अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
पृष्ठ 176, कुल 540 में से
संदर्भ में पढ़ें९४ | अभिज्ञानशाकुन्तलम्
विदूषकः—किदं भवदा णिम्मच्छिअं। संपदं एदस्सिं पादअच्छाइए विरइद-लदाविदाणदंसणीआए आसणे णिसीददु भवं, जाव, अहं वि सुहासोणो होमि [ कृतं भवता निर्मक्षिकम्। सांप्रतमेतस्यां पादपच्छायायां विरचितलतावितानदर्शनीयाया-मासने निषीदतु भवान् यावदहमपि सुखासीनो भवामि ] । राजा—गच्छाग्रतः। विदूषकः—एदु भवं [ एतु भवान् ] इत्युभौ परिक्रम्योपविष्टौ ) । राजा—माढव्य अनवाप्तचक्षुःफलोऽसि येन त्वया ^१दर्शनीयं न दृष्टम्।
विदूषकः—कृतं = रचितम्। भवता = त्वया मक्षिकाणामभावो निर्मक्षिकं = सर्वेषा-मप्यपगमादत्यन्तं जनराहित्यम् साम्प्रतं = इदानीम्, एतस्याम् अस्यां पादपच्छायायां = पाद-पानां = वृक्षाणां छायायाम् अनातपे विरचिताः = कृताः, च ते लतावितानाः विरचितलता-वितानाः = तैः दर्शनीयाः = अवलोकनीया रमणीया तस्यां = विरचितलतावितानदर्शनी-यानां-वृक्षच्छायाकृतोल्लोचनमनोहारिणि आसने-भवान् त्वम्-निषीदतु = उपविशतु यावत् अहमपि अयमभिजनः सुखासनीः = सुखोपविष्टः आनन्दनिषण्णः स्वामि = कण्डितसन्धिरहं क्षणमपि उपवेशनं विना स्थातुं न शक्नोमि, तवोपवेशनेन विना ममोपवेशनमनुचितमिति त्वं शीघ्रमुपविशेति भावः। राजा—अग्रतः = अग्रे अग्रे गच्छ = याहि = मागं प्रदर्शय तावत् कुञ्जशिलातलस्य। विदूषकः—भवान् = त्वम् एतु = आगच्छतु इत्येवं भूते। ( उभौ = राजा विदूषकश्च परिक्रम्य = परितः किञ्चिद् गत्वा उपविष्टौ = विषण्णौ। ) राजा—अथ नर्मसचिवेन सह सुखासीनो राजा शकुन्तलामेव ध्यायन् अत्यन्तमुत्कण्ठितः तल्लाभोपायं चिन्तयन् तद्विषयिणीं वार्तां प्रस्तौति-माढव्य ! अनवाप्तचक्षुःफलोऽसि = न अवाप्तं = प्राप्तं चक्षुषोः = नेत्रयोः फलं = साफल्यं स अनवाप्तचक्षु फलः = अनधिगत-नयनसाफल्यः लोचनफलं न लब्धवानसीति भावः। येन त्वया दर्शनीयं = दर्शनयोग्यं, कान्तं वस्तु न दृष्टं = नावलोकितमतो लोचनसाफल्यं त्वया न लब्धमिति हृदयम्। इत आरभ्य नाटकस्य द्वितीयः प्रतिमुखसन्धिः प्रारभ्यते। स च तृतीयाङ्कपर्यन्तं गमिष्यति। तल्लक्षणं यथा रसार्णवे—
'बीजप्रकाशनं यत्र दृश्यादृश्यतया भवेत् । तत् स्यात् प्रतिमुखम्......॥'
विदूषक—आपने सबको हटाकर अब निर्मक्षिक = एकान्त बना दिया। अब आप वृक्षों की छाया से चन्दवे की तरह आच्छादित इस शिलातल पर बैठ जाइए, ताकि मैं भी यहाँ सुखपूर्वक बैठ सकूँ। राजा—अच्छा, तो तुम आगे-आगे चलो। विदूषक—आइए, आप मेरे पीछे-पीछे चले आइए। ( दोनों कुछ चलकर शिला खण्ड पर बैठते हैं ), राजा—सखे माढव्य ! तुमने द्रष्टव्य वस्तुओं में भी सबसे श्रेष्ठ उस वस्तु को नहीं देखा। अतः तुम्हारे नेत्र निष्फल ही हैं, क्योंकि नेत्रों का फल तो उस शकुन्तला के मुखदर्शन से ही हो सकता है।
पाठा०—१. द्रष्टव्यानां परं न दृष्टम्।