भारतकोश
अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

पृष्ठ 148, कुल 540 में से

संदर्भ में पढ़ें
पृष्ठ 148
६६अभिज्ञानशाकुन्तलम्

तदहमेनामनृणां करोमि । ( अङ्गुलीयं दातुमिच्छति । )
( उभे नाममुद्राक्षराण्युवाच्य परस्परमवलोकयतः । )
राजा—¹अलमस्मानन्यथा सम्भाव्य । राज्ञः ²परिग्रहोऽयमिति राजपुरुषं मामवगच्छत ।

निसर्गेण सन्नतावपि भुजौ घटोद्वहनात् शिथिलांसौ जातौ, पाणितलयोः नैसर्गिकोऽपि रक्तिमा घटोत्थापनात् अत्यन्तं लोहितो जातः, स्वाभाविकोऽपि द्वादशाङ्गुलः श्वासोऽति-परिश्रमेण वर्धते वृक्षसेचनकार्यं समाप्तोऽपि कुंचकम्पो जायते, भालकपोलभागेषु स्वेदलवो विलोक्यन्ते, तत्र संसक्तं पतनोनमुखमपि कर्णयोः धृतं शिरीषपुष्पं न पतति तथा एकेनैव करेण धृते केशाः शिथिलायन्ते दृश्यन्ते । एभिर्लक्षणैर्नूनमियं शकुन्तला अत्यन्तं परि-श्रान्ता अनुमीयते इति भावः । अत्र स्वभावोक्ति-अनुमान-काव्यालिङ्गानुप्रासा अलङ्काराः शार्दूलविक्रीडितं च वृत्तमस्ति ॥ २९ ॥

इत्थं परिश्रमातिशयमुपवर्ण्य ऋणमोचनोपायमाह—तदहमित्यादिना—तत् = तस्मात् कारणात् अहम् = अयं जनो दुष्यन्तः, एनाम् = इमां परिश्रान्तां शकुन्तलां, अविद्यमानम् ऋणं यस्याः सा ताम् अनृणाम् = ऋणरहितां प्रतिवस्तुप्रदानेन ऋणमुक्तां करोमि = कारयामि इत्युक्तवा व्यवहारे प्रतिनिधिवस्तुप्रदानेनापि ऋणनिवृत्तिदर्शनात् । ( अङ्गुलीयकं = मुद्रिकां दातुं = वितरितुं इच्छति = वाञ्छति । )

( उभे = द्वे अपि सख्यौ नाम्नः मुद्रायाश्च अक्षराणि = वर्णान्, मुद्रितवर्णान् यद्वा नाम = दुष्यन्त इति नामधेयं मुद्रा = अङ्गुलीयकं च नाममुद्रे—'मुद्रा मुकुलने बन्धे लिङ्गे चिह्नेऽङ्गुलीयके' इत्यजयः । यद्वा नामयुक्ता मुद्रा नाममुद्रा तस्या अक्षराणि नाममुद्रा-क्षराणि = संज्ञामुद्रिकावर्णान् अनुवाच्य = पुनः पुनः पठित्वा परस्परं = परां परां, अनसूया प्रियम्वदां प्रियम्वदा च अनसूयाम् अवलोकयतः = पश्यतः । निश्चिन्वत्तश्च अयं महाजनो दुष्यन्त एव न तु तस्य कश्चिदधिकारिपुरुषः । )

राजा—अथ इङ्गितज्ञो राजा दुष्यन्तः तयोरभिप्रायं ज्ञात्वा पुनरप्यात्मानं गोपयितु-


जाती है, सासें तेजी से चलने लगती हैं, परिश्रम से पसीने निकल आने के कारण गाल में झुमके चिपक जाती हैं, बाल बिखर कर मुँह पर आ जाते हैं जिन्हें एक हाथ में घड़ा लेने से दूसरे हाथ से पकड़ना आवश्यक हो जाता है । इस प्रकार वृक्षों के सींचने में श्रम से थकी सुकुमार शकुन्तला की अवस्था का वर्णन स्वाभाविक ही हैं ।

तो मैं इन्हें ऋण रहित कर देता हूँ (अँगूठी देने की इच्छा करते हैं ।)

(दोनों सखियाँ दुष्यन्त नाम युक्त अँगूठी के अक्षरों को बाँचकर एक दूसरे की ओर देखती हैं)

विशेष—प्राचीन समय में परिश्रम के रूप में लिए गये ऋण को द्रव्य से चुकाने की प्रथा थी तदनुसार राजा दुष्यन्त अपनी अँगूठी देकर प्रियम्वदा के ऋण से शकुन्तला को मुक्त करना चाहते थे । पूर्व जमाने में अंगूठियों में नाम खुदे रहते थे, जिससे पत्र आदि पर मुहर करने का भी काम चलता रहता था । राजा की अँगूठी पर अङ्कित दुष्यन्त नाम पढ़कर प्रियम्वदा और अनसूया दोनों सखियां एक दूसरे को देखने लगीं कि ये तो साक्षात् राजा दुष्यन्त ही हैं ।

राजा—आप लोग दूसरी बात न समझें । राजा दुष्यन्त से यह अँगूठी पारितोषिक या दान के


पाठा०—१. अलमन्यथा । २. परिग्रहोऽयम् । 'प्रियम्वदा-'