भारतकोश
अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

पृष्ठ 511, कुल 540 में से

संदर्भ में पढ़ें
पृष्ठ 511

सुभाषित वाक्यानि

४२९

विनीतवेषेण प्रवेष्टव्यानि तपोवनानि नाम ।
विवक्षितं ह्यनुक्तमनुतापं जनयति ।
शिखण्डके ताड्यमानस्याप्सरसा वीतरागस्येव नास्तीदानीं मे मोक्षः ।
शुद्धे तु दर्पणतले सुलभावकाशा ।
श्रिया दुरापः कथमीप्सितो भवेत् ।
सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः ।
सदृशमेतत् पुरुवंशप्रदीपस्य भवतः ।
सन्ततिच्छेदनिरवलम्बनानां कुलानां मूलपुरुषावसाने सम्पदः परपुरुषमुपतिष्ठन्ते ।
सरसिजमनुविद्धं शैवलेनापि रम्यम् ।
सर्वः कान्तमात्मीयं पश्यति ।
सर्वः प्रार्थितमर्थमधिगम्य सुखी संपद्यते जन्तुः ।
सर्वः सगन्धेषु विश्वसिति द्वावप्यत्रारण्यकावेव ।
सर्वास्ववस्थासु रमणीयताकृतिविशेषाणाम् ।
सागरमुज्झित्वा कुत्र वा महानद्यवतरति ।
सुविहित प्रयोगतयार्यस्य न किमपि परिहास्यते ।
स्निग्धजनसंविभक्तं हि दुःखं सह्यवेदनं भवति ।
स्रजमपि शिरस्यन्धः क्षिप्तां धुनोत्यहिशंकया ।
स्वयमक्ष्याकुलीकृत्याश्रुकारणं पृच्छसि ?
स्वाधीनकुशलाः सिद्धिमन्तः ।