अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
पृष्ठ 489, कुल 540 में से
संदर्भ में पढ़ेंसप्तमोऽङ्कः ४०७
शकुन्तला—हिरिआमि अज्जउत्तेण सह गुरुसमीवं गंतुं । [जिह्रेम्यर्थपुत्रेण सह गुरुसमीपं गन्तुम् ।]
राजा—१अप्याचरितव्यमभ्युदयकालेषु । एह्येहि । (सर्वे परिक्रामन्ति)
(ततः प्रविशत्यदित्या सार्धमासनस्थो मारीचः ।)
मारीचः—(राजानमवलोक्य) दाक्षायणि !
पुत्रस्य ते रणशिरस्ययमग्रयायी २दुष्यन्त इत्यभिहितो भुवनस्य भर्ता । चापेन यस्य विनिवर्तितकर्म जातं तत्कोटिमत्कुलिशमाभरणं मघोनः ॥ २६ ॥
शकुन्तला—अत्र राज्ञाऽनुष्ठानमङ्गीकुर्वाणा शकुन्तला सलज्जमाह—आर्यपुत्रेण = स्वामिना सह = साकम् गुरूणां = पूज्यानां समीपे = सन्निधौ गन्तुं = यातुम् जिह्रेमि = लज्जे ।
राजा—शकुन्तलाया लज्जां परिहरन् दुष्यन्तः प्राह—अभ्युदयकालेषु = मङ्गलोत्सवादिसमयेषु आचरितव्यमपि = कर्तव्यमेव । एहि = आगच्छ । आभ्युदयिककालेषु भर्त्रा सह गुरुसाक्षात्कारणमाचार एवेति तंन्त्र लज्जाकरणमनुचितमेवेति भावः (सर्वे सकलाः जनाः परिक्रामन्ति मण्डलानि कृत्वा गच्छन्ति) ।
(ततः पश्चात् प्रविशति रङ्गमञ्चे दृश्यते अदित्या पत्न्या सार्धं सहैव आसनस्थः = आसने उपविष्टः मारीचः = मरीचिपुत्रः महर्षिः कश्यपः) ।
मारीचः—अथ अदित्या भार्यया सहामने समासीनः महर्षिः कश्यपः राजानं दृष्ट्वा स्वपत्नीं दक्षपुत्रीमदिति कथयति—पुत्रस्येति ।
अन्वयः—अयं दुष्यन्तः इत्यभिहितः भुवनस्य भर्ता ते पुत्रस्य रणशिरसि अग्रयायी (अस्ति) यस्य चापेन विनिवर्तितकर्म (सत्) कोटिमत् तत् कुलिशं मघोनः आभरणं जातम् ।
स्वभार्यया दक्षपुत्र्या अदित्या साकमासने समासीनः परिसमाप्ताह्निककृत्यो महर्षिः कश्यपः नृपतिं दुष्यन्तं दृष्ट्वा तत्प्रभावं वर्णयन्नदितिं प्रत्याह—पुत्रस्येति । अयं = एषः पुरोदृश्यमानो जनः दुष्यन्त इत्यभिहितः—दुष्यन्त इति नाम्ना प्रसिद्धः दुष्यन्तनाम-
शकुन्तला—आर्य पुत्र, मुझे तो आपके साथ गुरुजनों के पास जाते हुए लज्जा आ रही है ।
राजा—उत्सव और आनन्द के समय तो पति पत्नी को साथ ही गुरुजनों का दर्शन करना चाहिए, अतः तुम भी मेरे साथ चलो । (सभी घूमते हैं ।)
(अदिति के साथ आसन पर विराजमान मारीच कश्यप जी का प्रवेश)
मारीच—(राजा को देखकर अपनी पत्नी से) दाक्षायणि ! युद्ध में तेरे पुत्र इन्द्र के साथ आगे आगे चलने वाला दुष्यन्त नाम से संसार में प्रसिद्ध पृथ्वी का चक्रवर्ती राजा तेरे सामने उपस्थित है, जिसके धनुष से ही सम्पादित कृत्यवाला तीक्ष्ण जगाद्विदित वज्र इन्द्रका आभूषण बन कर रह गया है ॥ २६ ॥
विशेष—महर्षि कश्यप की पत्नी अदिति प्रजापति दक्ष की पुत्री थीं, इसलिए उन्हें दाक्षायणी कहा गया है—दक्षस्यापत्यं स्त्रीदाक्षायणी तत् सम्बुद्धौ हे दाक्षयणि ! देवराज इन्द्र का वज्र देवशत्रु
पाठा०—१. आचरितमेतदभ्युदयकालेषु । २. दुःषन्त ।