भारतकोश
अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

पृष्ठ 510, कुल 540 में से

संदर्भ में पढ़ें
पृष्ठ 510

४२८ अभिज्ञानशाकुन्तलम्

तमस्तपति घर्मांशौ कथमविर्भविष्यति ।

तात ! शकुन्तला विरहितं शून्यमिव तपोवनं कथं प्रविशाव ।

तेजोद्वयस्य युगपद्व्यसनोदयाभ्याम् ।

त्रिशङ्कुरिवान्तराले तिष्ठ ।

दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः ।

दिष्ट्या धूमाकुलितदृष्टेरपि यजमानस्य पावके एवाहुतिः पतिता ।

न खलु धीमतां कश्चिदविषयो नाम ।

ननु प्रवातेऽपि निष्कम्पा गिरयः ।

न प्रभातरलं ज्योतिरुदेति वसुधातलात् ।

नरनासिका लोलुपस्य जीर्णऋक्षस्य कस्यापि मुखे पतिष्यसि ।

पुण्याश्रमदर्शनेन तावदात्मानं पुनीमहे ।

पूर्वावधीरितं श्रेयो दुःखं हि परिवर्तते ।

प्रतिपन्नमाधीयतां यत्नः ।

प्रमाणमन्तःकरणप्रवृत्तयः ।

बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ।

बहुल्लभा राजानः श्रूयन्ते ।

भवानेवाविनीतानां शासिताऽस्य वारणे प्रभविष्यति ।

भवितव्या खलु बलवती ।

भवितव्यानां द्वाराणि भवन्ति सर्वत्र ।

भाग्यायत्तमतः परं न खलु तद्वाच्यं वधूवन्धुभिः ।

मनोरथा नाम तटप्रपाताः ।

मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति ।

मूर्च्छन्त्यमी विकाराः प्रायेणैश्वर्यमत्तेषु ।

रन्ध्रोपनिपातिनोऽनर्थाः ।

राजरक्षितव्यानि तपोवनानि नाम ।

राज्ञां तु चरितार्थता दुःखोत्तरैव ।

लभेत प्रार्थयिता न वा श्रियं ।

लोको नियम्यत इवात्मदशान्तरेषु ।

वत्से ! सुशिष्यपरिदत्ताविद्येवाशोचनीया संवृत्ता ।

वयं तत्त्वान्वेषी मधुकर हतास्त्वं खलु कृती ।

वशिनां हि परपरिग्रहसंश्लेषपराङ्मुखी वृत्तिः ।

विकारं खलु परमार्थतोऽज्ञात्वाऽनारम्भः प्रतीकारस्य ।