भारतकोश
अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

पृष्ठ 482, कुल 540 में से

संदर्भ में पढ़ें
पृष्ठ 482

४०० अभिज्ञानशाकुन्तलम्

शकुन्तला—( आत्मगतम् )—हिअअ अस्सस अस्सस । परिच्चत्तमच्छरेण अणुअम्पिअम्हि देवेण । अज्जईत्तो खु एसो । [ हृदय आश्वसिहि आश्वसिहि । परित्यक्तमत्सरेणानुकम्पितास्मि दैवेन । आर्यपुत्रः खल्वेषः । ]

राजा—प्रिये ।

स्मृतिभिन्नमोहतमसो दिष्ट्या प्रमुखे स्थितासि मे सुमुखि ।
उपरागान्ते शशिनः समुपगता रोहिणी योगम् ॥ २२ ॥

शकुन्तला—हृदय ! आश्वसीहि, आश्वसीहि = धैर्यं धारय, धैर्यं धारय परित्यक्तः = परिहृतः विसृष्टः मत्सरः = मच्छुभद्वेषः असूया येन स तेन परित्यक्तमत्सरेण दैवेन = विधिना अनुकम्पितास्मि = दयापात्रीकृतास्मि । एषः = अयं खलु = नूनम् आर्यपुत्रः = स्वामी । पूर्वं यो हि विधिः वामो भूत्वा आर्यपुत्रेण सह मम संगतिं न सेहे, स एवाद्य सदयो भूत्वा तमिह समानीय मया सार्द्धं योजितवानिति भावः ।

अन्वयः—हे सुमुखि ! दिष्ट्या स्मृतिभिन्नमोहतमसः मे प्रमुखे स्थितासि । शशिनः उपरागान्ते रोहिणी योगं समुपगता ॥ २२ ॥

अथ राजा पूर्ववृत्तविस्मरणात् मया त्वयि क्रौर्यमाचरितमिति वदन् तामावर्जयितुं वदतिस्मृतीति = हे सुमुखि सुष्ठु = शोभनं मुखं = वदनं यस्याः सा सुमुखी तत्सम्बुद्धौ हे सुमुखि ! = हे प्रसन्नवदने प्रिये ! दिष्ट्या = सौभाग्येन स्मृतिभिन्नमोहतमसः-स्मृत्या = स्मरणे भिन्नं = दूरीकृतं मोह एव तमः = अज्ञानं यस्य स तस्य स्मृतिभिन्नमोहतमसः स्मरणापगतमोहान्धकारस्य मम = दुष्पन्तस्य प्रमुखे = संमुखे स्थितासि तव योगो मम जात इति भावः । शशिनः = चन्द्रमसः उपरागः = राहुग्रसनं तस्यान्ते = निवृत्तौ उपरागान्ते = ग्रहणान्ते रोहिणीयोगं रोहिण्या। योगो रोहिणीयोगः तं रोहिणियोगम् = रोहिणीनक्षत्रसंयोगं भर्तृसान्निध्यरूपं सम्बन्धं समुगता = प्राप्ता ।

अयं भावः—प्रिये पुरा मोहान्धेन मया संमुखमागतापि मम कठोरहृदयतया त्वं निराकृता । सांप्रतं सौभाग्यमहिम्ना स्मरणेन मे मोहोऽपगतः । यथा दुष्टेन राहुणा ग्रहेण ग्रस्तश्चन्द्रमाः दक्षपुत्र्या स्वप्रियया रोहिण्या वियुज्यते, मुक्तश्च पुनः तया संयुज्यते तथैवाहं निर्मलमानसोऽपि प्राक् मोहान्धकारेणाच्छन्नः सौभाग्येनाधुना मुक्तः पुनस्त्वया सह संयुक्तो जात इति ग्रहणावसाने चन्द्रमसः स्वकान्तया रोहिण्या सह सम्बन्ध इव मया शह त्वत्समागमोऽयमिति भावः । अत्र निदर्शनदृष्टान्तालङ्कारौ आर्या वृत्तञ्च ॥ २२ ॥

शकुन्तला—( मन ही मन ) हृदय ! धैर्य धारण करो, धैर्य धारण करो, भाग्य ने अब दोषभाव को छोड़कर मेरे ऊपर अनुकम्पा की है, ये पतिदेव ही हैं।

राजा—हे प्रिये ! शोभनवदने !

सौभाग्य से स्मरण हो आने के कारण समाप्त अज्ञान रूपी अन्धकार वाली आज मेरे समक्ष खड़ी हो, जैसे ग्रहण के पश्चात् रोहिणी चन्द्रमा से मिल जाती है, वैसे मेरे अज्ञान दूर हो जाने पर तेरा समागम उचित ही है ॥ २१ ॥