अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
पृष्ठ 510, कुल 540 में से
संदर्भ में पढ़ें४२८ अभिज्ञानशाकुन्तलम्
तमस्तपति घर्मांशौ कथमविर्भविष्यति ।
तात ! शकुन्तला विरहितं शून्यमिव तपोवनं कथं प्रविशाव ।
तेजोद्वयस्य युगपद्व्यसनोदयाभ्याम् ।
त्रिशङ्कुरिवान्तराले तिष्ठ ।
दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः ।
दिष्ट्या धूमाकुलितदृष्टेरपि यजमानस्य पावके एवाहुतिः पतिता ।
न खलु धीमतां कश्चिदविषयो नाम ।
ननु प्रवातेऽपि निष्कम्पा गिरयः ।
न प्रभातरलं ज्योतिरुदेति वसुधातलात् ।
नरनासिका लोलुपस्य जीर्णऋक्षस्य कस्यापि मुखे पतिष्यसि ।
पुण्याश्रमदर्शनेन तावदात्मानं पुनीमहे ।
पूर्वावधीरितं श्रेयो दुःखं हि परिवर्तते ।
प्रतिपन्नमाधीयतां यत्नः ।
प्रमाणमन्तःकरणप्रवृत्तयः ।
बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ।
बहुल्लभा राजानः श्रूयन्ते ।
भवानेवाविनीतानां शासिताऽस्य वारणे प्रभविष्यति ।
भवितव्या खलु बलवती ।
भवितव्यानां द्वाराणि भवन्ति सर्वत्र ।
भाग्यायत्तमतः परं न खलु तद्वाच्यं वधूवन्धुभिः ।
मनोरथा नाम तटप्रपाताः ।
मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति ।
मूर्च्छन्त्यमी विकाराः प्रायेणैश्वर्यमत्तेषु ।
रन्ध्रोपनिपातिनोऽनर्थाः ।
राजरक्षितव्यानि तपोवनानि नाम ।
राज्ञां तु चरितार्थता दुःखोत्तरैव ।
लभेत प्रार्थयिता न वा श्रियं ।
लोको नियम्यत इवात्मदशान्तरेषु ।
वत्से ! सुशिष्यपरिदत्ताविद्येवाशोचनीया संवृत्ता ।
वयं तत्त्वान्वेषी मधुकर हतास्त्वं खलु कृती ।
वशिनां हि परपरिग्रहसंश्लेषपराङ्मुखी वृत्तिः ।
विकारं खलु परमार्थतोऽज्ञात्वाऽनारम्भः प्रतीकारस्य ।