भारतकोश
१०८ उपनिषद् (साधना खण्ड - भाग ३)

१०८ उपनिषद् (साधना खण्ड - भाग ३)

108 Upanishads Part 3 - Sadhana Khand

पण्डित श्रीराम शर्मा आचार्य द्वारा

स्रोत: संस्कृति संस्थान बरेली · संस्कृति संस्थान बरेली (उद्गम)

DevanagariSanskritpublished572 पृष्ठ

पृष्ठ 149, कुल 572 में से

संदर्भ में पढ़ें
पृष्ठ 149

महोपनिषत् cc0. In Public Domain. Digitization by eGangotri [ १४१ बीजरूपं स्थितं जाग्रद् बीजजाग्रत् तदुच्यते । एषा ज्ञप्तेर्न वावस्था त्वं जाग्रत्स'स्थिति शृणु ॥११ नवप्रसूतस्य परायदं चाहमिदं मम । इति यः प्रत्ययः स्वच्छस्तज्जाग्रत् प्राग्भावनात् ॥११ अयं सोऽहमिदं तन्म इति जन्मान्तरोदितः । पीवरः प्रत्ययः प्रोक्तो महाजाग्रदित स्फुटम् ॥१३ अरूढमथवा रूढं सर्वथा तन्मयात्मकम् । यज्जाग्रतो मनोराज्यं तज्जाग्रत्स्वप्न उच्यते ॥१४ द्विचन्द्रशुक्तिकारूप्यमृगतृष्णाऽऽदिभेदतः । अभ्यास' प्राप्य जाग्रत तत् स्वप्नो नानाविधो भवेत् ॥१५ अल्पकालं मया दृष्टमेतन्नोदेति यत्र हि ! परामर्शः प्रबुद्धस्य स स्वप्न इति कथ्यते ॥१६ चिरस'दर्शनाभावादप्रफुल्लं बृहद्वचः । चिरकालानुवृत्तिस्तु स्वप्नो जाग्रदिवोदितः ॥१७ स्वप्नजाग्रदिति प्रोक्तं जाग्रत्यपि परिस्फुरत् । षडवस्थापरित्यागे जडा जीवस्य या स्थितिः ॥१८ भविष्यद्दुःखबोधाढ्या सौषुप्तिः सोच्यते गतिः । जगत् तस्यामवस्थायामन्तस्तमसि लीयते ॥१९द सप्तावस्था इमाः प्रोक्ता मयाऽज्ञानस्य वै द्विज । एकैका शतसंख्याऽङ्ग नानाविभवरूपिणी ॥२० इमां सप्तपदां ज्ञानभूमिमाकर्णयानघ । नानया ज्ञातया भूयो मोहपंके निमज्जति ॥२१ बीज जाग्रत अवस्था, जाग्रत अवस्था, महा जाग्रत अवस्था, जाग्रत स्वप्नावस्था, स्वप्नावस्था, स्वप्न जाग्रत अवस्था और सुषुप्तावस्था Sri Sri Anandamayee Ashram Collection, Varanasi