युक्तिकल्पतरौ— संधा(ङ्ग)यान्यत्र यायाद्वा पार्ष्णिग्राहेण (१) शत्रुना । रात्रावुलूको विनिहन्ति (२) काकान्, काकोऽप्यु लूकं (३) रजनौ व्यपाये । इति स्वकालं समुदीक्ष्य * यायात् ; काले फलन्तीह समीहितानि ॥ ५२ ॥ प्रबल-व्यसनोपेतं दुर्भिक्षादि-प्रपीड़ितम् । सभू(भृ)तान्तरकोपेतं न यायात् पृथिवीपतिः ॥ ५३ ॥ निजदैवानुकूल्ये हि प्रातिकूल्ये परस्य च । यायान्नृपो यतो दैवं बलमेतत्परं मतम् ॥ ५४ ॥ निरातङ्के (४) निरुत्पाते निरुद्विग्ने निरामये । विपत्ते जयमिच्छन्ति राजानो विजिगीषवः ॥ ५५ ॥ ०० अथ विग्रहः। यत्रायुद्धे † (५) ध्रुवं नाशो युद्धे जीवितसंशयः । तं कालमेकं युद्धस्य प्रवदन्ति मनीषिणः ॥ ५६ ॥ ( १ ) वाहेन इति (ग) पुस्तक पाठः । ( २ ) निवह्नन्ति इति (क)—(ख) पुस्तक पाठः । ( ३ ) उलूको इति (क)—(ख) पुस्तक पाठः । ( ४ ) 'अन्यत्र तु' इति (ग) पुस्तक पाठः । ( ५ ) यत्न युद्धे इति (ग) पुस्तक पाठः ।

  • —श्लोकोऽयं शाकुन-विषये । अथवा यदा स्वस्य प्राबल्यं शत्रोर्दोर्बल्यं तत्रयायादिति काकोलूक न्यायः । † यत्रायुद्धे'ति—अरातिना सह राज्ञो युद्धे निश्चिते तेन निधनं राज्यापहरणञ्च अवश्यम्भावि, अतो युद्धं श्रेयः, विना संग्रामेन मरणात् समरे मरणं राज्ञो धर्मः स एव युद्धकालः ।