१०८ उपनिषद् (साधना खण्ड - भाग ३)
108 Upanishads Part 3 - Sadhana Khand
पण्डित श्रीराम शर्मा आचार्य द्वारा
स्रोत: संस्कृति संस्थान बरेली · संस्कृति संस्थान बरेली (उद्गम)
पृष्ठ 454, कुल 572 में से
संदर्भ में पढ़ें४४६ ] [ गरुडोपनिषत् नष्टं विषमन्तःप्रलीतं विषं प्रनष्टं विषं हतं ते ब्रह्मणा विष- मिन्द्रस्य वज्रेण स्वाहा । यद्यनन्तक दूतोऽसि... ... ...ब्रह्मणा... ... वज्रेण स्वाहा । ६ । यदि वासुकिदूतोऽसि... ... ...इन्द्रस्य वज्रेण स्वाहा ।७। यदि वा तक्षक स्वयं... ... ...वज्रेण स्वाहा । यदि कर्कोटक दूतोऽसि .. ...वज्रेण स्वाहा । यदि पद्मक दूतोऽसि... ... ...वज्रेण स्वाहा । यदि महापद्मक दूतोऽसि... ... ...वज्रेण स्वाहा । यदि शंखक दूतोऽसि... ... - वज्रेण स्वाहा । यदि गुलिक दूतोऽसि... ... ...वज्रेण स्वाहा । यदि पौण्ड्रकालिक दूतोऽसि... ... ...वज्रेण स्वाहा । यदि नागक दूतोऽसि... ... ...वज्रेण स्वाहा । यदि लूतानां प्रलूतानां... ... ...वज्रेण स्वाहा । अनन्त वासुकितक्षक... ... ...विषं हतं ते ब्रह्मणा विष- मिन्द्रस्य वज्रेण स्वाहा । इ इमां ब्रह्मविद्याममावास्यायां पठेच्छृणुयाद्वा यावज्जीवं न हिंसन्ति सर्पाः । अष्टौ ब्राह्मणान्ग्राहयित्वा तृणेन मोचयेत् । शतं ब्राह्मणान् ग्राहयित्वा चक्षुषा मोचयेत् । सहस्रं ब्राह्मणान् ग्राहयित्वा मनसा मोचयेत् । सर्पञ्जले न मुञ्चन्ति । तृणे न मुञ्चन्ति । काष्ठेन मुञ्चन्ती त्याह भगवान्ब्रह्मेत्युपनिषत् ॥ ॥ हरिः ॐ तत्सत् ॥