युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 52, कुल 278 में से
संदर्भ में पढ़ें१४ युक्तिकल्पतरौ— उच्छिद्यमानो बलिना आश्रयेद्बलवत्तरम् । विनीतवत्तत्र कालं नयेदिति मतिर्ध्रुवा(म्) ॥ ९३ ॥ दद्बलं वा कोषं वा भूमिं वा भूतिसम्भवाम् । आश्रयेदभियोक्तारं समाश्रय गुणान्वितम् ॥ ९४ ॥ वोत-व्यसनमश्रान्तं महोत्साहं महामतिम् । प्रविशन्ति महाराजमपाम्यतिमिवापगाः ॥ ९५ ॥ अव्यवसायिनमलसं दैवपरं साहसाच्च परिहीनम् । प्रमदेववृद्धपतिं नेच्छत्युपग्रहीतुं कमला ॥ ९६ ॥ उत्साहाच्छ्रियमप्नोति उत्साहाच्च महद् यशः । तस्मात्सर्व्वौपधा (१) शुद्ध मुत्साहं नित्यमाचरेत् ॥ ९७ ॥ अमर्ष(र्शं)श्चैव शौर्य्यञ्च शीघ्रकारित्वमेवच । तत्कर्म्मणि प्रवीणत्व मित्युत्साह-गुणामताः ॥ ९८ ॥ व्यसनस्यागमद्वार मनुत्साहो महीपतेः । सामदान दण्डभेदा इत्युपाय-चतुष्टयम् ॥ ९९ ॥ साम-सिद्धं प्रशंसन्ति * सर्व्वतश्च विपश्चितः । स्रवन्निवामृतं वाचा सामोपायं समाचरेत् ॥ १०० ॥ लुब्धं चौणं प्रदानेन सत्कृत्यवशमानयेत् । भेदं कुर्व्वीत यत्नेन महामात्यपुरोधसाम् ॥ १०१ ॥ यथा बलं प्रकुर्व्वीत † दुष्ट-दण्डनिपातनम् ॥ १०२ ॥ ( १ ) सर्व्वोपरि(रौ) शुद्धः इति (ख) पुस्तक पाठः ।
- चतसृषु नीतिसु सामः प्रधानत्वादेव प्रसंशन्ति विपश्चितः । † दुष्टस्य दमनं शिष्टस्य परिपालनञ्च बलानुसारेण कर्त्तव्यमिति ।