युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 55, कुल 278 में से
संदर्भ में पढ़ेंDigitized By Siddhanta eGangotri Gyaan Kosha नीतियुक्तिः । १७ स्त्री म्लेच्छ व्याधित व्यङ्गान् (९) मन्त्रकाले निषेधयेत् । इति संक्षेपतः प्रोक्ता राजनीतिः कियन्मया ॥ ११६ ॥ यच्चिवर्गाविरुद्धंस्या द्राजनीति स्तदुच्यते । इति श्रीभोजराजीये युक्तिकल्पतरौ नीतियुक्तिः ॥ अथ दुर्ग-युक्तिः । राज्ञो बलं न हि बलं दुर्गमेव बलम्बलम् (१०) । अप्यल्प (११) बलवान् राजा स्थिरो दुर्ग-बलाद्भवेत् ॥११७॥ तथा च,— एकः शतं योधयति प्राकारस्थो धनुर्द्धरः । शतं दश सहस्राणि तस्माद्दुर्गं विशिष्यते ॥ ११८ ॥ अकृत्रिमं कृत्रिमञ्च तत्पुनर्द्विविधम्भवेत् । यद्दैवघटितं दुर्गं गिरिनद्यादि-संश्रितम् ॥ ११९ ॥ अकृत्रिम (१२) मिदं ज्ञेयं दुर्लङ्गमरि-भूभुजाम् (१३) । प्राकार-परिखारथ्य-संश्रयं यद्भवे दिह ॥ १२० ॥ कृत्रिमं नामविज्ञेयं लङ्गालङ्घ्यन्तु वैरिणाम् ॥ १२१ ॥ ( ९ ) व्यङ्गान् इति (ख) पुस्तक पाठः । ( १० ) परम्बलम् इति (ग) पुस्तक पाठः । ( ११ ) अत्यल्प इति (ग) पुस्तक पाठः । ( १२ ) तत् कलिम इति (ख) पुस्तक पाठः । ( १३ ) अवनीभूजां इति (ग) पुस्तक पाठः । ३ CC-0. Gurukul Kangri Collection, Haridwar.