युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 47, कुल 278 में से
संदर्भ में पढ़ेंनीतियुक्तिः । ९ आत्मोदये विगृह्णीयात् क्षोभो नात्म(थ)बले यदि । व्यसने च प्रहर्त्तव्यं शत्रौ न तु विपर्य्यये ॥ ५७ ॥ स्वयं राज्ञा न योद्धव्यं येऽपि शस्त्रास्त्रकोविदैः । मृता (६) युद्धेषु दृश्यन्ते शक्तेभ्यः शक्तिमत्तराः ॥ ५८ ॥ रथयुद्धं समे देशे विषमे हस्ति-सङ्गरः । अश्वयुद्धं मरौ देशे पत्ति-युद्धञ्च दुर्गमे ॥ ५९ ॥ अत्यये सर्व्वयुद्धं स्यान्नौकायुद्धं जलप्लुते । संहत्य योधयेदन्यान् कामं विस्तारयेद्बहून् ॥ ६० ॥ सूचीमुखमनीकं (७) स्यादल्पं हि बहुभिः सह । अपि पञ्चाशतः (८) शूरा निघ्नन्ति परवाहिनीम् ॥ ६१ ॥ येऽपि वा पञ्च षट् सप्त संहिताः (९) कृतनिश्चयाः । —*— अथ चरः । विवस्वानिव तेजोभि र्नभस्वानिव वेगतः । राजा चरेज्जगत् सर्व्वं प्राप्नु याल्लोकसम्मतोः (१०) ॥ ६२ ॥ तर्केङ्गितज्ञ स्मृतिमान् खीयभाव-प्रकाशकः । क्लेशायाससहोदक्षः सर्व्वत्र भयवर्ज्जितः ॥ ६३ ॥ —————————————————— (६) कृता (हृता) इति (ग) पुस्तक पाठः । (७) अत्र सूचीमुखमनीकं यत्तद्वदवस्थित-वाचिनौत्यर्थः । (८) आदि पञ्चाशतः इति (ग) पुस्तक पाठः । (९) संहता इति (क)-(ख) पुस्तक पाठः । (१०) सम्मतैः इति (क)-(ख) पुस्तक पाठः । २