भारतकोश
संग्रह पर लौटें

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

द्वितीयोऽङ्कः (मदनवृत्तान्त व विदूषक संवाद)

द्वितीयोऽङ्कः

( ततः प्रविशति विदूषकः )

विदूषकः—( निःश्वस्य ) भो हदो ह्मि एदस्स मिअआसीलस्स रण्णो वअस्स-भावेण णिव्विण्णो । अअं मिओ अअं वराहो अअं सद्दूलो त्ति मज्झन्दिणेवि गिम्हे विरलपादवच्छाआसुं वणराइसुं आहिण्डिअ पत्तसङ्करकसाअविरसाइं उण्णकडुआईं पिज्जन्ति गिरिणईसलिलाइं । [ भो हतोऽस्मि एतस्य मृगयाशीलस्य राज्ञो वयस्यभावेन निर्विण्णः। अयं मृगः अयं वराहः अयं शार्दूल इति मध्यन्दिनेऽपि ग्रीष्मे विरलपादपच्छायासु वनराजिषु आहिण्ड्य पत्रसङ्करकषायविरसानि उष्णकटुकानि पीयन्ते गिरिनदीसलिलानि । ]

एवं प्रथमेऽङ्के दुष्यन्तशकुन्तलयोः परस्परदर्शनपूर्वकं रतेरुद्बोधम्, अन्योन्यसंल्लापादिना तस्याः परिपोषे, द्वयोस्तयोः दुष्यन्त-शकुन्तलयोः वियोगं चोपवर्ण्य द्वितीयेऽङ्के दुष्यन्तगताया रतेश्चिन्ता-विषादादिभिर्विप्रलम्भशृङ्गारं वर्णयिष्यन् कविकुलकलाधरः कवि-वरः कालिदासः तदुपयोगाय हास्यप्रियस्य वसन्तस्य विदूषकस्य प्रवेशं प्रदर्शयति—तत इति । ततः = तदनन्तरं विषण्णः = खिन्नः विदूषकः = राज्ञः सहायको हास्यकारी सुहृत् प्रविशति = रङ्गमञ्चे आविर्भवति ।

विश्वं विमृश्य दूषयतीति विदूषकः—केलिकलहप्रियो अङ्गविकृतेन वचसा वेषेण च हास्यकारी राज्ञः सहचरो विदूषकः उच्यते । तथा हि रसार्णवे—

'विकृताङ्गवचोवेषैर्हास्यकारी विदूषकः।'

विश्वनाथोऽपि साहित्यदर्पणे—

'शृङ्गारस्य सहायाः विट-चेट-विदूषकाद्याः स्युः।
भक्ता नर्मसु निपुणाः कुपितवधूमानभञ्जकाः शुद्धाः ॥
कुसुमवसन्ताद्यभिधः कर्म वपुर्वेषभाषाद्यैः ।
हास्यकरः कलहप्रियो विदूषकः स्यात् स्वकर्मज्ञः ॥'

विदूषकस्य भाषा प्राकृतमेव । अतस्तेन नाटके प्राकृतमेव प्रयुज्यते तथा चोक्तं—'विदूषकविटादीनां पाठ्यं तु प्रकृतं भवेत् ।'

विदूषकः—( निःश्वस्य = निःश्वासः = खेदजनकः चिन्तानिर्वैदयोरनुभावः तं प्रदर्श्य ) पटमण्डपे = सुखशयने शयानं वयस्यं राजानं दुष्यन्तं निशि स्वाधिकारेण सम्भाव्य भूयः प्रातःकाले मृगयासंभावनया शीघ्रं तत्समीपमुपसर्पन् विषण्णो विदूषकः मार्गमध्ये स्वकीयां दुरवस्थां स्वयं विमृशति—भो इति । भो ! = हन्त हतः = सङ्कटे पतितोऽस्मि, एतस्य =

( तदनन्तर खिन्नचित्त विदूषक का प्रवेश )

विदूषक—( ऊँची साँस लेकर ) ओह ! मृगयाशील = शिकार के व्यसनी इस राजा दुष्यन्त की मित्रता से तो मैं अत्यन्त खिन्न तथा दुःखी हो गया हूँ । देखो, यह मृग है, यह सूअर जा रहा है, यह व्याघ्र जा रहा है इस प्रकार कहते हुए इस गर्मी के ऋतु में दोपहर में पत्तों के गिर जाने से अल्प छाया वाली वन पंक्तियों में एक वन से दूसरे वन में दौड़ना पड़ता है । पत्तों के गिरने से सड़े हुए स्वादहीन वन के झरनों एवं पहाड़ी नदियों का गर्म एवं कडुवा पानी पीना पड़ता है ।

द्वितीयोऽङ्कः | ७७

अणिअदवेलञ्च उण्णोण्णमंसभूइट्ठं भुञ्जीअदि [ अनियतवेलं च उष्णोष्णमांस भूयिष्ठं भुज्यते । ]

तुरअगआणांच शब्देण रत्तिं पि मे णत्थि पकामसुइदव्वं । [ तुरगगजानां च शब्देन रात्रावपि मे नास्ति प्रकामशयितव्यम् । ]

महन्ते ज्जेव पच्चूसे दासीए पुत्तेहिं साउणिअलुद्धेहिं कण्णोपवादिणा वणग-अणकोलाहलेण पडिबोधिदह्मि । [ महत्येव प्रत्यूषे दास्याः पुत्रैः शाकुनिकलुब्धैः कर्णोपघातिना वनगमनकोलाहलेन प्रतिबोधितोऽस्मि । ]

एत्तिकेण वि मे पीडा ण संवृत्ता जदो जदो अअं गण्डस्स उबरि विप्फोडओ संवृत्तो । [ एतावतापि मे पीडा न संवृत्ता यतः अयं गण्डस्य उपरि विस्फोटतः संवृत्तः ]

अमुष्य मृगयाशीलस्य = आखेटकासक्तस्य राज्ञः = नृपस्य दुष्यन्तस्य वयस्य भावेन = सख्येन निर्विण्णः = नैराश्ययुक्तः दुःखितोऽस्मि अयं मृगः = एष हरिणः, अयं वराहः = एष सूकरः, अयं शार्दूलः = एष व्याघ्रः इति = एवं कथयित्वा माध्यन्दिने = मध्याह्ने, असह्यक्लेशप्रदे ग्रीष्मे = तप्तौ ग्रीष्मेण विरलानां = पक्वपत्रापगामदल्पानां, छाया = अनातपः यासां ताः तासु दूरवर्तिनां पादपानां = वृक्षाणां विरलपादपच्छायासु वनराजिषु = विपिनपङ्क्तिषु अहिण्ड्य = परिभ्रम्य पत्राणां = दलानां संकरेण = मिश्रणेन कषायानि = तुवराणि विरसानि = स्वादरहितानि उष्णानि = तप्तानि कटुकानि उष्णकटुकानि गिरिनदी सलिलानि गिरेः = पर्वतस्य नदीनां = सरितां सलिलानि = जलानि शैलातपवन्ती तोयानि पीयन्ते = आस्वाद्यन्ते ।

नियता = निश्चिता वेला = कालः यन्न तत् नियतवेलम् न नियतवेलमिति अनियतवेलम् = अनिश्चितसमयं, विषमसमयम्, अकालमित्यर्थः, उष्णमुष्णम् उष्णप्रकारकं मांसं = आमिषमेव भूयिष्ठं = बहुलं यस्मिन् तत् उष्णोष्णमांसभूयिष्ठं यद्वा उष्णमुष्णं मांसं भूयिष्ठं यस्मिंस्तत् आह्नियते इत्याहारः = मोज्यं भुज्यते = अश्यते ।

तुरगगजानां-तुरगाणां = अश्वानां गजानां = हस्तिनां च शब्देन = आरावेण रात्रौ = निशि अपि यदा निद्रा अपेक्षिता मे = मम प्रकामं = पर्याप्तं शयितव्यं निद्रा न अस्ति ।

महति एव प्रत्यूषे = उषसि, अतिप्रातः दास्याः पुत्रैः = अतिनीचैः शाकुनिकैः = आखेटकैः लुब्धैः = लोमपरायणैः, कर्णोपघातिना = कर्णदुःखदायिना श्रवणोद्वेगकारिणा वनगमनकोलाहलेन = विपिनप्रमाणकलकलेन प्रतिबोधितः = जागरितः निद्रादरिद्रीकृतोऽस्मि = भवामि ।

एतावतापि उक्तेन क्लेशेनापि, मे = मम पीडा = क्लेशः न संवृत्ताः न समाप्ता यतः अयं = एषः गण्डस्य = गलगण्डस्य रोगविशेषस्य उपरि पिटकः = विस्फोटतः = असह्यपीडाकारकः = व्रणविशेषः संवृत्तः = जातः । अर्थात् स्फोटस्योपरि स्फोटः । एकस्मिन् दुःखकारणे सत्येव द्वितीयं दुःखमुत्पन्नमिति यावत् ।

कुसमय में शूल पर भूना हुआ मांस का आहार करना पड़ता है। और हाथी तथा घोड़ों के शब्दों से मुझे रात को भी नींद नहीं आती। आज बड़े तड़के ही इन दासी पुत्र बहेलियों तथा शिकारियों के हल्ले से जग उठा हूँ। इतना ही होता तो भी कोई बात न थी यहाँ तो फोड़े पर फोड़ा और हो गया है।

७८ | अभिज्ञानशाकुन्तलम्

तेण हि किल अह्मसुं अवहीणेसुं तत्थभवदा मिअआणुसारिणा अस्समपदं पविट्ठेण मम अधण्णदाए सउन्तला णाम कावि तवस्सिकेणआ दिट्ठा, तं पेक्खिअ सम्पदं णअरगमणस्स कथम्पि ण करेदि । [ तेन हि किल अस्मासु अवहीनेषु तत्रभवता मृगानुसारिणा आश्रमपदं प्रविष्टेन मम अधन्यतया शकुन्तला नाम कापि तपस्विकन्यका दृष्टा, तां प्रेक्ष्य साम्प्रतं नगरगमनस्य कथामपि न करोति । ]

एव ज्जेव चिन्तअस्स मे पहादा अच्छिसुं रअणी । का गदी । जाव णं किद-आआरपरिग्गहं पिअवअस्सं पेक्खामि । [ एवमेव चिन्तयतः मे प्रभाता अक्ष्णोः रजनी । का गतिः यावदेनं कृताचारपरिग्रहं प्रियवयस्यं प्रेक्षे । ]

( परिक्रम्यावलोक्य च ) एसो बाणासणहत्थो हिअयनिहिदपिअअणो वणपुप्फमालाहारी इदो ज्जेव आअच्छदि पिअवअस्सो । [ एष बाणासनहस्तः हृदयनिहितप्रियजनः वनपुष्पमालाधारी इत एव आगच्छति प्रियवयस्यः । ]


तेन = एतेन दुष्यन्तेन हि = किल श्रूयते अस्मासु = मयि सैन्ये च अवहीनेषु = आखेटके पश्चादेव विश्लिष्टेषु मन्दगतित्वात् पश्चात् स्थितेषु तत्र भवता = आदरणीयेन मृगानुसारिणा = मृगमनुधावनेन हरिणानुगामिना आश्रमपदं = तपोवनभूमिं प्रविष्टेन समागतेन मम = मे अधन्यतया = दौर्भाग्येन शकुन्तलानाम कापि = काचन तपस्विकन्यका = मुनिकुमारिका दृष्टा = अवलोकिता तां = शकुन्तलां प्रेक्ष्य = वीक्ष्य दृष्ट्वा साम्प्रतं = इदानीं, नगरगमनस्य = पुरप्रयाणस्य ग्रामगमनाय कथां = वार्तां चर्चामपि न करोति = न हि विद्यते । नगरगमनस्य विचारमपि न करोतीत्यर्थः ।

एवम् = इत्थमेव चिन्तयतः = विचारयतः मे = मम अक्ष्णोः नेत्रयोरेव असुप्तस्यैव मे रजनी = रात्रिः प्रभाता = व्युष्टा गतेति यावत् । का गतिः = मम दुःखोन्मूलने क उपाय इत्यर्थः । अथ गत्यभावात्तदानीमवश्यानुष्ठेयं विमृशन्नाह यावदिति—यावत् = अद्य, कृतः = विहितः आचारस्य = स्नानसन्ध्योपासनादेः परिग्रहः = प्रतिकर्मप्रसाधनं येन स तं कृताचारपरिग्रहम् = कृताह्निकं प्रियं = इष्टं वयस्यं = सखायं राजानं दुष्यन्तं प्रेक्ष्ये = अवलोकयिष्यामि।

( परिक्रम्यावलोक्य च = मण्डलाकारं चलित्वा दृष्ट्वा च ) एषः = पुरोवर्ती बाणासनं = धनुः हस्ते यस्य स बाणासनहस्तः = धृतकार्मुकः हृदये = मनसि निहितः = स्थापितः प्रियजनः = प्रियाशकुन्तलारूपो येन स हृदयनिहितप्रियजनः, वनस्य = उपवनस्य विपिनस्य वा पुष्पाणां = कुसुमानां मालां = स्रजं धर्तुं शीलमस्येति वनपुष्पमालाधारी वयस्यः = सखा दुष्यन्त इत एव = इहैवागच्छति = अभिवर्तते ।


वह यह है कि हमसे बिछुड़ जाने के कारण मृग का अनुसरण करते हुए राजा दुष्यन्त ने हमारे दुर्भाग्य से शकुन्तला नाम की किस। मुनि-कन्या को देख लिया है। और उसको देखकर यह अपनी राजधानी को जाने की चर्चा नहीं करता हैं। इस प्रकार चिन्ता करते मुझे रात में नींद भी नहीं आई, जागते जागते ही सबेरा हो गया। या उसी शकुन्तला के ध्यान में इस राजा को रात में भी नींद नहीं आती है। क्या उपाय है ? अच्छा, अब नित्यकृत्य से छुट्टी पाकर निश्चिन्त हुए प्रियवयस्य राजा दुष्यन्त को देखना चाहिए।

( कुछ चलकर सामने देखकर ) सामने यह धनुष बाण हाथ में लिए हुए, हृदय में अपने प्रियजन शकुन्तला का ध्यान लगाये हुए और वन के पुष्पों की माला धारण किये हुए मेरे मित्र राजा दुष्यन्त इधर ही आ रहे हैं।

द्वितीयोऽङ्कः

भोदु अंग-भंग विअलो भविअ चिट्ठिअस्सं एव्वं वि णाम विस्सामं लहेअं ।
( इति दण्डकाष्ठमवलम्ब्य स्थितः । ) [ भवतु । अङ्ग-भङ्गविकलो भूत्वा स्थास्यामि । एवमपि नाम विश्रामं लभेय । ] ( इति काष्ठदण्डमवलम्ब्य स्थितः )
( ततः प्रविशति यथानिर्दिष्टो राजा )

राजा—( आत्मगतम् )

कामं प्रिया न सुलभा मनस्तु तद्भावदर्शनाश्वासि ।
अकृतार्थेऽपि मनसिजे रतिमुभयप्रार्थना कुरुते ॥ १ ॥

प्रत्युत्पन्नमतिर्विदूषकः विश्रामलाभे उपायं विमृशन्नाह भवत्विति । भवतु = अस्तु किं करणीयमधुना इति ज्ञातमित्यर्थः । अङ्गस्य = शरीरस्य पादादेः अवयवस्य वा भङ्गेन = घातेन विकलः = पीडित इति अङ्गभङ्गविकलः = पश्यतां यथा सर्वाङ्गपीडासम्भावना स्यात्तथा भूत्वा तद्वदाचरन् स्थास्यामि = उपवेशयामि, एवं = अनेन प्रकारेण पीडाव्याजेन विश्रामं = मृगयाया मुक्तिं लभेय = प्राप्नुयाम् ( इति = इत्थं विचिन्त्य दण्डकाष्ठं = लगुडं अवष्टभ्य = अवलम्ब्य आश्रित्य स्थितः । )
( ततः = तदनन्तरं यथानिर्दिष्टः पूर्वोक्तप्रकारको राजा दुष्यन्तः प्रविशति = रङ्गमञ्चे उपतिष्ठते )

अन्वयः—कामं प्रिया न सुलभा कामम्, मनस्तु तद्भावदर्शनाश्वासि मनसिजे अकृतार्थेऽपि उभयप्रार्थना रतिं कुरुते ।

अथ राजा दुष्यन्तो विरहेणोद्विग्नमना शकुन्तला मनसा स्मरन् विमृशति—काममिति ।

अच्छा, तो मैं अङ्गभङ्ग से विकल कुबड़े की तरह होकर यहीं खड़ा हो जाता हूँ, इसी तरह यदि विश्राम कर सकूँ तो भी ठीक हैं ( लाठी का सहारा लेकर वहीं खड़ा हो जाता है । )

विशेष— नाटकों में अङ्ग भङ्ग, वेश-भूषा, वाणी आदि से हँसाना तथा विनोद का वातावरण उपस्थित करना विदूषक का प्रधान कार्य है । यह राजा का ब्राह्मण-मित्र होता है । साहित्यदर्पण में यह राजा का शृङ्गार-सहायक, परिहास निपुण मानिनीमानभञ्जक और विशुद्ध चरित्र का व्यक्ति कहा जाता है । नाटक में विदूषक राजा को वयस्य कहता, वह प्राकृत में बोलता है—

'विदूषकेण वक्तव्यो वयस्येति च भूपतिः । विदूषकविटादीनां पाठ्यं तु प्राकृतं भवेत् ॥'

यहाँ विदूषक ने शिकार का बड़ा ही उत्तम दोष प्रदर्शित किया है । ग्रीष्म ऋतु की गर्मी के समय पेड़ों की पत्तियाँ झरनों, नदियों आदि के पानी में गिर कर उसे कसैला बना देते हैं, जिसको पीने में शिकारियों को कडु आस्वाद होता है । गले में बढ़ा हुआ घेघा स्वयं कष्टकारक होता है । यदि उसमें फोड़ा हो जाय तो और भी कष्टकारक होता है । इसी को कहते हैं कि 'फोड़े पर फोड़ा', 'घाव पर घाव' ।

शिकार मृग का अनुसरण करते-करते राजा दुष्यन्त महर्षि कण्व के आश्रम में जाकर शकुन्तला का साक्षात्कार तथा उसमें आसक्त होकर राजधानी में लौटने का जिक्र नहीं करते, जिससे खिन्न होकर विदूषक मृगया की निन्दा करता है । पुनः राजा का दर्शन करना चाहता है पर राजा को सामने आता हुआ देखकर अपना अङ्ग-भङ्ग कर खड़ा हो जाता है ।

( इसके बाद पहले बताये गये के अनुसार राजा दुष्यन्त रङ्गमञ्च पर दिखाई पड़ते हैं )

राजा—( मन ही मन ) यद्यपि मेरी प्रिया शकुन्तला का मिलना अभी दुर्लभ है, तो भी

पाठा०—१. तद्भावदर्शनायासि ।

८०अभिज्ञानशाकुन्तलम्

( स्मितं कृत्वा ) एवमात्माभिप्रायसम्भावितेष्टजनचित्तवृत्तिः प्रार्थयिता ¹विप्रलभ्यते। कुतः—

कामं=यथेच्छं प्रीणातीति प्रियेत्यन्वर्थगुणा शकुन्तला सुलभा न=सुखप्राप्या न, दुर्लभैत्यर्थः, तस्याः प्रदानस्य गुर्वधीनत्वात्, गुरोश्चासान्निध्यात्, बलात्तदपहरणस्यायुक्तत्वाच्चेति भावः। मनः=तु मननशीलं मे चेतस्तु तस्याः=शकुन्तलायाः भावानां=मय्यनुरागसूचकानां स्निग्धवीक्षण-मन्दगमनचेष्टाविशेषादीनां दर्शनेन अवलोकनेन आश्वसिति तच्छीलम् आश्वसि=आश्वासयुक्तमिति तद्भावदर्शनाश्वासि=तदनुरागनिश्चयात्कृताश्वासम् प्रियाया दुर्लभत्वेऽपि मे चेतस्या अनुरागचिह्नं दृष्ट्वा आश्वस्तं वर्तते । मनसिजे=मन्मथे अकृतः=अद्यावधि अप्राप्तः अर्थः मनोरथो यस्य स तस्मिन् अकृतार्थेऽपि=भोगसामग्रीसम्पादन-द्वारा अनुरक्तयोः स्त्रीपुरुषयोः मिथः संयोजनमेव कामस्यार्थः तदसम्पपादनात् अकृतकृत्ये सत्यपि अचरितार्थेऽपि उभयप्रार्थना-उभयोः=स्त्रीपुरुषयोः प्रार्थना अनुराग इत्युभयप्रार्थना-= परस्परमीङ्गित-चेष्टित-कटाक्षपातादिव्यतिरेकेण स्वानुरागसूचनमेव रतिं=प्रीतिं कुरुते सुखं जनयति। नायिकासमागमसुखालाभेऽपि तच्चेष्टादिभिरेव मनो मे मोदते इत्याशयः। अत्रार्थान्तरन्यास-विभावना-श्रुत्यनुप्रास-अप्रस्तुतप्रशंसालङ्काराः आर्या च जातिः॥ १॥

( स्मितं कृत्वा = ईषद् विहस्य, स्मितमभिनीयेति भावः ) स्मितलक्षणं यथा—

‘ईषद्विकसितैर्गण्डैः कटाक्षैः सौष्ठवान्वितैः।
अलक्षितद्विज धीरमुत्तमानां स्मितं भवेत् ॥’

कामिजनमनोवृत्तेर्लोकविलक्षणत्वावगमोत्थो विस्मयः स्मितस्य हेतुः। अलीकेऽपि सत्यबुद्धिं विदधानाः कामिनोऽवश्यं विडम्ब्यन्ते इत्याह—एवमिति। एवं=तस्या मय्यनु-

मेरे प्रति उसके भावों = अनुरागसूचक कटाक्षपूर्वक निरीक्षण, मन्दगमन आदि चेष्टा को देखकर मेरे मन में कुछ धीरज तो बँधी हुई है। क्योंकि कामवासना यद्यपि कृतार्थ न हो फिर भी दोनों की चाह ही सुखप्रद होती है। अर्थात् शकुन्तला के न मिलने से सुरति सुख के अभाव में मेरी काम-वासना तो पूरी नहीं हुई है, किन्तु मेरे प्रति उसके प्रेमानुराग को जान कर मुझे आनन्द सुख तो हो ही रहा है ॥ १ ॥

विशेष—'समीहा रतिभोगार्था विलास इति कथ्यते।' के अनुसार राजा दुष्यन्त ने शकुन्तला की आशा लगाई है। अतः यहाँ प्रतिमुख सन्धि का अङ्ग विलास नामक अवस्था है। नायक-नायिका के मिलन से काम की सफलता मानी जाती है, क्योंकि काम का काम दोनों को मिलाना ही है। काम की सफलता से रति की प्राप्ति होती है। इस पद्य में दुष्यन्त और शकुन्तला दोनों के परस्पर अनुराग से रति का होना निश्चित है। अतः बीज रूप से दोनों में कामना निहित है। अतः प्रतिमुख सन्धि है, क्योंकि जहाँ मिलन के निमित्ति किया गया अनुराग लक्ष्य तथा अलक्ष्य रहता है वहाँ प्रतिमुख सन्धि होती हैं यहाँ दुष्यन्त का अनुराग लक्ष्य है तथा शकुन्तला का अलक्ष्य। प्रतिमुख सन्धि का लक्षण साहित्यदर्पण में विश्वनाथ ने इस प्रकार स्पष्ट किया है—

‘फलप्रधानोपायस्य मुखसन्धिनिवेशिनः।
लक्ष्यालक्ष्य इवोद्भेदो यत्र प्रतिमुखं च तत् ॥’

( कुछ हँसकर ) अपने अभिप्राय के अनुसार ही अपने प्रिय जनों की भी चित्तवृत्तिकी संभावना करके ही प्रार्थयिता = कामीजन अपने मन को विविध कल्पनाओं से बहलाया करता है।


पाठा०—१. विडम्ब्यते ।

द्वितीयोऽङ्कः

८१

स्निग्धं वीक्षितमन्यतोऽपि नयने १यत् प्रेरयन्त्या तया
यातं यच्च नितम्बयोर्गुरुतया मन्दं विलासादिव ।
मा गा इत्युपरुद्धया यदपि २तत्सासूयमुक्ता सखी
सर्वं तत्किल मत्परायणमहो ३कामः स्वतां पश्यति ॥ २ ॥

रागोऽस्तीति विश्वेन आत्मनः = आत्मीयस्य अभिप्रायेण = मनोरथेन हेतुना सम्भाविता = कल्पिता इष्टजनस्य = प्रियजनस्य चित्तवृत्तिः = मनोव्यापारः येन स आत्माभिप्रायसम्भावितेष्टजनवृत्तिः प्रार्थयिता = कामिजनः, कामुक।, विडम्ब्यते = परिहास्यते, परिहासास्पदं भवति । कामिन्याः सहजमपि लीलाविलासमात्मानुकूलं मन्यमानः कामुको वञ्चितो भवतीति भावः । अतः तस्याः शकुन्तलायाः स्निग्धवीक्षितादीनामपि न मत्परत्वं सम्भवतीत्याह—कुत इति ।

अन्वयः—अन्यतोऽपि नयने प्रेरयन्त्या तया यत् स्निग्धं वीक्षितं, नितम्बयोः गुरुतया विलासादिव यत् मन्दं यातम्, मा गा इत्युपरुद्धया सखी यव्, सासूयमुक्ता, तत् सर्वं मत्परायणं किल, अहो कामः स्वतां पश्यति ॥ २ ॥

शकुन्तलाविषये निराशॊ राजा दुष्यन्तः स्वमनसि विचारयति—स्निग्धमिति। अन्यतः = अन्यत्र अन्यस्यां दिशि नयने = लोचने प्रेरयन्त्या = प्रेषयन्त्या, पातयन्त्या व्यापारयन्त्या तया = शकुन्तलया यत् स्निग्धं = सस्नेहं वीक्षितं = स्निग्धदृष्ट्या अवलोकितम्, नितम्बयोः = कटिपश्चाद्भागयोः गुरुतया = भारत्वाद् दुर्वहतया, विलासात् = अङ्गविकारात्, स्वाभाविकशृङ्गारक्रियाविशेषात् मन्दं = शनैः यातं = गतम् । मा गाः = सखि ! न युक्तं गन्तुम् इत्युक्त्वा उपरुद्धया = निरुद्धया वारितगमनया सखी = अनुरोधकर्त्री प्रियम्वदा सासूयं = असूयया = भ्रूभङ्गादिजनितया ईर्ष्याया सह सासूयं = सेर्ष्यं, उक्ता = किं निमित्तमिति कथिता । तत् सर्वं = चाक्षुष-कायिक-वाचिक-मानसिकव्यापारात्मकं पूर्वोक्तं सकलम् अहमेव परं = प्रमुखम् अयनं = शरणं, लक्ष्यं यस्य तत् यद्वा मयि परायणं

अर्थात् अपनी प्रिय। की नैसर्गिक चेष्टाओं को भी अपने प्रति अनुराग सूचक समझता हुआ कामी यों ही व्यर्थ की आशायें लगाया करता है, क्योंकि—

उस शकुन्तला ने दूसरी तरफ नजर घूमाते हुए भी प्रेमपूर्वक जो मेरी तरफ दृष्टिपात किया, उसने अपने नितम्ब के भार से जो लीलापूर्वक मन्द-मन्द गमन किया था और सखी प्रियम्बदा के प्रति जो 'सखि मत जा, थोड़ा ठहर जा' इत्यादि वचन कहने से जो असूया पूर्वक देखा था, वे सारी बातें अपने ही ऊपर समझकर मैं मन ही मन प्रसन्न हो रहा था । अहो, आश्चर्य है कि कामी पुरुष अपनी प्रिया की सारी चेष्टायें अपने ही ऊपर समझा करते हैं ॥ २ ॥

विशेष—स्निग्ध दृष्टि का लक्षण बताया गया है कि—विकासयुक्त, सस्नेह, मधुर, चतुर भ्रू धारण करने वाली, कटाक्ष सम्पन्न तथा सकाम दृष्टि को स्निग्ध दृष्टि कहते हैं । जैसे—

'विकाशि स्निग्धमधुरा चतुरे बिभ्रती भ्रुवौ । कदाक्षिणी साभिलाषा दृष्टिः स्निग्धाऽभिधीयते ॥'

इसी प्रकार प्रियजन के पास गमन, ठहरना और देखना आदि में जो परिवर्तंस हो जाता है उसे विलास कहते हैं—

'यो वल्लभासन्नगतो विकारो गत्यासनस्थानविलोचनादौ ।'


पाठा०—१. यत्प्रेषयन्त्या । २. सा सासूयमुक्ता । ३. कामी ।

८२अभिज्ञानशाकुन्तलम्

विदूषकः—(तथास्थित एव) भो वअस्स ण मे हत्थपाआ पसरंति । वाआमेत्त- एण जीवावेइस्सं । [ भो वयस्य, न मे हस्तपादं प्रसरति वाङ्मात्रेण जापयिष्यामि । ]

राजा—( सस्मितम् ) कुतोऽयं गात्रोपघातः ।

विदूषकः—कुदो किल सअं अच्छी आउलीकरिअ अस्सुकारणं पुच्छेसि । [ कुतः किल स्वयमक्ष्याकुलीकृत्याश्रुकारणं पृच्छसि । ]

राजा—न खल्ववगच्छामि ।


मत्परायणं=मद्विषयकानुरागाविष्करणतत्परम् किल=इत्यलीके वार्ता सम्भाव्ययोः किल । 'हेत्वरुच्योरेलीके च ।' इति हैमः । अतो न मत्परायणमिति भावः । पूर्वं प्रस्थानकाले शकुन्तलायाः यत् स्निग्धवीक्षण-नितम्बगौरवगमनमान्द्यादिकमासीत् तत्सर्वमपि विलासिन्याः तस्या वस्तुतः स्वाभाविकमपि मया मूढेन मत्परायणत्वेन कल्पितम् । अतो मत् परायणता- कल्पनमयथार्थमेवेति भावः । आत्मनो मत्परायणताप्रतीतौ विस्मयमान आह—अहो इति । अहो = इत्यद्भुते कामी = कामुकः स्वतां = आत्मीयतां, सर्वत्र स्वाभिप्रायरूपतां पश्यति=जानाति । सर्वोऽपि कामी जनः निजकामनाविषयभूतवनिstatus...निजकामनाविषयभूतवनिताजनादिव्यापारमात्म- परायणत्वेन सम्भावयतीत्याश्चर्यकमित्यर्थः । अत्रार्थान्तरन्यास-उत्प्रेक्षा-स्वभावोक्तिकारक- दीपकालङ्काराः शार्दूलविक्रीडितं च छन्दः ॥ २ ॥

विदूषकः—अथैवं विचारयतो दुष्यन्तस्य शकुन्तलासम्बन्धिसंवादसम्पादनाथं तस्य नर्मसचिवो विदूषक उपतिष्ठते—भो वयस्येति । तथास्थितदण्डमवलम्ब्य स्थित एव विदूषकः कथयति—भो वयस्य !=मित्र ! मे = मम हस्तपादं = पाणिचरणम् न प्रसरति =न हि प्रचलति = नोपतिष्ठते अतः वाङ्मात्रेण=हस्तमुद्रां विना वचसा एव जापयिष्यामि = जय इति शब्दमुच्चारयिष्यामि, विजयं तेऽभिधास्यामि, जयी क्रियते भवानित्यर्थः।

राजा—तस्य व्याजं जानन्नपि राजा सस्मितं-स्मितेन ईषद्धास्येन सह पृच्छति— कुत इति । कुतः = कस्मात् कारणात् अयं=पुरो दृश्यमानः गात्राणां=अवयवानां उपघाता विकलतेति गात्रोपघातः = अङ्गवैकल्यं कायविकलता अङ्गभङ्गः ?

विदूषकः—पीडां बहुत्वं द्योतयन्नाह—कुत इति । अक्षि=आकुलमनाकुलं, अनाकुल- माकुलं कृत्वा आकुलीकृत्य = नेत्रयोरङ्गुलिप्रवेशं कृत्वा अश्रूणां = नेत्रजलस्य कारणं हेतुं पृच्छसि । त्वयैव कृतोऽयं गात्रोपघातः कुतः तत्कारणं पृच्छसीति भावः ।

राजा—खलु = निश्चयेन अवगच्छामि = तव वक्रोक्तेः कारणं बोद्धुं न शक्नोमि ।


साहित्यदर्पण तथा मेदिनीकोश में भी विलास का लक्षण इस प्रकार कहा गया है—

'यानस्थानासनादीनां मुखनेत्रादि-कर्मणाम् ।
विशेषस्तु विलासः स्यादिष्टसंदर्शनादिना ॥
विलासो हावभेदे स्यात् ।' इति मेदिनी ।

विदूषक—( लाठी के सहारे खड़ा हुआ ) मित्र ! मेरा हाथ नहीं उठ रहा है । अतः वाणी के द्वारा ही आपका जय-जयकार करता हूँ ।

राजा—( मुस्कुराहट के साथ ) यह अङ्ग का जकड़ना कैसे हो गया ?

विदूषक—कैसे हो गया, यह आप कैसे पूछते हैं, आपने तो मेरी आँख स्वयं अपने हाथ से दुखाकर आँसू कैसे आ गये यह पूछते हैं ।

राजा—मैं तुम्हारी वक्रोक्ति को नहीं समझ पा रहा हूँ, साफ-साफ बताओ कि क्या बात है ?

द्वितीयोऽङ्कः

विदूषकः—भो वअस्स जं वेदसो खुज्जलीलं विडंबेदि त किं अत्तणो पहावेण णं णईवेअस्स ? [ भो वयस्य, यद्वेतसः कुब्जलीलां विडम्बयति तत्किमात्मनः प्रभावेण ननु नदीवेगस्य ? ]

राजा—नदीवेगस्तत्र कारणम् ।

विदूषकः—मम वि भवं [ ममापि भवान् । ]

राजा—कथमिव ?

विदूषकः—एव्वं राउकज्जाणि उज्जिअ तारिसे आउलप्पदेसे वणचरवुत्तिणा तुए होदव्वं । जं सच्चं पच्चमहं सावदसमुच्छारणोहिसंखोहिअसंधाणं मम गत्ताणं अणीसो म्हि संवृत्तो । ता पसादइस्सं विसज्जिदुं मं एक्काहं एव्व दाव विस्समिदुं । [ एवं राजकार्याण्युज्झित्वा तादृश आकुलप्रदेशे वनचरवृत्तिना त्वया भवितव्यम् ।


विदूषकः—पुनः पृच्छति—भो वयस्य ! =अरे मित्र ! यत् वेतसः=वानीरः कुब्जः= वक्रः तस्य लीलां = क्रियां विडम्बयति = अनुकरोति नम्रीभवति तत् किम् आत्मनः = स्वस्य प्रभावेण = बलेन उत = ननु अथवा नदीवेगस्य = तटिनीवेगस्य मतेः प्रभावेण ?

राजा—नद्या वेगः नदीवेगः = तटिनीगतिः तत्र = तस्मिन् पूर्वोक्ते कुब्जलीलाडम्बने कारणं = हेतुः ।

विदूषकः—मम = मे अपि भवान् = त्वमेव ।

राजा—कथं = केन प्रकारेण इव = वाक्यालंकारे ।

विदूषकः—विदूषको हेतुं दर्शयन्नाह—एवमिति । एवं = इत्थमेव राजकार्याणि = नृपकर्मणि, भूपतिकृत्यानि अनुपेक्षणीयानि प्रजारक्षणादीनि उज्झित्वा-त्यक्त्वा, मृगयाति-सेवनेन स्वप्नेऽपि राजकार्याण्यस्मरता तादृशे = वर्णयितुमशक्ये आकुलः = पशुवृक्षादिभिः घनः प्रदेशः = स्थानमिति आकुलप्रदेशः तस्मिन् आकुलप्रदेशे = सघनवनक्रूरश्वापद-सञ्चारदुर्गमे वने = अरण्ये चरति = अटति इति वनेचरः तस्य वृत्तिः = व्यापार इव वृत्तिः = व्यापारो यस्य स तेन वनचरवृत्तिना = राजोचितदेहसंस्कारवर्जं वनाद्वन-माहिण्डता त्वया भवता भवितव्यं = वनचरवदितस्ततोऽरण्ये धावनं कथञ्चिद्भवति । किं मन्त्रणया परिभ्राम्यतु भवान् वनमर्निशं किमत्रास्माकं कथनेन, किन्तु अहं ब्राह्मणः, न हि खलु ब्राह्मणस्य मृगया भवति सहजस्नेहभाजनम् । यत् सत्यं = तथ्यमेव प्रत्यहं =


विदूषक—अच्छा, बताइए बेंत जो टेढ़ा होकर कुबड़े की तरह हो जाता है वह अपने से ही हो जाता है या नदी के वेग के कारण ?

राजा—नदी का वेग ही बेंत के टेढ़ापन का कारण है।

विशेष—नदी के तट पर जमे हुए बेंत के पौधे नदी में लटके रहने के कारण झुक जाते हैं और टेढ़े हो जाते हैं, नदी का पानी उसके ऊपर से बहता रहता है। बेंत पानी के दबाव से झुक-कर कुब्ज की तरह टेढ़ा हो जाता है।

विदूषक—इसी प्रकार मेरे अङ्ग-वैकल्य के होने में भी आप ही कारण हैं।

राजा—यह कैसे ?

विदूषक—आपका तो यह कार्य कदाचित् ठीक भी हो सकता है, जो आप राज कार्य को छोड़ कर शिकार के निमित्त जंगली कोल-भीलों की तरह वनों में मारे-मारे फिरते हैं। क्या कहा जाय, इसमें नहीं करने से तो आप मानेंगे ही नहीं। अतः शिकार के लिए आपका मना करना भी व्यर्थ

८४ अभिज्ञानशाकुन्तलम्

यत्सत्यं प्रत्यहं श्वापदसमुत्सारणैः संक्षोभितसन्धिबन्धानां मम गात्राणामनीशोऽस्मि संवृत्तः। तत्प्रसादयिष्यामि विसर्जितुं मामेकाहमेव तावद्विश्रमितुम् । ]

राजा—( स्वगतम् ) अयं चैवमाह—ममापि ^१काश्यपसुतामनुस्मृत्य ^२मृगया-विक्लवं चेतः। कुतः—

न नमयितुमधिज्यमस्मि शक्तो धनुरिदमाहितसायकं मृगेषु।
सहवसतिमुपेत्य यैः प्रियायाः कृत इव मुग्धविलोकितोपदेशः ॥ ३ ॥

प्रतिदिनम् श्वापदसमुत्सारणैः— श्वापदानां = व्याघ्रादिहिंस्रजन्तूनां समुत्सारणैः = अपसारणैः अनुगमनैर्वा संक्षोभितानि = सम्यक्चलितानि मृगयावसरे इतस्ततः पलायन-प्रशक्त्या व्यथितानि सन्धिबन्धनानि = अङ्गसंयोगस्थानबन्धनानि ऊरुमूलस्थानि येषां ते तेषां संक्षोभितसन्धिबन्धनां मम = मे गात्राणां = अङ्गानाम् अनीशः = अक्षमः संवृत्तः = जातः असक्तः अस्मि तत् = तस्मात् कारणात् प्रसादयिष्यामि = प्रार्थये, मां विसर्जयितुं एकाहं केवलमेकं दिनं विश्रमितुं - विश्रान्ति प्राप्तुं च मुक्तये त्वां प्रीणयिष्यामीति चाटुक्तिः।

राजा— नृपो दुष्यन्तः ( स्वगतम् = अप्रकाशम् ) अयं = एषश्व एवं = अनेन प्रकारेण आह = कथयति मम = मे अपि काश्यपसुता = काश्यपगोत्रोद्भवस्य महर्षेः कण्वस्य सुतां = पोष्यपुत्रीं शकुन्तलां अनुस्मृत्य = स्मृत्वा मृगयाविक्लवं = आखेटकविह्वलं मृगयाविषये शिथिलादरम् चेतः = मनः चेतसो मृगयाविषये शिथिलादरत्वमेव प्रपञ्चयति—कुत इति। कुतः = यतः ।

अन्वयः— अधिज्यम् आहितसायकं इदं धनुः मृगेषु नमयितुं न शक्तोऽस्मि यैः प्रियायाः सहवसतिम् उपेत्य मुग्धविलोकितोपदेशः कृत इव अस्मि ।

विदूषकोक्तिं निशम्य राजा दुष्यन्तो विचारयति—न नमयितुमिति । ज्यामधिगत-मधिज्यं = आरोपितमौर्वीकम्, आहितसायकं— आहतः सायको यस्मिन् तत् आहितसायकं = संयोजितबाणं, इदं धनुः = कोदण्डमेतत् मृगेषु = हरिणेषु नमयितुं = व्यापारयितुं न शक्तोऽस्मि = न समर्थोऽस्मि । यैः = मृगैः प्रियायाः = दयितायाः कण्वसुतायाः शकुन्तलायाः सहवसति = वने एकत्र वासं, सहवासम् सङ्गतिं वा उपेत्य = प्राप्य समधि-

ही है। परन्तु मैं तो ब्राह्मण हूँ, मेरे तो प्रतिदिन जँगली जानवरों के पीछे-पीछे दौड़ने से हाथ-पैर ढीले हो जाते हैं, अतः मेरे ऊपर दया कीजिए, कम से कम एक दिन तो शिकार बन्द कर विश्राम कर लीजिए और मुझे भी एक दिन विश्राम कर लेने दीजिए।

राजा—( मन ही मन ) यह विदूषक भी मृगया बन्द करने को कह रहा है, और मेरा मन भी मुनि-कन्या शकुन्तला को याद करते रहने के कारण शिकार के प्रति उदासीन हो रहा है, क्योंकि—

अपने इस बाण सन्धान किये हुए धनुष को मैं उन मृगों के ऊपर तानकर उन पर बाण को नहीं छोड़ सकूँगा, जिन मृगों ने मेरी प्रिया के साथ ही साथ वन में रह कर उसकी-सी नेत्र कान्ति पाई है ॥ ३ ॥

**विशेष—**शकुन्तला के समान ही इन मृगों की बड़ी-बड़ी आंखें हैं। इसलिए प्रियानुकूलकारिणी इन मृगों पर बाण छोड़ना उचित नहीं। शकुन्तला की संगति से ही इन मृगों की आँखें इस प्रकार

पाठा०—१. कण्वसुतामनुस्मृत्य । २. 'मृगयां प्रति निरुत्सुकं चेतः, तथा हि—'
३. लोचनकान्तिसंविभागः ।

द्वितीयोऽङ्कः

विदूषकः— (राज्ञो मुखं विलोक्य) अत्तभवं किं वि हिअए करिअ मंतयदि। अरण्णे मए रुदिअं आसि [अत्रभवान् किमपि हृदये कृत्वा मन्त्रयते। अरण्ये मया रुदितमासीत्।]

राजा— (सस्मितम्) किमन्यत्। अनतिक्रमणीयं मे सुहृद्वाक्यमिति स्थितोऽस्मि।

विदूषकः— चिरं जीअ। [चिरं जीव।] (इति गन्तुमिच्छति)


गत्य मुग्धानि = स्वभावसुन्दराणि निश्चलानि च तानि विलोकितानि अवलोकनानि दृष्टयः तेषां उपदेशः = शिक्षेति मुग्धविलोकितोपदेशः कृतः = वितरितः। मत्प्रियालोचनतुल्य-नयनानां हरिणाङ्गनानामुपरि कथमहं वाणप्रहार करिष्ये इति भावः। एभिः = हरिणैः मम प्रियायाः शकुन्तलायाः सकाशात् मुग्धवीक्षणं शिक्षितमिति तया साकमेषां गुरुशिष्यभावात्तस्याः शिष्यभूताः एते हरिणा मया न वध्या भवितुमर्हन्ति। मया नृशंसेन लक्ष्यी-कृता एते यस्मिन् समये मां भयतरलतारं निरीक्षिष्यन्ते, तस्मिन् काले मम हस्ताद्धनुर्बाणा निपतिष्यन्ति। अत्र काव्यलिङ्ग-उत्प्रेक्षा-श्रुत्यनुप्रास-स्मृतिमत्-पर्यायोक्त-उपमालङ्काराः पुष्पिताग्रा वृत्तिक्ष ॥ ३ ॥

विदूषकः— (राज्ञो मुखं विलोक्य = अवलोक्य) कथयति—अनेन शकुन्तलाचिन्तना-सक्तमानसेन राज्ञा मदुक्तौ प्रतिवचनं न दत्तमिति तेन ज्ञायते यत् अत्र भवान् = महाराजः किमपि = किञ्चित् हृदये = मनसि कृत्वा = निधाय मन्त्रयते = विचारयति। अरण्ये = वने मया रुदितं = रोदनं कृतमासीत्। यद्वचनमरण्यरोदनमिव व्यर्थमासीदित्यर्थः। एष चित्तविक्षेपान्मम वचनं न शृणोतीति विदूषकस्योपालम्भः।

राजा— (सस्मितं = ईषद्धासेन सह) कथयति किमन्यत् = तवेच्छाविरुद्धं भवेत्। अनतिक्रमणीयं = अनुल्लंघनीयम् सुहृद् वाक्यं = मित्रस्य ते वचनम् मे = मम कृते इति स्थितोऽस्मि = तूष्णीं स्थितोऽस्मि मृगयाद्विमुखीभूतोऽस्मि। अतस्त्वदुक्तमेव विचारया-मीति भावः।

विदूषकः— सपरितोषं कथयति, चिरं = बहुकालं जीव-दीर्घायुर्भव। विश्रामावसर-लाभाच्चपलतासूचकमिदमाशीर्वचनं हास्याङ्गम्। (इति = एवमुक्त्वा, गन्तुं = प्रयातुं, इच्छति = वाञ्छति)।


भोलीभाली हैं और प्रतीत हो रहा है कि इन्होंने उसी से यह भोलापन सीखा है। इन शकुन्तला की प्रिय शिष्या मृगियों की आँखों का भोलापन मुझे अतिप्रिय लगता है। अतः मैं इन पर क्रूर दृष्टि नहीं रख सकता हूँ। इस प्रकार शकुन्तला की अनुस्मृति से राजा को मृगों के शिकार में विरसता प्रतीत हो रही है। देशकालानुवर्ती अनुभूत पदार्थों को निरन्तर ध्यान में लाने को अनुस्मृति कहते हैं—

‘अर्थानामभूतानां देशकालानुवर्तिनाम्।
सातत्येन परामर्शो मानसः स्यादनुस्मृतिः॥’

विदूषक - (राजा के मुँह की ओर देखकर) आप तो मन ही मन कुछ सोच रहे हैं। तो क्या? मैंने इस वन में ही रोदन किया। क्या मेरी प्रार्थना आपने अनसुनी कर दी?

राजा—(मुस्करा कर) नहि, नहि मित्र! आपकी बात अनुल्लङ्घनीय ही होती है। इसलिए मैं चुप होकर तुम्हारी बात सोच रहा हूँ।

विदूषक— आप दीर्घायु हों (यह कह कर उठना चाहता है)

८६अभिज्ञानशाकुन्तलम्

राजा—वयस्य, तिष्ठ सावशेषं मे वचः।
विदूषकः—आणवेदु भवं [ आज्ञापयतु भवान् ] ।
राजा—विश्रान्तेन भवता ममाप्यनायासे कर्मणि सहायेन भवितव्यम्।
विदूषकः—किं मोदअखंडिआए ? तेण हि अअं सुगहीदो खणो [ किं मोदक-खण्डिकायाम् तेन ह्ययं सुगृहीतः क्षणः ]।
राजा—यत्र वक्ष्यामि। कः कोऽत्र भोः।
( प्रविश्य )
दौवारिकः—( प्रणम्य ) आणवेदु भट्टा [ आज्ञापयतु भर्ता ]।


राजावयस्य ! = मित्र ! तिष्ठ = उपविश, सावशेषं = अवशिष्टम्, असमाप्तं मे = मम वचः = वचनम्।
विदूषकःआज्ञापयतु = आदिशतु, भवान् = त्वम्।
राजाविश्रान्तेन भवता = क्लान्तिरहितेन, अपनीतमृगया परिश्रमेण त्वया अनायासे = अभ्यासरहिते परिश्रमशून्ये मृगयातिरिक्ते मम = मदीये कर्मणि = कार्ये सहायेन = सहयोगिना भवितव्यम्
विदूषकः—पुनरपि हास्यव्यञ्जकं जगाद—किं खण्डनं खण्डिकामक्षणार्थं ग्रास-परिणामं = मोदकानां शकलीकरणमित्यर्थः। मोदकस्य = मिष्टान्नस्य खण्डिकायां = मोदक-भक्षणमहोत्सवे तेन तर्हि हि = निश्चयेन सुगृहीतः = सम्यग् अङ्गीकृतः = क्षणः = अवसरः। मोदकमक्षणं चेदनुजानासि तर्हि स्वीकृतमिदं निमन्त्रणमित्यर्थः। सावधानोऽस्मि कथयेति भावः।
राजायत्र = यस्मिन् विषये वक्ष्यामि = कथयिष्यामि। शकुन्तलावृत्तान्तं विवक्षुः सोत्कण्ठो राजा दुष्यन्तः तस्य देशस्य विविक्ततां सम्पादयितुमुपक्रमते—भो ! कः, कोऽत्र = अस्मिन् स्थाने वर्तते स आगच्छतु इति शेषः। भोः इति सामान्येन परिजनं प्रति सम्बोधनं वर्तते।
दौवारिकः—द्वारे नियुक्तो दौवारिकः = द्वारपालः। ( प्रविश्य प्रणम्य च ) भर्ता = स्वामी, आज्ञापयतु = आदिशतु।


राजा—मित्र ! ठहरो-ठहरो, मेरी बात तो पूरी ही नहीं हुई, सुन लो।
विदूषक—अच्छा, तो आज्ञा दीजिए।
राजा—अच्छा, आप इस प्रकार विश्रान्ति प्राप्त कर बिना परिश्रम के ही हो सकने वाले मेरे एक कार्य में सहायक होवें।
विदूषक—क्या, लड्डू खाने में ? तब तो मैं तैयार हूँ। (विदूषक को लड्डू खाना अत्यन्त प्रिय है)।
राजा—जिस (उस) अनायास कार्य में मैं कहूँगा। अरे, कौन है पहरे पर।
विशेष—यहाँ कः कः वीप्सा में द्वित्व है। अकेले भो का प्रयोग अज्ञात के लिए होता है।
( प्रवेश कर )
द्वारपाल—( प्रणाम कर ) महाराज, मैं उपस्थित हूँ, क्या आज्ञा है ?
विशेष—संस्कृत नाटकों में दौवारिक अधम पात्र माना जाता है और यह प्राकृत में ही बोलता है और तथा को भर्ता कहता है। ‘नोचेषु प्रकृतं भवेत्’ ‘भट्टेति चाधमैः प्रयोrounds/ojym’

द्वितीयोऽङ्कः ८७

राजा—रैवतक, सेनापतिस्तावदाहूयताम् ।
दौवारिकः—तह [ तथा ] । ( इति निष्क्रम्य सेनापतिना सह पुनः प्रविश्य ) एसो अण्णावअणुकण्ठो भट्टा इदो दिण्णदिट्ठी एव्व चिट्ठदि उवसप्पदु अज्जो [ एष आज्ञावचनोत्कण्ठो भर्त्ता यतो दत्तदृष्टिरेव तिष्ठति । उपसर्पत्वार्यः ] ।
सेनापतिः—( राजानमवलोक्य ) दृष्टदोषापि स्वामिनि मृगया केवलं गुण एव संवृत्ता तथा हि देवः—

अनवरतधनुर्ज्यास्फालनक्रूरपूर्वं¹
रविकिरणसँहिष्णु स्वेदलेशैरभिन्नम् ।

राजा—रैवतक !=दौवारिक ! सेनापतिः=सेनानीः तावत् आहूयताम्=आकार्यताम् ।
दौवारिकः—तथा = यथा आज्ञापयति देवः ( इति = एवं कथयित्वा निष्क्रम्य = रङ्गमञ्चाद् बहिर्भूत्वा सेनापतिना सह = सेनानिना सह = साकं पुनः = भूयः प्रविश्य = रङ्गमञ्चे प्रकटितः ) एषः = अयं पुरोवर्ती आज्ञाया आदेशस्य वचने = कथने उत्कण्ठा = उत्सुकता त्वरा यस्य स आज्ञावचनोत्कण्ठितः आदेशदानसमुत्सुकः भर्ता = स्वामी इतः = आवां प्रति दत्ता = प्रदत्ता दृष्टिः = नेत्रव्यापारः येन स इति दत्तदृष्टिः एव तिष्ठति = उपविष्टोऽस्ति, आर्यः = श्रीमान् उपसर्पतु = समीपमुपगच्छतु ।
सेनापतिः—( राजानमवलोक्य=दुष्यन्तं दृष्ट्वा ) दुष्यन्तविषये मृगयाया गुणत्वं समर्थयति-दृष्टाः=अनुभूता संभाविता वा दोषाः=अवगुणाः यत्र यथा वा सा यद्वा दृष्टा शास्त्रेषु निर्दिष्टा दोषाः हिंसाजन्यपापादयो यस्यां सा दृष्टदोषा = भूरिदोषजननी मृगया = आखेटकार अपि यद्यपि = तथापि स्वामिनि = देवे गुणः = अलङ्कृतिः एव संवृत्ता = भूता । तथा हि = उदाह्रियते-देवः = स्वामी इतीदं पदं बिभर्त्तीत्यनेनेन सम्बद्धयते ।
अन्वयः—गिरिचरो नाग इव देवः अनवरतधनुर्ज्यास्फालनक्रूरपूर्वं रविकिरणसहिष्णु-स्वेदलवैः अभिन्नम् अपचितम् अपि व्यायतत्वात् अलक्ष्यं प्राणसारं गात्रं बिभर्ति ।

राजा—रैवतक ! जरा सेनापति को बुलाना ।
विशेष—सेनापतिः—सुशील, सबल, आलस्यहीन, मृदुभाषी, शत्रु के दोषों से परिचित, कुलीन, समय का अभिज्ञ, अस्त्र-शस्त्र आदि का रहस्यज्ञ समाज में सरल, उचित स्थानों से परिचित, काल का जानकार और गुणवान् होना चाहिए—सेनापति का लक्षण इस प्रकार है—

‘शीलवान् सत्त्वसम्पन्नः त्यक्तालस्यः प्रियम्वदः :
पररन्ध्रान्तराभिज्ञो यात्राकालविशेषवित् ॥
अस्त्रशस्त्रातितत्त्वज्ञो लोके चावक्रतां गतः ।
देशवित् कालविच्चैव भवेत्सेनापतिर्गुणैः ॥’

द्वारपाल—जो आज्ञा महाराज की, अभी बुला लाता हूँ (बाहर जाकर सेनापति को साथ में लेकर भीतर आकर सेनापति से ) आर्य ! भीतर पधारिए महाराज आपकी प्रतीक्षा में आपको कुछ आज्ञा देने के लिए हम लोगों की ओर दृष्टि डाले ही हैं ।
सेनापति—( राजा को देखकर मन ही मन ) यद्यपि शिकार खेलने में बहुत दोष हैं, क्योंकि शिकार खेलना भी एक व्यसन ही है, हमारे इन प्रभु=महाराज के लिए तो यह व्यसन भी गुणदायक ही हो रहा है, क्योंकि—


पाठा०—१. क्रूरकर्मा । २. सहिष्णुः······रभिन्नः ।

८८ अभिज्ञानशाकुन्तलम्

अपचितमपि गात्रं व्यायतत्त्वादलक्ष्यं
गिरिचर इव नागः प्राणसारं बिभर्त्ति ॥ ४ ॥

( उपेत्य ) जयतु स्वामी, गृहीतश्वापदमरण्यम् । किमन्यत्रावस्थीयते ?
राजा—मन्दोत्साहः कृतोऽस्मि मृगयापवादिना माढव्येन ।

तथाविधं राजानं दुष्यन्तं दृष्ट्वा सेनापतिः स्वामिनि मृगयाया गुणत्वं समर्थयन् स्वात्मनि चिन्तयति—अनवरतेति । गिरौ = पर्वते चरति = विहरति इति गिरिचरः = विहारी नाग इव = गज इव देवः = स्वामी अनवरतं = सततं धनुषः = कार्मुकस्य ज्यायाः = मौर्व्याः आस्फालनेन = संघर्षणेन क्रूरः = कठोरः पूर्वः = पूर्वभागः यस्य तत्-अनवरतधनुर्ज्यास्फालनक्रूरपूर्वम्, रवेः = सूर्यस्य किरणानां = रश्मीनां सहिष्णु = अभ्यासबलात् सहनशीलं = आतपेऽप्यक्लान्तमिति रविकिरणसहिष्णु = आदित्यतेजः सहनशीलम् स्वेदलवैः = स्वेदस्य लवाः = बिन्दवः स्वेदलवाः तैः स्वेदलवैः = श्रमवारिबिन्दुभिः अभिन्नम् = असंस्पृक्तम् अपचितं = कृशम्, अपि व्यायतत्वात् = मृगयाव्यापारव्यायामात् अलक्ष्यं = अपरिचितत्वेन लक्षयितुमशक्यम् प्राणसारं—प्राणेन = बलेन सारं = स्थिरमिति प्राणसारं यद्वा प्राणः = बलं सारः = तत्त्वं यस्मिन् तत् प्राणसारं तत् गात्रं = वपुः बिभर्त्ति = धारयति । अयं भावो यथा आरण्यको गजो राजगर्ज इव न राजभोगान् लभते अपितु आरण्यकवनमूलफलासनो दुर्बलकलेवर एव राजभोगानुजीवि नागरिकमजायेक्षया वैशिष्ट्यं बिभर्त्येव तथैव महाराजो दुर्बलशरीरोऽप्युत्कर्षतां बिभर्त्येवेति भावः । अत्र परिकर-श्लेष-उपमा-वृत्ति-श्रुत्यानुप्रासा अलङ्काराः मालिनी वृत्तं च ॥ ४ ॥

( उपेत्य = आज्ञावचनोत्कण्ठया समीपमुपसृत्य ) जयतु = सर्वोत्कर्षेण वर्तताम् स्वामी=देवः गृहीताः=धृताः शोभिताः श्वापदाः=हिंस्रा जन्तवो यस्मिन् तत् गृहीतश्वापदम् = निरुद्धमृगयातायातम्=अरण्यं=वनम्, जातम् किमन्यत्र=अन्यस्मिन् स्थाने अवस्थीयते=अवस्थानं क्रियते, क्रियेत ।

राजा—मृगयायाः = आखेटस्य अपवादिना = निन्दकेन माढव्येन माढव्यनाम्ना विदूषकेन मन्दः = शिथिलः क्षीणमृगयाविषयकः उत्साहः यस्य स मन्दोत्साहः कृतः = विहितोऽस्मि ।

इनका तो मृगया के कारण बराबर धनुष को चढ़ाते रहने से पूर्ण व्यायाम हो जाने के कारण शरीर सुदृढ एवं कठोर हो गया है और सूर्य की प्रखर किरणों के सहन करने की क्षमता भी इनमें आ गई है। इनको परिश्रम से तथा सूर्य के सन्ताप से भी पसीने नहीं आते हैं, इनका शरीर यद्यपि परिश्रम से कृश हो गया है, फिर भी गढा रहने के कारण कृशता प्रतीत नहीं हो रही है। अतः जिस प्रकार जङ्गली हाथी का शरीर कृश होते हुए भी बलिष्ठ और शक्तिसम्पन्न होता है वैसे ही महाराज का शरीर कृश होते हुए भी उत्साह सम्पन्न, सुदृढ, परिश्रम सहिष्णु तथा क्षमता-शील है ॥ ४ ॥

( पास में जाकर ) महाराज की जय हो, महाराज ! जङ्गल के हिंस्र जीव पकड़ लिए गये हैं । क्या, दूसरी जगह डेरा डाला जाय ? महाराज की क्या आज्ञा है ?
राजा—शिकार का निन्दक इस माढव्य विदूषक ने मेरा शिकार खेलने का उत्साह ही भंग कर दिया है । अतः अब मैं शिकार नहीं खेलूँगा ।

CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

द्वितीयोऽङ्कः

सेनापतिः—( जनान्तिकम् ) सखे, स्थिरप्रतिबन्धो^१ भव । अहं तावत्स्वामिनश्चित्तवृत्तिमन्वर्तिष्ये । ( प्रकाशम् ) ^२प्रलपत्वेष वैधवेयः । ननु प्रभुरेव निदर्शनम् ।

मेदश्छेदकृशोदरं लघु ^३भवत्युत्थानयोग्यं वपुः
सत्त्वानामपि लक्ष्यते विकृतिमच्चित्तं भयक्रोधयोः ।
उत्कर्षः स च धन्विनां यदिषवः सिध्यन्ति लक्ष्ये चले
मिथ्यैव व्यसनं वदन्ति मृगयामीदृग्विनोदः कुतः ॥ ५ ॥

सेनापतिः—( जनान्तिकं = माधव्यं प्रति मन्दस्वरेण ) राजोक्तमाकर्ण्य विश्रामावसरलाभेन मनसि हृष्यन् सेनापति विदूषकमाह—सखे ! = मित्र ! त्वमिव अहमपि विश्रमोत्सुकोऽस्मि, त्वया मध्ये न विरन्तव्यम् स्थिरप्रतिबन्धः—**स्थिरः=**अविचलितः प्रतिबन्धः = मृगया विरोधः यस्य सः स्थिरप्रतिबन्धः, भव, नैसर्गिकेण चापलेन पुनरपि राज्ञो मतं नानुसरति भावः । अहं हि = अयं जनः यावत् स्वामिनः = महाराजस्य चित्तवृत्ति = मनोव्यापारम्, अनुवर्तिष्ये = अनुगमिष्यामि भृत्यत्वादित्यर्थः ( प्रकाशं = स्पष्टम् ) एषः = अयं पुरोवर्ती विधवापुत्रः विदूषकः, प्रलपतु = मृगयापवादं वदतु नाम ननु = दृढामन्त्रणे प्रभुरेव निदर्शनम् = महाराज एव दृष्टान्तः । मृगया गुणानां देवे दर्शनादिति भावः । अग्रे श्लोकेन मृगयागुणो वर्ण्यते ।

अन्वयः—वपुः मेदश्छेदकृशोदरं लघु उत्थानयोग्यं भवति भयक्रोधयोः सत्त्वानां विकृतिमच्चित्तमपि लक्ष्यते चले लक्ष्ये इषवः सिध्यन्ति यत् धन्विनां स च उत्कर्षः मृगया मिथ्यैव व्यसनं वदन्ति ईदृग् विनोदः कुतः ।

सेनापतिर्मृगयाया गुणान् वर्णयति—भेद इति । वपुः = शरीरं मेदसः = वसायाः छेदेन = अल्पीभावेन कृश = क्षीणं, उदरं यस्मिन् तत् मेदश्छेदकृशोदरं = मेदोविनाश-तनुतरोदरम् अत एव लघु = भाररहितं उत्थानयोग्यं = उत्थानस्य = अनालस्यलक्षणस्योद्योगस्य योग्यं = आश्रयभूतं भवति यद्वा उत्साहयोग्यं = उत्साहशालि **भवति । भयक्रोधयोः=**भीतिकोपयोः विकारयोः **सत्त्वानां=**सिंहव्याघ्रादिजन्तूनां विकृतिमत् = विकृतियुक्तं चित्तं = चेतः लक्ष्यते = लक्षणैर्ज्ञायते चले = चञ्चले लक्ष्ये = शरव्ये-मृगयादिरूपे वेद्ध्ये


सेनापति—( हाथ की आड़ लेकर विदूषक से ) मित्र माधव्य ! आप अपनी बात पर अडिग रहिएगा । मैं महाराज को प्रसन्न करने के लिए ही उनके मन की बात बताता हूँ (प्रगट में) महाराज ! माधव्य तो मूर्ख है, जो ऐसी बात बकता है । शिकार के गुणों को यह क्या जाने । आखेट के गुणों के तो आप ही प्रत्यक्ष उदाहरण हैं । आप देखें—

शिकार खेलने से पेट की चर्बी कम हो जाती है और शरीर फूर्तीला एवं उत्साह सम्पन्न हो जाता है । भय तथा कोप में जङ्गली जीवों का मनोभाव मालूम पड़ जाता है । बाण चलाने वालों का विशेष गुण चल-लक्ष्य पर बाण प्रहार सिद्ध हो जाता है । इसलिए शिकार को व्यसन मानना सर्वथा व्यर्थ है । मृगया जैसे मनोविनोद का साधन अन्यत्र कहीं नहीं है ॥ ५ ॥

**विशेष—**यहाँ सेनापति ने बड़ी चतुराई से काम लिया है—उसने विदूषक की ओर हाथ करके पहले ही समझा दिया कि मित्र ! मैं केवल राजा को प्रसन्न करने के लिए ही शिकार की प्रशंसा तथा तुम्हें विधवा का पुत्र कह कर तुम्हारी निन्दा कर रहा हूँ, तुम बुरा न मानना, अपनी बात पर डटे रहना ताकि मृगया खेलना बन्द हो जाने से हमलोगों को कुछ आराम मिल जाय । इसके


पाठा०—१. दृढप्रतिज्ञो । २. प्रलपत्येष वैधवेयः । ३. भवत्युत्साहयोग्यं ।

६०अभिज्ञानशाकुन्तलम्

विदूषकः—( सरोषम् ) अपेहिरे उच्छाअहेतुक ! अवेहि अत्तभव पकिदिं आपण्णो । तुमं दाव दासीए पुत्तो अडवीदो अडवीं आहिंडंतो णरणासिआलोलुवस्स जिण्णरिच्छस्स कस्स वि मुहे पडिस्ससि । [ ( सरोषम् ) अपेहि रे उत्साहहेतुक ! अपेहि अत्रभवान् प्रकृतिमापन्नः । त्वं तावद्दास्याः पुत्रोऽटवीतोऽटवीमाहिण्डमानो नरनासिकावोलुपस्य जीर्णऋक्षस्य कस्यापि मुखे पतिष्यसि । ]

इषवः = बाणाः, भल्लाद्यायुधानि सिध्यन्ति = सफली भवन्ति । यत् धन्वि = धानुष्कानां स च उत्कर्षं = कुशलता धनुर्विद्योन्नतिः मृगयां = आखेटकं मिथ्यैव = असत्यं व्यसनं = दोषाधायकं वदन्ति = लोकाः कथयन्ति, ईदृक् = निरुक्तलक्षणवत्तया एतत्सदृशो हितकारा विनोदः विनुद्यते काल इति विनोद विहारः क्रीडा वा कुतः = न कुत्रापीत्यर्थः । वस्तुतो मृगया नानासद्गुणाधानहेतुभूतोत्पादीयैवेति भावः ।

मृगयायां निम्नोक्ता दश गुणाः प्रोक्ताः सन्ति । तथा हि—

'मृगयाक्षो दिवास्वप्नः परीवादः स्त्रियोन्मदः ।
तौय्यात्रिकं वृथाट्या च कामजो दशमो गुणः ॥'

'अत्र काव्यलिङ्गवृत्यनुप्रास-समुच्चयालङ्काराः शार्दूलविक्रीडितं च छन्दः ॥ ५ ॥
मृगयायामितस्ततो धावनेन वसायाः कार्श्यात् शरीरं स्फूर्तिशीलं भवति, लक्ष्य-वेधावसरे भयेन पलायमानानां हरिणादीनामिङ्गितानि ज्ञायन्ते, उत्थायोत्थाय निर्भरं धावति परित्रस्ते मृगेऽपि लक्ष्यकौशलं सिध्यति, संमुखे मुख व्यादाय समुत्पतिष्णोः शार्दूलस्य कण्ठे मल्लोत्क्षेपणे महती आनन्दानुभूतिर्भवति । मृगयासक्तचेतसां पुंसां दिनमनायासेन व्यत्येति सर्वथा मनसि समुत्साहो बोभवीति न मृगया सदृशः क्वापि मनोविनोदः सम्भवतीत्यवश्यं मृगया विधेयेति भावः ॥ ५ ॥

विदूषकः—( सरोषं = रोषसहितं ) अपेहि = दूरं गच्छ उत्साहहेतुकः = वृथा उत्साह-वर्द्धक ! अत्रभवान् = पूज्यः श्रीमान् महाराजः प्रकृतिमापन्नः = स्वाभाविकीस्थितिं प्राप्तः । त्वं = भवान् दास्याः पुत्रः = दासीपुत्रः तावत् तु अटवीतोऽटवीं = वनाद्वनान्तरं, अहिण्डमानः = भ्रमन् नरनासिका लोलुपस्य = नराणां = मनुष्याणां नासिकाणां लोलुपस्य =

बाद ( सामने ) राजा से कहता है कि महाराज शिकार खेलने से लाभ होते हैं—जैसे दौड़ने के व्यायाम से मोटापा दूर होकर शरीर फुर्तीला हो जाता है, भय और क्रोध में बिगड़े हुए जानवरों के मन की स्थिति मालूम हो जाती है । चल-लक्ष्य पर धनुर्धारियों का वाण सध जाता है । अतः मृगया को व्यसन बताना उचित नहीं ऐसा मनोरञ्जन अन्यत्र नहीं ।

विदूषक—( क्रोध के साथ ) अरे व्यर्थ उत्साह दिखाने वाले, जा दूर हट, अब तो महाराज शिकार से उदासीन हो गये हैं, तुम्हारे फेर में अब नहीं पड़ सकते हैं । इसलिए अरे, रण्डे का पुत्र ! तूँ एक जङ्गल से दूसरे जङ्गल में घूमता फिरता हुआ किसी बूढ़े खूंखार भालू के, जो मनुष्यों के नाक खाने का अभ्यासी है, उसके मुख में पड़ जायेगा ।

**विशेष—**इस प्रकार सेनापति तथा विदूषक दोनों ने बनावटी मतभेद उपस्थित कर महाराज को शिकार खेलने से विरत करने का प्रयास किया । भालू को नरनासिका लोलुप कहने का तात्पर्य है कि रीछ मनुष्य की नाक नोचने के बाद ही अन्य अङ्ग पर आक्रमण करता है । वृद्ध भालू कहने का अर्थ है वृद्धावस्था में तृष्णा अधिक बढ़ जाती है जिससे वृद्ध की लोलुपता का बढ़ जाना स्वाभाविक है ।

द्वितीयोऽङ्कः ९१

राजा— ^१भद्र सेनापते, आश्रमसन्निकृष्टे स्थिताः स्मः। अतस्ते वचो नाभि- नन्दामि। अद्य तावत्—

गाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितं छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु। ^२विश्रब्धं क्रियतां वराहपतिभिर्मुस्ताक्षतिः पल्वले विश्रामं लभतामिदं च शिथिलज्याबन्धमस्मद्धनुः॥ ६ ॥


लिप्तो कस्यापि जीर्णर्क्षस्य वृद्धमल्लूकस्य मुखे = वदने पतिष्यसि = यास्यसि। वृद्ध- मल्लूकस्तव नासिकां भक्षयतु इति शापः। भल्लूका हि स्वपुरः समागतानां पुसां नासिका- माच्छिद्य खादन्तीति प्रसिद्धिः। वार्द्धके लोलुपता वर्द्धते एवेति स्वभावोक्तिरिति भावः।

राजा—मृगयापरिहाराय कारणान्तरं निर्दिशन् कथयति—भद्र सेनापते ! = महाशय- सेनानिन् ! आश्रमस्य = तपोवनस्य सन्निकृष्टे = समीपे स्थिताः = प्राप्ताः स्मः। अतः = अस्मात् कारणात् ते = तव वचः = वचनं नाभिनन्दामि = प्रशंसामि अद्य = अस्मिन् दिने तावत् = तु।

अन्वयः—महिषाः शृङ्गैः मुहुः ताडितं निपानसलिलं गाहन्तां, मृगकुलं छायाबद्ध- कदम्बकं सत् रोमन्थम् अभ्यस्यतु वराहपतिभिः विश्रब्धं पल्वले मुस्ताक्षतिः क्रियताम्, इदम् अस्मद्धनुः च शिथिलज्याबन्धं सत् विश्रामं लभताम्।

गाहन्तामिति—महिषाः = लुलायाः शृङ्गैः = विषाणैः मुहुः = वारम्वारम् ताडितं = उत्फालितं, निपानसलिलं = आहावजलम्, गाहन्ताम् = आलोदयन्तु, निर्भयत्वाद् यथेच्छं क्रीडन्तु सदा प्रज्वलितस्य जठराग्नेः शान्तये महिषा जलावगाहनं कुर्वन्तीति प्रसिद्धिः। मृगकुलं = हरिणानां समूहः छायासु = अनातपेषु बद्धं = रचितं कदम्बकं मण्डलाकारेणाव- स्थानम् यत तत्—छायाबद्धकदम्बकं = आतपरहिते स्थाने बद्धयूथं मृगकुलं = हरिण- समूहः रोमन्थं चर्वितचर्वणं, उद्गलितशष्पादि-कवलचर्वणम्, अभ्यस्यतु = मुहुर्मुहुः करोतु, पूर्वं मृगयाप्रसङ्गे पलायनपरैः तैः विस्मृतो रोमन्थः इदानीं पुनरपि निःशङ्कं क्रियता- मित्यर्थः। वराहपतिभिः = सूकरश्रेष्ठैः विश्रब्धं = निःशङ्कं पल्वले = अल्पसरोवरे जल- गर्तेषु मुस्ताक्षतिः = मुस्ताख्यकन्दग्रहणाय तस्योत्खननं क्रियतां = विधीयताम्-वराहाः प्रायः कर्दमविशिष्टेऽल्पजले सरोवरे एव औष्ण्यमतिरेकाद्दिवसं यापयन्तीति प्रसिद्धिः। इदं = मृगयार्थमारोपितज्यम् अस्मद्धनुश्च मम चापं च शिथिलः = निरन्तरमाकर्षणात् शैथिल्यमा-


राजा—सेनापते! मैं आश्रम के पास में हूँ। अतः शिकार के समर्थक तुम्हारे वचनों का समर्थन नहीं कर सकता। आज तो—

वनैले भैंसे अपने सींगों से बार-बार जल का ताड़न करते हुए पास के जलाशयों में निर्भय होकर जलक्रीड़ा करें। हरिण वृक्षों की सघन छाया में बैठकर सुखपूर्वक रोमन्थ = जुगाली का अभ्यास करें। बड़े-बड़े जङ्गली सूअर छोटे-छोटे गड्डों में नागरमोथा की जड़ों को खोद-खोदकर खायें और प्रत्यञ्चा ढीला किया हुआ धनुष भी विश्राम करे। आज शिकार नहीं खेली जायेगी। अतः महिष, मृग, शूकर आदि जङ्गली जानवरों को निर्भय होकर स्वच्छन्द विचरण करने दिया जाय॥ ६॥

विशेष—इस पद्य के द्वारा बताया गया है कि मृगया से राजा दुष्यन्त को विरत हो जाने के कारण शोर, भगदड़, प्रहार आदि का भय न होने से पशु, सूअर, मृग, भैंस आदि स्वतन्त्रता- पूर्वक विहार करें।


पाठा०—१. भद्रसेन। २. विस्रब्धैः।

९२ अभिज्ञानशाकुन्तलम्

सेनापतिः— ^१यत्प्रभविष्णवे रोचते।

**राजा—**तेन हि निवर्तय पूर्वगतान् ^२वनग्राहिणः। यथा न मे सैनिकास्तपोवनं- मुपरुन्धन्ति तथा निषेद्धव्याः। पश्य—

शमप्रधानेषु ^४तपोधनेषु गूढं हि दाहात्मकमस्ति तेजः। स्पर्शानुकूला इव सूर्यकान्तास्तदन्यतेजोऽभिभवाद् वमन्ति ॥ ७॥

पन्न्रः ज्याबन्धः = मौर्वीबन्धः यस्य तत् शिथिलज्याबन्धं = सत् विश्रामं = विश्रान्तिं लभताम् = प्राप्नोतु सद्यः संह्रियतां मृगयेत्यर्थः ॥ ६ ॥

प्राक् मृगयाप्रसङ्गेन वनकोलाहलेन विक्षुब्धा महिषा जलाशयेषु विषाणैः जलोत्फाल-नात् दंशादीन् निवारयन्तो निःशङ्कं जले क्रीडां कुर्वन्तु। मदीयरशरपातशङ्कया उत्प्लुत्यो-त्प्लुत्य पलायमानाः मृगाः छायाशीतलेषु तरुतलेषु निर्भयमवस्थिताः रोमन्थं कुर्वन्तु, सुकरा अपि खातजलेषु अवगाहमवगाहं मुस्तमूलखनने प्रवर्तन्ताम्, चिरमारोपितमौर्वीकमस्मदीयं धनुरपि गुणावरोपणात् विश्रामं लभतामित्येवमादिदेश राजा दुष्यन्त इति भावः।

केचित्तु महिषाश्च महिष्यश्च मृगाश्च मृग्यश्च महिषादिद्वन्द्वपरतया मुस्ता-विश्रान्ति-ज्यानां च स्त्रीलिङ्गनिर्देशानां नायिकात्वारोपेण क्षतौ च दन्तक्षतत्वारोपेण बन्धपदेन च सुरतकरणत्वारोपेण च बन्धशब्दस्य स्नेहवाचकत्या सुरतान्तमौर्वीरूपनायिकाप्रणय-त्वेन नायकनायिकामिथुनव्यापारसूचकत्याऽमुं पद्यं व्याख्यान्ति। व्याख्येयं विदुषां सहृदयानां हृदयाह्लादकत्वेऽप्यन्तेवसतामनुपयोगित्वान्नान्यद्विचायंते।

अत्रातिशयोक्तिस्वभावोक्तिवृत्तिश्रुत्यनुप्रासक्रियासमुच्चयप्रस्तुताङ्कुरकाव्यलिङ्गालङ्काराः वृत्तं च शार्दूलविक्रीडितम् ॥ ६ ॥

**सेनापतिः—**अथ मृगयानिवृत्तिमिच्छन्नपि सेनापतिः राज्ञाज्ञायामेव तद्धेतुतां दर्श-यिष्यन्नाह—प्रभविष्णवे = प्रभुता शक्तिसम्पन्नाय महाराजाय यद्रोचते = रुचिकरं स्यात्तत्तथेवेति भावः।

**राजा—**तेन = तस्मात् कारणात् हि = निश्चयेन पूर्वगतान् = वनग्रहणार्थं मदाज्ञया पूर्वंप्रेषितान् वनग्राहिणः = वनशोधकान् निवर्तय = परावर्त्य आगमय। यथा = येन प्रकारेण न मे = मम सैनिकाः = भटाः तपोवनं = तपस्यारण्यम् न उपरुन्धन्ति = परि-पीयन्ति, तथा = तेन प्रकारेण निषेधव्याः = प्रतिषेधनीयाः। पश्य = अवलोकय।

**अन्वयः—**शमप्रधानेषु तपोवनेषु दाहात्मकं तेजः गूढम् अस्ति हि स्पर्शानुकूलाः अपि सूर्यकान्ताः इव अन्यतेजोऽभिभवात् तत् ते वमन्ति।

तपोपरोधनषेधे कारणं कथयन् राजा दुष्यन्त आह—शमेति। शमः = शान्तिः एव


**सेनापति—**जैसी महाराज की इच्छा, वही ठीक है।

**राजा—**तो फिर शिकार की खोज में आगे बढ़े हुए धनुर्धरों को वापस बुला लो और हमारे सैनिक इस आश्रम से दूर ही रहें—ऐसा मेरा आदेश सभी सिपाहियों को सुना दो, क्योंकि देखो—

शान्ति प्रधान तपोवनों के ऋषियों के अन्दर गूढ़रूप से दाहात्मक तेज = अग्नि छिपा रहता है। वे स्पर्शयोग्य सूर्यकान्तमणि की तरह दूसरे के तेज के प्रभाव से जल उठते हैं। अतः ये तपोवन-वासी ऋषिगण भी दूसरे के द्वारा अभिभूत होने से उसे जलाकर खाक कर सकते हैं ॥ ७॥


**पाठा०—**१. यथा प्रभविष्णवे । २. धनुर्ग्राहिणः । ३. वनं नाभिरुन्धति दूरात्परिहरन्ति च। ४. तपोवनेषु ।

द्वितीयोऽङ्कः ९३

सेनापतिः—यदाज्ञापयति स्वामी।

विदूषकः—धसदु दे उच्चाहवुत्तंतो। [ ध्वंसतां त उत्साहवृत्तान्तः ]। ( निष्क्रान्तः सेनापतिः )।

राजा—( परिजनं विलोक्य ) अपनयन्तु भवत्यो मृगयावेशम्। रैवतक, त्वमपि स्वं नियोगमशून्यं कुरु।

परिजनः—जं देवो आणवेदि [ यद्देव आज्ञापयति । ] ( इति निष्क्रान्तः )


प्रधानं = मुख्यं वस्तु येषां ते तेषु शमप्रधानेषु शान्तेष्वपि अतएव तपः एव प्रधानं = वित्तं, जीवनसर्वस्वं येषां ते तेषु तपोधनेषु दाहात्मकं = दाहजनकं लक्षणया दाहस्वभावं शीघ्रकार्यकारिफलं तेजः = धाम गूढं = प्रच्छन्नं यथा स्यात्तथा अन्यजनैरदृश्यमित्यर्थः अस्ति। हि = यतः स्पर्शानुकूलाः = सुखकरस्पर्शा अपि सूर्यकान्ताः = सूर्यकान्तमणयः अन्यतेजोऽभिभवात् = अन्येषां तेजसामभिभवात् = समाक्रमणात् दहन्ति = अग्निं वमन्तः दाहसमर्था भवन्ति। बहिः = सुखकरा अपि जडाः सूर्यकान्तमणयोऽभिभवाद् यथा दहन्ति तथैव प्रायः शान्तान्यपि तपोवनानि पराभवादृद्दहन्तीत्येव। तेषामबुद्धिपूर्वकत्वात् प्रतीकारानर्हत्वं व्यङ्ग्यम्। मुनीनां शापायुधत्वे प्रमाणं यथा महाभारते—

‘मन्युप्रहरणा विप्रा न विप्रा शस्त्रपाणयः॥’

तथा च स्पर्शे सति शीतला अपि प्रतीयमानाः सूर्यकान्तमणयो यथा सूर्यतेजसा अन्तः-स्थितमग्निं बहिरुद्गिरन्ति तथा स्वभावतः शमप्रधाना ऋषयः परकृतबलात्कारेण संक्षुब्धहृदयाः स्वान्तःस्थितपरनिग्रहसामर्थ्यं सद्यः प्रकटय्य निगृह्णन्ति परानिति भावः।

अत्र श्रुत्यनुप्रास-श्लेषोपमा-अनुभाव-काव्यलिङ्गालङ्काराः छन्दश्चोपजातिः॥ ७ ॥

सेनापतिः—स्वामी = प्रभुः, महाराजः यत् = तथा आज्ञापयति = आदिशति।

विदूषकः—ते = तव उत्साहवृत्तान्तः = उत्साहस्य = मृगयारूपस्य वृत्तान्तः = चर्चेति उत्साहवृत्तान्तः ध्वंसतां = नश्यतु। विदूषकस्य स्वपक्षविजयसूचकः परिहासोऽयम्। ( सेनापतिः = सेनानीः निष्क्रान्तः = निर्गतः )

राजा—( परिजनं = भृत्यवर्गं विलोक्य = दृष्ट्वा ) अपनयन्तु = दूरीकुर्वन्तु भवत्यः = यूयम् मृगयावेशं आखेटकोपयोगि वेशं = परिधानम् रैवतक ! त्वमपि = एवं = स्वोपयोगि नियोगं = द्वारदेशरक्षणरूपं स्वाधिकारं कर्तव्यम्, अशून्यं = अरिक्तं, सम्पन्नं, पूर्णं कुरु = विधेहि, इतो बहिर्गच्छेति भावः।

परिजनः—देवः = स्वामी यत् = यथा आज्ञापयति = आदिशति तत् कुर्मः ( इति = एवं कथयित्वा निष्क्रान्तः = निर्गतः )


सेनापति—जैसी महाराज की आज्ञा।

विदूषक—अरे, व्यर्थ उत्साहपूर्वक ! जा निकल, यहाँ से शीघ्र जा। ( सेनापति निकल जाता है )

राजा—( अपने परिजनों की ओर देखकर ) आपलोग भी जाकर अपना-अपना शिकारी वेश दूर कीजिए। रैवतक ! तुम भो अपने पहरे पर जाओ, आवश्यकता होने पर तुम्हें बुला लेंगे ?

रैवतक—जैसी महाराज की आज्ञा ( निकल जाता है )

९४ | अभिज्ञानशाकुन्तलम्

विदूषकः—किदं भवदा णिम्मच्छिअं। संपदं एदस्सिं पादअच्छाइए विरइद-लदाविदाणदंसणीआए आसणे णिसीददु भवं, जाव, अहं वि सुहासोणो होमि [ कृतं भवता निर्मक्षिकम्। सांप्रतमेतस्यां पादपच्छायायां विरचितलतावितानदर्शनीयाया-मासने निषीदतु भवान् यावदहमपि सुखासीनो भवामि ] । राजा—गच्छाग्रतः। विदूषकः—एदु भवं [ एतु भवान् ] इत्युभौ परिक्रम्योपविष्टौ ) । राजा—माढव्य अनवाप्तचक्षुःफलोऽसि येन त्वया ^१दर्शनीयं न दृष्टम्।


विदूषकःकृतं = रचितम्। भवता = त्वया मक्षिकाणामभावो निर्मक्षिकं = सर्वेषा-मप्यपगमादत्यन्तं जनराहित्यम् साम्प्रतं = इदानीम्, एतस्याम् अस्यां पादपच्छायायां = पाद-पानां = वृक्षाणां छायायाम् अनातपे विरचिताः = कृताः, च ते लतावितानाः विरचितलता-वितानाः = तैः दर्शनीयाः = अवलोकनीया रमणीया तस्यां = विरचितलतावितानदर्शनी-यानां-वृक्षच्छायाकृतोल्लोचनमनोहारिणि आसने-भवान् त्वम्-निषीदतु = उपविशतु यावत् अहमपि अयमभिजनः सुखासनीः = सुखोपविष्टः आनन्दनिषण्णः स्वामि = कण्डितसन्धिरहं क्षणमपि उपवेशनं विना स्थातुं न शक्नोमि, तवोपवेशनेन विना ममोपवेशनमनुचितमिति त्वं शीघ्रमुपविशेति भावः। राजाअग्रतः = अग्रे अग्रे गच्छ = याहि = मागं प्रदर्शय तावत् कुञ्जशिलातलस्य। विदूषकःभवान् = त्वम् एतु = आगच्छतु इत्येवं भूते। ( उभौ = राजा विदूषकश्च परिक्रम्य = परितः किञ्चिद् गत्वा उपविष्टौ = विषण्णौ। ) राजा—अथ नर्मसचिवेन सह सुखासीनो राजा शकुन्तलामेव ध्यायन् अत्यन्तमुत्कण्ठितः तल्लाभोपायं चिन्तयन् तद्विषयिणीं वार्तां प्रस्तौति-माढव्य ! अनवाप्तचक्षुःफलोऽसि = न अवाप्तं = प्राप्तं चक्षुषोः = नेत्रयोः फलं = साफल्यं स अनवाप्तचक्षु फलः = अनधिगत-नयनसाफल्यः लोचनफलं न लब्धवानसीति भावः। येन त्वया दर्शनीयं = दर्शनयोग्यं, कान्तं वस्तु न दृष्टं = नावलोकितमतो लोचनसाफल्यं त्वया न लब्धमिति हृदयम्। इत आरभ्य नाटकस्य द्वितीयः प्रतिमुखसन्धिः प्रारभ्यते। स च तृतीयाङ्कपर्यन्तं गमिष्यति। तल्लक्षणं यथा रसार्णवे—

'बीजप्रकाशनं यत्र दृश्यादृश्यतया भवेत् । तत् स्यात् प्रतिमुखम्......॥'


विदूषक—आपने सबको हटाकर अब निर्मक्षिक = एकान्त बना दिया। अब आप वृक्षों की छाया से चन्दवे की तरह आच्छादित इस शिलातल पर बैठ जाइए, ताकि मैं भी यहाँ सुखपूर्वक बैठ सकूँ। राजा—अच्छा, तो तुम आगे-आगे चलो। विदूषक—आइए, आप मेरे पीछे-पीछे चले आइए। ( दोनों कुछ चलकर शिला खण्ड पर बैठते हैं ), राजा—सखे माढव्य ! तुमने द्रष्टव्य वस्तुओं में भी सबसे श्रेष्ठ उस वस्तु को नहीं देखा। अतः तुम्हारे नेत्र निष्फल ही हैं, क्योंकि नेत्रों का फल तो उस शकुन्तला के मुखदर्शन से ही हो सकता है।


पाठा०—१. द्रष्टव्यानां परं न दृष्टम्।

द्वितीयोऽङ्कः ९५

विदूषकः—णं भवं अग्गदो मे वट्टदि [ ननु भवानग्रतो मे वर्तते । ]
राजा—सर्वः खलु कान्तमात्मीयं पश्यति । तामाश्रमललामभूतां शकुन्तलामधिकृत्य ब्रवीमि ।
विदूषकः—( स्वगतम् ) होदु से अवसरं ण दाइस्सं । ( प्रकाशम् ) भो वअस्स ते तावसकण्णआ अब्भत्थणीआ दीसदि । [ भवतु अत्यावसरं न दास्ये । भो वयस्य ते तापसकन्यकाभ्यर्थनीया दृश्यते । ]


प्रकृते च मृगयागुणदोषवर्णनप्रसङ्गेन विच्छिन्नस्य प्रयोजनस्य अनवाप्तचक्षुःफलोऽसि इत्यादिना प्रवर्तनात् विन्दुरयम् । प्रयत्नलक्षणं यथा भारते—

‘अपश्यतः फलप्राप्तिं यो व्यापारफलं प्रति ।
परं चौत्सुक्यगमनं प्रयत्नः सः प्रकीर्तितः ॥’

यथात्र-राजा-‘तपस्विभिः परिज्ञातोऽस्मि केनापदेशेनाश्रमे व्रजामः’ इत्यादि। प्रयत्न एव । केचित्तु द्वितीयाङ्कप्रारम्भादेव प्रतिमुखं कथयन्ति ।

विदूषकः—ननु = दर्शनीयः भवानेव = त्वमेव अग्रतः = समक्षं वर्तते विद्यते । त्वत्तोऽधिकस्य सुन्दरस्य वस्तुनोऽभावान् दर्शनीयतमं त्वामेव दृष्ट्वाऽहमवाप्तचक्षुःफल एवास्मीति भावः ।

राजा—सर्वः = समस्तः खलु-निश्चयेन कान्तं = मनोरमं, दर्शनीयम् आत्मीयं = स्वं स्वकीयं जनं वा पश्यति = विलोकयति जानाति । तां = अनुभूतां प्रसिद्धां-आश्रमस्य = तपोवनस्य ललामभूतां=शोभामिति आश्रमललामभूतां = तपोवनालङ्कारभूताम् शकुन्तलां= कण्वकन्याम् अधिकृत्य = विषयीकृत्यैव ब्रवीमि = वदामि । शकुन्तलैव द्रष्टव्यानां परमुत्कृष्टं दर्शनीयेति ममाभिप्राय इत्यर्थः ।

विदूषकः—( स्वगतं = मनसि ) भवतु = तथा एव स्यात्, अस्य = दुष्यन्तस्य यद्वा प्रस्तुतस्य रागानुप्रवेशस्य अवसरं = अवकाशं, चर्चाम् न दास्ये = नोपस्थापयामि नगरगमनादिविघ्नकरणेन अङ्कुरावस्थमेवैनमनुरागमुच्छेत्सयामीति भावः ( प्रकाशं = स्पष्टम् ) धर्मलोपभयेन भीषयन्नित्याह--भो वयस्य ! = हे मित्र ! ते = तव तापसकन्यका = मुनिकुमारिका अभ्यर्थनीया = विवाहार्थं प्रार्थनीया । दृश्यते=प्रतीयते । अनुचितोऽयमभिलाषः सर्वथा परित्याज्यः त्वया इति भावः ।


विदूषक—द्रष्टव्य पदार्थों में सबसे श्रेष्ठ तो आप ही मेरे सामने बैठे हैं । अब इससे क्या अधिक देखना बाकी रह गया हैं ।

राजा—अरे मित्र ! अपने को तो सभी लोग सुन्दर मानते हैं, पर मैं अपनी बात तो नहीं कह रहा हूँ, किन्तु इस आश्रम की प्रधान अलंकाररूप उस सुन्दरी शकुन्तला के विषय में ही यह बात कह रहा हूँ । उसको तुमने नहीं देखा है । यह तुम्हारे नेत्रों की निष्फलता ही है ।

विदूषक—( मन ही मन ) मुझे यहां ऐसा करना चाहिये कि मैं इस राजा की काम-वासना को अधिक उत्तेजन नहीं दूँ, यही अच्छा है । ( प्रगट में ) अरे, वयस्य ! जब उस तापस कन्या से हमें और तुम्हें कोई प्रयोजन ही नहीं है तब उसे देखने की भी क्या जरूरत है ? अर्थात् वह ब्राह्मणकन्या होने के कारण तुम्हारे विवाह के योग्य ही नहीं है । अतः उसकी चर्चा ही व्यर्थ है ।