१०८ उपनिषद् (साधना खण्ड - भाग ३)
108 Upanishads Part 3 - Sadhana Khand
पण्डित श्रीराम शर्मा आचार्य द्वारा
स्रोत: संस्कृति संस्थान बरेली · संस्कृति संस्थान बरेली (उद्गम)
पृष्ठ 528, कुल 572 में से
संदर्भ में पढ़ें५२० ] [ सीतोपनिषत् नाद-रूप में प्रकट हुआ। उस नाद से बिन्दु और बिन्दु से ओंकार व्यक्त हुआ। ओंकार से परे राम-वैखानस पर्वत है, जिसकी कर्म और ज्ञान से सम्बन्धित अनेक शाखायें हैं ॥ २० ॥ तत्र त्रयीमयं शास्त्रमाद्यं सर्वार्थदर्शनम् । ऋग्यजुःसामरूपत्वात् त्रयीति परिकीर्तिता ॥२१ [हेतुना] कार्यसिद्धेन चतुर्धा परिकीर्तिता । ऋचो यजूंषि सामान्यथर्वाङ्गिरसस्तथा ॥२२ चातुर्होत्रप्रधानत्वाल्लिङ्गादित्रितयं त्रयी । अथर्वाङ्गिरसं रूपं सामऋग्यजुरात्मकम् ॥२३ तथाऽऽदिशन्त्यभिचारसामान्येन पृथक्-पृथक् । एकविंशतिशाखायामृग्वेदः परिकीर्तितः ॥२४ शतं च नव शाखासु यजुषामेव जन्मनाम् । साम्नः सहस्रशाखाः स्युः पञ्चशाखा अथर्वाणः ॥२५ वैखानसमतं तस्मिन्नादौ प्रत्यक्षदर्शनम् । स्मर्यते मुनिभिर्नित्यं वैखानसमतः परम् ॥२६ कल्पो व्याकरणं शिक्षा निरुक्तं ज्योतिषं छन्दः एतानि षडङ्गानि ॥२७ उपाङ्गमययं चैव मीमांसा न्यायविस्तरः ॥ धर्मज्ञसेवितार्थं च वेदवेदोऽधिकं तथा ॥२८ निबन्धाः सर्वशाखा च समयाचारसङ्गतिः । धर्मशास्त्रं महर्षीणामन्तःकरणसम्भृतम् ॥ इतिहासपुराणाख्यमुपाङ्गश्च प्रकीर्तितः ॥२९