अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
पृष्ठ 483, कुल 540 में से
संदर्भ में पढ़ेंसप्तमोऽङ्कः
४०१
शकुन्तला—जेदु जेदु अज्जउत्तो···। [ जयतु जयत्वार्यपुत्रः··· ] ( इत्यर्द्धोक्ते बाष्पकण्ठी विरमति )।
राजा—सुन्दरि !
बाष्पेण प्रतिषिद्धेऽपि जयशब्दे जितं मया ।
यत्ते दृष्टमसंस्कारपाटलोष्ठपुटं मुखम् ॥ २३ ॥
शकुन्तला—जयतु जयतु आर्यपुत्रः = सर्वोत्कर्षेण वर्तताम् आर्यपुत्रः = स्वामी ( इति = इदम् अर्द्धोक्ते अर्द्धम् = अपूर्णमेव उक्ते = कथिते बाष्पकण्ठी = दुःखज उष्मा—बाष्पः कण्ठे = गले यस्याः सा बाष्पकण्ठी विरमति बाष्पोद्गमः स्मर्यमाणस्य दुःखस्य, अनुभूतमानस्यानन्दस्य चानुभावः ।
राजा दुष्यन्तश्चाद्धोक्तिं कुर्वाणः शकुन्तलामभिधत्ते—सुन्दरि ! = हे सुमुखि ।
अन्वयः—जय शब्दे बाष्पेण प्रतिषिद्धेऽपि मया जितम् । यत् असंस्कारपाटलोष्ठपुटं ते मुखं दृष्टम् ।
बाष्पासन्नकण्ठीं तत्क्षणविशेषदृश्यां शकुन्तलामालोक्य नृपो दुष्यन्तः तां प्रियां चाटुभिः प्रीणयन् अभिधत्ते—बाष्पेणेति । हे सुन्दरि ! जयशब्दे = जयस्य शब्दे राजसन्निधौ उच्चारणीये जयतु जयतु इति शब्दे बाष्पेण = दुःखोष्मणा प्रतिषिद्धेऽपि अवरुद्धेऽपि स्पष्टमनुच्चारितेऽपि मया जितं = मया ऋद्धिः प्राप्ता विजयो मे जातः जयशब्दे प्रतिषिद्धेऽपि तदर्थो मया लब्ध इत्यर्थः कुत इति चेत्—यत् = यस्मात् असंस्कारपाटलोष्ठपुटम् संस्कारः = अलंकारादिना रञ्जनं तस्याभावात् = असंस्कारात् पाटलन् ईषद्रक्तं यद्वा असंस्कारेऽपि पाटलं स्वभावाद्रक्तम् ओष्ठयोः पुटं यस्मिंस्तत् असंस्कारपाटलोष्ठपुटम् = अकृत्रिममनोहरम्, अकृत्रिमारुणप्रभोद्भासितोष्ठपुटललितं यद्वा असंस्कारमलिनवर्णोष्ठपुटम् ते = तव मुखं = वदनं दृष्टम् = मया आलोकितम् ।
अयं भावः—हे प्राणप्रिये ! प्रवर्द्धमानेन बाष्पोद्गारेण कण्ठप्रतिरोधात् भवत्योच्चार्यमाणे जयशब्देऽपि मया तदर्थोऽवगतः । यस्मात् मन्निमित्तविरहधारणाद् अकृत्रिमारुणप्रभाभासितमलिनवर्णोष्ठपुटं त्वदीयं मुखमालोक्य कृतार्थोऽस्मि । धन्योऽहं यदीदृशं मां कठोरहृदयमुद्दिश्य भवती दीर्घं विरहव्रतं बिभर्ति । तस्मात् त्वदाननावलोकनात्परं को नाम मम विजयः संभवति । अत्र विरोधाभास-काव्यलिङ्ग-विभावनालङ्कारा अनुष्टुप् छन्दश्च ॥ २३ ॥
शकुन्तला—आर्य-पुत्र विजयी बनें । ( ऐसा आधा ही कहने पर आँसू से गला भर जाने के कारण चुप हो जाती है । )
राजा—सुन्दरि !
जय शब्द से आँसू से रोक लिए जाने पर भी मेरे द्वारा विजय हासिल कर लिया गया, क्योंकि बिना प्रसाधन के भी रक्त होठों से युक्त तुम्हारा मुख देख लिया गया ॥ २३ ॥
विशेष—दुष्यन्त के कहने का तात्पर्य है कि जब तुम हमारे लिए जय शब्द कह रही थी, तब उस समय आँसुओं से तुम्हारा गला भर आया था और तुम अपना वाक्य पूरा न कर सकी ।
26
२६ शाकु०