युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 54, कुल 278 में से
संदर्भ में पढ़ें१६ युक्तिकल्पतरौ— मन्त्रमूलं यतो राज्यं (३) अतो मन्त्रः सुरक्षितः । कुर्य्याद्राजा सदा मन्त्रान् कर्म्मणामाफलोदयात् ॥ १०८ ॥ अर्थानर्थौ हि यत्रो भौ संशयश्च परीक्ष्यते । समन्त्र इति विज्ञेयः शेषाश्च खलु विभ्रमाः ॥ ११० ॥ एकमेव विषं हन्ति शस्त्रेणैकश्च बध्यते । सराष्ट्रं (४) सम्पदं हन्ति राज्ञाञ्च (५) मन्त्रविप्लवः ॥ १११ ॥ करिष्यन्नप्रभाषेत कृतान्येवतु दर्शयेत् । धर्म्मार्थ-काम-कार्याणि हतो मन्त्रो न भिद्यते ॥ ११२ ॥ गिरिपृष्ठं (६) मुपारुह्य (७) प्रासादम्बारुहोगतः *। सराष्ट्रं रभसं (८) हन्ति राजानं मन्त्रविप्लवः ॥ ११३ ॥ अपथे निश्शलाके वा तत्र मन्त्रो विधीयते । तत्र साम प्रयोक्तव्यं कार्येषु गुणवत्स्वपि ॥ ११४ ॥ दानं लुब्धेऽपि भेदश्च शङ्कितेष्वपि निश्चयः । जड़मूकांश्च बधिरान् तिर्य्यग्योनीन् वयोऽधिकान् ॥११५॥ (३) राष्ट्रम् (ख) पुस्तक पाठः । (४) स राष्ट्रमिति (ख) पुस्तक पाठः । (५) राजानं (अज्ञानाम्) (ग) पुस्तक पाठः । (६) उपाविष्ठ (ख)-(ग) पुस्तक पाठः । (७) प्रासादश्वारोहो गतः ? (ग) पुस्तक पाठः । (८) अद्रवं (सद्रवस) मिति (क)-(ख) पुस्तक पाठः ।
- (क) पुस्तके धर्म्मार्थे……इत्यादित आरभी गत इत्यन्तः सार्द्धश्लोकोऽधिको दृश्यते । (ख)-(ग) पुस्तके तन्नास्ति ।