भारतकोश
१०८ उपनिषद् (साधना खण्ड - भाग ३)

१०८ उपनिषद् (साधना खण्ड - भाग ३)

108 Upanishads Part 3 - Sadhana Khand

पण्डित श्रीराम शर्मा आचार्य द्वारा

स्रोत: संस्कृति संस्थान बरेली · संस्कृति संस्थान बरेली (उद्गम)

DevanagariSanskritpublished572 पृष्ठ

पृष्ठ 174, कुल 572 में से

संदर्भ में पढ़ें
पृष्ठ 174

१६६ ] [ पंचम अध्याय परमार्थेन विप्रेन्द्र मिथ्या सर्वं तु दृश्यते ॥१६५ कोशमाशाभुजंगानां संसाराडम्बरं त्यज । असदेतदिति ज्ञात्वा मातृभाव निवेशय ॥१६६ गन्धर्वनगरस्यार्थे भूषितेऽभूषिते तथा । अविद्यांशे सुतादौ वा कः क्रमः सुखदुःखयोः ॥१६७ धनदारेषु वृद्धेषु दुःखं युक्तं न तुष्टता । वृद्धायां मोहमायायां कः समाश्वासवानिह ॥१६८ यैरेव जायते रागो मूर्खस्याधिकतां गतै । तैरेव भोगैः प्राज्ञस्य विराग उपजायते ॥१६६ अतो निदाघ तत्त्वज्ञ व्यवहारेषु संसृतेः । नष्टं नष्टंपेक्षस्व प्राप्तं प्राप्तमुपाहर ॥१७० अनागतानां भोगानामवाञ्छनमकृत्रिमम् । आगतानां च संभोग इति पण्डितलक्षणम् ॥१७१ शुद्धं सदतोर्मध्यं पदं बुद्ध्वाऽवलम्ब्य च । सबाह्याभ्यन्तरं दृश्यं मा गृहाण विमुञ्च मा ॥१७२ यस्य नेच्छा तथाऽनिच्छा ज्ञस्य कर्मणि तिष्ठतः । न तस्य लिप्यते प्रज्ञा पद्मपत्रमिवाम्बुभिः ॥१७३ यदि ते नेन्द्रियार्थश्रीः स्वदते हृदि वै द्विज । तदा विज्ञातविज्ञेयः समुत्तीर्णो भवार्णवात् ॥१७४ उच्चैः पदाय परया प्रज्ञया वासनागणात् । पुष्पाद्गन्धमिवोदारं चेतोवृत्तिं पृथक्कुरु ॥१७५ इस प्रकार प्रकट हुये ब्रह्मा जी भूत, भविष्यत, वर्तमान के प्रत्यक्ष देखने वाले हैं। उन्होंने अपने सुन्दर देह को देखकर विचार किया कि इस चिन्मात्र रूपी परमाकाश का आदि अन्त नहीं दिखाई देता । इसमें