अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
अतिलघूत्तरीयाणि लघूत्तरीयाणि च प्रश्नोत्तराणि
४५३
(६३) प्रश्नः—प्रवेशकस्य किं लक्षणम् ?
उत्तरम्—विश्वनाथेन साहित्यदर्पणे प्रवेशकस्य लक्षणं लिखितम्—
प्रवेशकोऽनुदात्तोक्त्या नीचपात्रप्रयोजितः ।
अङ्कद्वयान्तर्विज्ञेयः शेषं विष्कम्भके यथा ॥
(६४) प्रश्नः—अङ्कावतारस्य किं लक्षणम् ?
उत्तरम्—अङ्कावतारस्य लक्षणमुक्तं साहित्यदर्पणे—
अङ्कान्ते सूचितः पात्रैः तदङ्कस्याविभागतः ।
यत्राङ्कोऽवतरत्येषोऽङ्कावतार इति स्मृतः ॥
(६५) प्रश्नः—शकुन्तलाया अङ्गुलीयकं कुत्र प्रभ्रष्टम् ?
उत्तरम्—शकुन्तलायाः अङ्गुलीयकं शक्रावताराभ्यन्तरे शचीतीर्थसलिले प्रभ्रष्टम्
(६६) प्रश्नः—कतमस्मिन् प्रदेशे मारीचाश्रमः ?
उत्तरम्—मातलिहस्तेन दर्शयन् राजानं दुष्यन्तं ब्रवीति—
वल्मीकाग्रनिमग्नमूर्तिरुरसा सन्दष्टसर्पत्वचा
कण्ठे जीर्णलताप्रतानवलये नात्यर्थसम्पीडितः ।
अंसव्यापि शकुन्तनीडनिचितं बिभ्रज्जटामण्डलं
यत्र स्थाणुरिवाचलो मुनिरसावभ्यर्कबिम्बं स्थितः ॥
(६७) प्रश्नः—कीदृशी शकुन्तला विरहव्रतं बिभर्ति ?
उत्तरम्—
वसने परिधूसरे वसाना नियमक्षाममुखी धृतैकवेणिः ।
अतिनिष्करुणस्य शुद्धशीला मम दीर्घं विरहव्रतं बिभर्ति ॥
(६८) प्रश्नः—'स्रजमपि शिरस्यन्धः क्षिप्तां धुनोत्यहिशङ्कया' सूक्तिरियं श्लोकेन पूरणीयम् ?
उत्तरम्—नृपो दुष्यन्तः प्रियां शकुन्तलाममुनयन् कथयति—
सुतनु हृदयात्प्रत्यादेशव्यलीकमपैतु ते
किमपि मनसः सम्मोहो मे तदा बलवानभूत् ।
प्रबलतमसामेवंप्राया शुभेषु प्रवृत्तयः
स्रजमपि शिरस्यन्धः क्षिप्तां धुनोत्यहिशङ्कया ॥
(६९) प्रश्नः—मारीचः शकुन्तलां का आशीः ददाति ?
उत्तरम्—पतिपुत्राभ्यां सह प्रणमन्तीं शकुन्तलां शुभाशीः प्रयच्छन् महर्षिः कश्यपः (मारीचः) कथयति—
आखण्डलसमो भर्ता जयन्तप्रतिमः सुतः ।
आशीरन्या न ते योग्या पौलोमीसदृशी भव ॥
(७०) प्रश्नः—दुष्यन्तः किं त्रितयं समागतम् ?
उत्तरम्—मारीचः दुष्यन्तमभिनन्दन् कथयति—
दिष्ट्या शकुन्तला साध्वी सदपत्यमिदं भवान् ।
श्रद्धा वित्तं विधिश्चेति त्रितयं तत्समागतम् ॥
४५४ | अभिज्ञानशाकुन्तलम्
(७१) प्रश्नः—अभिज्ञानशाकुन्तलस्य भरतवाक्यं लिखत ?
उत्तरम्—
प्रवर्ततां प्रकृतिहिताय पार्थिवः
सरस्वती श्रुतिमहतां महीयताम्।
ममापि च क्षयमतु नीललोहितः
पुनर्भवं परिगतशक्तिरात्मभूः॥
(७२) प्रश्नः—भरतवाक्येन किं वाञ्छति कविः ?
**उत्तरम्—**समस्ताः पृथ्वीपतयः स्वसुखनिरपेक्षाः सन्तः प्रजानामेव श्रेयसे सर्वदा प्रवर्तन्ताम्, महाकवीनां सरसाः कविताश्च सहृदयानां हृदयेषु चमत्कारं जनयित्वा विशिष्टसम्मानं लभन्ताम्, सर्वशक्तिशाली पार्वतीपतिः परमेश्वरश्च जन्मान्तरं निरस्य शाश्वतं पदं दिशत्विति शम्।
Vidya Sagar 9697176202 9419266702
अन्य महत्त्वपूर्ण प्रकाशन
- अभिज्ञानशाकुन्तलम्। 'विमला' 'चन्द्रकला'-संस्कृत-हिन्दीव्याख्या। कृष्णमणि त्रिपाठी
- उत्तररामचरितम्। 'रमा' संस्कृत-हिन्दी व्याख्या सहित। रमाकान्त त्रिपाठी
- कालिदास-ग्रन्थावली। हिन्दी टीका सहित। रामतेज पाण्डेय एवं ब्रह्मानन्द त्रिपाठी
- किरातार्जुनीयम्। मल्लिनाथ कृत संस्कृतटीका एवं हिन्दीटीका। बद्रीनारायण मिश्र
- कुमारसम्भव्। मल्लिनाथ कृत 'सञ्जीवनी'-प्रकाश हिन्दी व्याख्या। प्रद्युम्न पाण्डेय
- मेघदूतम्। सान्वय 'चन्द्रकला' संस्कृत-हिन्दी टीका सहित। श्रीशेषराजशर्मा रेग्मी
- मालविकाग्निमित्रम्। संस्कृत-हिन्दी व्याख्या। रामशङ्कर पाण्डेय
- मृच्छकटिकम्। 'विमला' संस्कृत-हिन्दी व्याख्या। जगदीशचन्द्र मिश्र
- रघुवंशमहाकाव्यम्। 'संजीवनी' संस्कृत-'चन्द्रकला' हिन्दीव्याख्या। कृष्णमणि त्रिपाठी
- विक्रमोर्वशीयम्। 'सुधा' संस्कृत-हिन्दी व्याख्या सहित। परमेश्वरदीन पाण्डेय
- शिशुपालवधम्। मल्लिनाथकृत संस्कृत-मणिप्रभा हिन्दीव्याख्या सहित। हरगोविन्दशास्त्री
- ऋतुसंहारम्। संस्कृत-हिन्दी टीका सहित। डॉ॰ शिवप्रसाद द्विवेदी
नवीन प्रकाशन
लघुसिद्धान्तकौमुदी
'श्रीधरमुखोल्लासिनी' विस्तृत हिन्दीव्याख्या, विशेष स्पष्टीकरण एवं सम्पूर्ण रूपसिद्धि सहित
हिन्दीव्याख्याकार
गोविन्द प्रसाद शर्मा ( गोविन्दाचार्य )
चौखम्बा सुरभारती प्रकाशन, वाराणसी
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA