अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
पृष्ठ 112, कुल 540 में से
संदर्भ में पढ़ें३० | अभिज्ञानशाकुन्तलम्
( नेपथ्ये ) इदो इदो सहीओ । [ इत इत सख्यौ । ]
राजा—( कर्णं दत्वा ) अये दक्षिणेन वृक्षवाटिकामालाप इव श्रूयते । यावदत्र गच्छामि । ( परिक्रम्यावलोक्य च ) अये एतास्तपस्विकन्यकाः स्वप्रमाणानुरूपैः सेचनघटैर्बालपादपेभ्यः पयो दातुमित एवाभिवर्त्तन्ते ( निपुणं निरूप्य ) अहो मधुरमासां दर्शनम् ।
दक्षिणबाहुस्फुरणस्य फलं = कलत्रावाप्तिरूपं परिणामः कुतः = न सम्भवति । अथवा = यद्वा अलं चिन्तया भवितव्यतानां = अवश्यं भाविनामर्थानाम् द्वाराणि = उपायाः सर्वत्र = सर्वेषु स्थानेषु भवन्ति जायन्ते । बलवतो हि भवितव्यता देशकालमनवेक्ष्य प्रवर्त्तते इति भावः । तदुक्तं मालतीमाधवे-सर्वंकषा भगवती भवितव्यतैव । तथा च बलवत्या भवितव्यताया द्वाराणि सर्वथैव संभवन्ति । तस्मात् वरस्त्रीलाभरूपफलमिहापि संभवेदिति भावः, अत्रार्थान्तरन्यासः—अप्रस्तुतप्रशंसा-काव्यलिङ्गं चेत्यलङ्काराश्छन्दश्चार्या ॥ १६ ॥
नेपथ्ये = सज्जगृहे, जवनिकायाम्, इत इतः = अस्यामस्यां दिशि प्रियसख्यौ = अमि अनसूया-प्रियम्वदे अगच्छतां युवामिति शेषः ।
राजा—राजा = दुष्यन्तः कर्णं दत्वा = श्रोत्रं श्रवणार्थं प्रेरयित्वा अये = सभ्रमे वृक्षाणां = तरूणां वाटिका = उद्यानम् वृक्षवाटिकानां वृक्षवाटिकां दक्षिणेन = दक्षिणस्यां दिशि आलापः = परस्परभाषणं, वार्तालापशब्द इव श्रूयते = कर्णगोचरीक्रियते, यावत् = तर्हि अत्र आलापोद्गमस्थाने गच्छामि = यामि, ( परिक्रम्य = कतिचित् पदानि गत्वा अवलोक्य दृष्ट्वा च ) अये एता पुरोदृश्यमाना अल्पाः कन्याः कन्यकाः तपस्विनां कन्यकाः तपस्विकन्यकाः = तापसकुमार्यः, स्वप्रमाणानुरूपैः = स्वस्य = निजस्य प्रमाणस्य आकारस्य अनुरूपैः = उचितैः इति स्वप्रमाणानुरूपैः = स्वोद्वहनयोग्यैः, स्वशक्तियोग्यैः सेचनाय = उक्षणाय घटाः = कलशाः तैः सेचनघटैः = सेचनोपयोगिकलशैः, बालाश्च ते पादपाः बालपादपाः तेभ्यः बालपादपेभ्यः = बालतरुपोतेभ्यः, पयः = जलं दातुं = प्रदातुं अर्पयितुं इत एव = अस्यामेव दिशि अभिवर्तन्ते = अभिमुख आगच्छन्ति । निपुणं निरूप्य सावधानतया निर्वर्ण्य । अहो = आश्चर्यम् आसां = तपस्विकन्यकानां मधुरं = नेत्राह्लादकरं दर्शनम् = अवलोकनम् रूपमित्यर्थः ।
कि इस शान्त आश्रम में दक्षिण बाहु के फड़कने का फल सुन्दर स्त्री का लाभ सम्भव नहीं अथवा भवितव्यता बड़ी प्रबल होती है । उसके प्रभाव से सभी बातें सब जगह संभव हो सकती है ।
( नेपथ्य में ) अरी प्रिय सखियों इधर आओ, इधर ।
विशेष—यहाँ शौरसेनी प्राकृत का प्रयोग है, क्योंकि भरतमुनि के नाट्यशास्त्र में नायिका और सखियों को शौरसेनी भाषा ही बोलने का आदेश है—'नायिकानां सखीनां च शौरसेनी प्रकीर्तिता' ।
राजा—( कान देकर ) इस वाटिका की दाहिनी ओर कुछ परस्पर वार्तालाप का शब्द सुन पड़ रहा है । अच्छा, पहले यहाँ चलूँ, ( कुछ आगे जाकर और सामने देखकर ) ये तपस्वियों की कन्यायें अपने ही अनुरूप छोटे-छोटे सेचन-कलस लिए हुए पौधों में जल देने के लिए इधर ही आ रही हैं । ( अच्छी तरह देखकर ) अहो, इनका सुन्दर रूप और आकृति तो बड़ी ही मनोहारिणी है ।