भारतकोश
अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

पृष्ठ 108, कुल 540 में से

संदर्भ में पढ़ें
पृष्ठ 108

२६ | अभिज्ञानशाकुन्तलम्

नीवाराः ^१शुकगर्भकोटरमुखभ्रष्टास्तरूणामधः
प्रस्निग्धाः क्वचिदिङ्गुदीफलभिदः सूच्यन्त एवोपलाः ।
विश्वासोपगमादभिन्नगतयः शब्दं सहन्ते मृगा-
स्तोयाधारपथाश्च वल्कलशिखानिष्यन्दरेखाङ्किताः ॥ १४ ॥

अन्वयः—(क्वचित्) तरूणाम् अधः शुकगर्भकोटरमुखभ्रष्टाः नीवाराः (विद्यन्ते) क्वचित् प्रस्निग्धाः उपला इङ्गुदीफलभिदः सूच्यन्ते एव (क्वचित्) विश्वासोपगमात् अभिन्नगतयः मृगाः शब्दं सहन्ते (क्वचित्) तोयाधरपथाः च वल्कलशिखानिष्यन्दरेखाङ्किताः (दृश्यन्ते)

नीवारा इति । इह हि क्वचित् = कस्मिंश्चिद्भूभागे तरूणां = वृक्षाणाम् अधः = तलेषु शुकगर्भकोटरमुखभ्रष्टाः शुकाः = कीराः गर्भे = मध्ये येषां तानि यानि कोटराणि तेषां मुखानि = अग्रभागाः तेभ्यः भ्रष्टाः = अधः पतिता इति शुकगर्भकोटरमुखभ्रष्टाः = यद्वा शुकानां कोटरेषु स्थिता ये अर्भका नीडस्था अजातपक्षाः शावकास्तेषां मुखेभ्यो भ्रष्टाः = कीरकुलायावस्थितशावकवदनच्युताः नीवाराः = मुनिधान्यकणाः विद्यन्ते ।

क्वचित् = कुत्रापि इङ्गुदीनां = तापसतरूणां फलानि स्नेहोत्पादनार्थं भिद्यन्ते एभिरिति इङ्गुदीफलभिदः यद्वा इङ्गुदीफलानि = तापसफलानि भिन्दन्ति = छिन्दन्ति इतीङ्गुदीफलभिदः तापसतरुफलभेदकाः अत एव प्रस्निग्धाः = प्रकर्षेण स्निग्धाः प्रस्निग्धाः चिक्कणाः इङ्गुदीतैलाक्ताः उपला = पाषाणखण्डाः सूच्यन्ते = ज्ञायन्ते एव । प्रस्निग्धत्वादिङ्गुदीफलभेदका एते ज्ञायन्ते इत्यर्थः । तापसा उपलैरैव भित्वा इङ्गुदीफलेभ्यः तैलमाकर्षन्तीति प्रसिद्धम्, क्वचित् = कस्मिंश्चिद्भागे विश्वासोपगमात् = विश्वासस्योपगमो विश्वासोपगमः तस्माद् विश्वासोपगमात् = विश्वासलाभात् जातविश्वासाः अत एव **अभिन्नगतयः—**अभिन्ना गतिः येषां ते अभिन्नगतयः = निर्भयगमनाः मृगाः = हरिणाः, शब्दं = रथशब्दं, रथनेमिध्वनि सहन्ते = सधैर्यं शृण्वन्ति । तमसहमानाः ततो न प्लवन्ते इति भावः ।

क्वचित् प्रदेशे तोयाधारपथाः—तोयस्य = जलस्य आधाराः = अधिकरणभूताः जलाशयाः तेषां पन्थानः = मार्गाः इति तोयाधारपथाः = जलयानमार्गाः च वल्कलानां =


मुनियों का अन्न नीवार वृक्षों के नीचे इधर-उधर बिखरा हुआ दिखाई दे रहा है, जो घोसलों में बैठे हुए सुग्गों के बच्चों के मुख से गिरे हुए प्रतीत हो रहे हैं । यहाँ पर जगह-जगह इङ्गुदी के फल पीसने से चिकने हुए पत्थर के टुकड़े पड़े हुए हैं । यहाँ के मृग पक्षी आदि रथ की ध्वनि की आहट से भी डर कर भागते नहीं । और स्नान कर आने वाले मुनि गणों के वल्कलवस्त्रों से टपकते हुए जल की रेखाएँ जलाशयों के भागों पर दिखाई दे रही हैं । इससे स्पष्ट मालूम पड़ता है कि अब हमलोग आश्रम की सीमा में पहुँच गये हैं ॥ १४ ॥

**विशेष—**मुन्यन्न नीवार, इङ्गुदीफल तैल से चिकने पत्थरों के टुकड़े निर्भय मृग-पक्षी तथा जलाशयों से आने-जाने के चिह्न तपोवन का सूचक हैं । नीवार धान्य मुनियों का भोज्य पदार्थ है। नीवार बिना जोते बोये होनेवाला अन्न है । आश्रमस्थ मुनि लोग इङ्गुदी के फलों को पीसकर उससे तेल निकाल कर लगाते हैं और कुश से हरिण के बच्चों की जीभ छिल जाने पर लगा देते हैं, तपोवन के आश्रमों में पशु-पक्षी निर्भय रहते हैं क्योंकि उनको किसी से हिंसा का भय नहीं । ऋषि लोग


पाठ०—१. शुककोटरार्भकमुख ।