अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
पृष्ठ 147, कुल 540 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः ६५
स्रस्तांसावतिमात्रलोहिततलौ बाहू घटोत्क्षेपणा-
दद्यापि स्तनवेपथुं जनयति श्वासः प्रमाणाधिकः ।
बद्धं कर्णशिरीषरोधि वदने घर्माम्भसां जालकं
बन्धे स्रंसिनि चैकहस्तयमिताः पर्याकुला मूर्धजाः ॥ २९ ॥
**अन्वयः—**घटोत्क्षेपणात् अस्याः बाहू स्रस्तांसौ अतिमात्रलोहिततलौ ( स्तः ), प्रमाणाधिकः श्वासः अद्यापि स्तनवेपथुं जनयति, वदने कर्णशिरीषरोधि घर्माम्भसां जालकं बद्धम् ( अस्ति ) बन्धे स्रंसिनि मूर्धजाश्च एकहस्तयमिताः पर्याकुलाः ( सन्ति )।
वृक्षाणां सेचनादत्यन्तं परिश्रान्तायाः शकुन्तलायाः परिश्रमलक्षणानि ब्रवीति राजा दुष्यन्तः—स्रस्तांसाविति । घटोत्क्षेपणात् = कलशोत्थापनात् उत्थाप्योद्वहनाद्वा अस्याः शकुन्तलायाः बाहू = भुजौ स्रस्तांसौ स्रस्तौ = अवनतौ = अंसौ = स्कन्धभागौ ययोस्तौ स्रस्तांसौ—'उन्नतांसः पुमान् पूज्यः सन्नतासा तु सुन्दरी।' इति वचनेन स्वभावतः सन्नतावपि सम्प्रति परिश्रमवशादत्यन्तं सन्नतांसौ जाताविति भावः । अतिमात्रम् = अत्यन्तं लोहितं रक्तं तलं = करतलं ययोस्तौ अतिमात्रलोहिततलौ = नैसर्गिकलोहित्यापेक्षयाऽतितरां लोहितकरतलौ ( स्तः ) घटोत्क्षेपणादेव प्रमाणाधिकः प्रमाणाधिकः = स्वमालाया अधिकः = अतिरिक्तः द्वादशाङ्गुलादधिकः ।
तथा हि— 'देहं व्याप्य स्वनाडीभिः प्रमाणं कुरुते बहिः।
द्वादशाङ्गुलमानेन तस्मात् प्राणः समीरतः ॥'
श्वासः = निश्वासवायुः अद्यापि = वृक्षसेचनेऽवसितेऽपि स्तनयोः = उरुजयोः वेपथुं = कम्पं जनयति = सम्पादयति । वदने = मुखे किंवा—'सर्वं वा मुखमुच्यते' इति वचनेन सर्वस्मिन्नङ्गे सर्वस्याङ्गस्य संवृतत्वात् कपोलयोरलिके चिबुके चेत्यर्थः । कर्णशिरीषरोधि कर्णं = कर्णाभरणं शिरीषं = शिरीषपुष्पं रोद्धुं शीलमस्येति कर्णशिरीषरोधि-कर्णभूषणशिरीषपुष्परोधकं घर्माम्भसा = श्वेतजलानां जालमेव जालकं-बिन्दुकदम्बकम्, बद्धं = संसक्तं दृश्यते । स्वेदजलेन कर्णशिरीषं गण्डस्थले आसक्तं सत्तथा न तरलितं भवतीति स्वेदोदकस्य कुसुमरोधकता स्फुटा । घटोत्क्षेपणादेव च बन्धे = केशबन्धे स्रंसिनि = शिथिले सति मूर्धजाः = मूर्धनि जायन्ते इति मूर्धजाः-चिकुराः, केशा अपि एकेन हस्तेन = पाणिना यमिताः = नियमिता धृता वा=बद्धा इति एकहस्तयमिताः एककरधृताः अतएव पर्याकुलाः = विक्षीर्णाः, अंसावलम्बिन। सन्ति ।
**इदमस्य तात्पर्य—**वृक्षसेचनेनात्यन्तं परिश्रान्तायाः सुकुमाराङ्ग्याः शकुन्तलायाः
कलश उठाने के कारण इसके दोनों हाथ कन्धे पर से कुछ नीचे की ओर लटक आये हैं। दोनों हाथों की हथेलियाँ भी लाल हो गई हैं। अति परिश्रम से श्वास भी लम्बा, लम्बा चल रहा है, जिससे दोनों स्तन भी कुछ कम्पित से हो रहे दीख पड़ते हैं। शिरीष के फूलों से बने हुए कर्णफूलों के चिपकने वाले पसीने के इन बिन्दुओं का जाल-सा मुखमण्डल पर छा गया है ( पसीने से कर्णभूषण गाल पर चिपक गये हैं।) और इसके शिर का जूड़ा भी ढीला होकर हाथ से पकड़े जाने पर भी इधर-उधर बिखर रहा है। इस प्रकार इसका केशपाश अस्तव्यस्त हो रहा है॥ २९॥
5 **विशेष—**कोई गम्भीर वस्तु हाथ से उठाने पर कन्धे कुछ झुक जाते हैं, हथेलियाँ लाल हो
५ शाकु०