अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
पृष्ठ 166, कुल 540 में से
संदर्भ में पढ़ें८४ अभिज्ञानशाकुन्तलम्
यत्सत्यं प्रत्यहं श्वापदसमुत्सारणैः संक्षोभितसन्धिबन्धानां मम गात्राणामनीशोऽस्मि संवृत्तः। तत्प्रसादयिष्यामि विसर्जितुं मामेकाहमेव तावद्विश्रमितुम् । ]
राजा—( स्वगतम् ) अयं चैवमाह—ममापि ^१काश्यपसुतामनुस्मृत्य ^२मृगया-विक्लवं चेतः। कुतः—
न नमयितुमधिज्यमस्मि शक्तो धनुरिदमाहितसायकं मृगेषु।
सहवसतिमुपेत्य यैः प्रियायाः कृत इव मुग्धविलोकितोपदेशः ॥ ३ ॥
प्रतिदिनम् श्वापदसमुत्सारणैः— श्वापदानां = व्याघ्रादिहिंस्रजन्तूनां समुत्सारणैः = अपसारणैः अनुगमनैर्वा संक्षोभितानि = सम्यक्चलितानि मृगयावसरे इतस्ततः पलायन-प्रशक्त्या व्यथितानि सन्धिबन्धनानि = अङ्गसंयोगस्थानबन्धनानि ऊरुमूलस्थानि येषां ते तेषां संक्षोभितसन्धिबन्धनां मम = मे गात्राणां = अङ्गानाम् अनीशः = अक्षमः संवृत्तः = जातः असक्तः अस्मि तत् = तस्मात् कारणात् प्रसादयिष्यामि = प्रार्थये, मां विसर्जयितुं एकाहं केवलमेकं दिनं विश्रमितुं - विश्रान्ति प्राप्तुं च मुक्तये त्वां प्रीणयिष्यामीति चाटुक्तिः।
राजा— नृपो दुष्यन्तः ( स्वगतम् = अप्रकाशम् ) अयं = एषश्व एवं = अनेन प्रकारेण आह = कथयति मम = मे अपि काश्यपसुता = काश्यपगोत्रोद्भवस्य महर्षेः कण्वस्य सुतां = पोष्यपुत्रीं शकुन्तलां अनुस्मृत्य = स्मृत्वा मृगयाविक्लवं = आखेटकविह्वलं मृगयाविषये शिथिलादरम् चेतः = मनः चेतसो मृगयाविषये शिथिलादरत्वमेव प्रपञ्चयति—कुत इति। कुतः = यतः ।
अन्वयः— अधिज्यम् आहितसायकं इदं धनुः मृगेषु नमयितुं न शक्तोऽस्मि यैः प्रियायाः सहवसतिम् उपेत्य मुग्धविलोकितोपदेशः कृत इव अस्मि ।
विदूषकोक्तिं निशम्य राजा दुष्यन्तो विचारयति—न नमयितुमिति । ज्यामधिगत-मधिज्यं = आरोपितमौर्वीकम्, आहितसायकं— आहतः सायको यस्मिन् तत् आहितसायकं = संयोजितबाणं, इदं धनुः = कोदण्डमेतत् मृगेषु = हरिणेषु नमयितुं = व्यापारयितुं न शक्तोऽस्मि = न समर्थोऽस्मि । यैः = मृगैः प्रियायाः = दयितायाः कण्वसुतायाः शकुन्तलायाः सहवसति = वने एकत्र वासं, सहवासम् सङ्गतिं वा उपेत्य = प्राप्य समधि-
ही है। परन्तु मैं तो ब्राह्मण हूँ, मेरे तो प्रतिदिन जँगली जानवरों के पीछे-पीछे दौड़ने से हाथ-पैर ढीले हो जाते हैं, अतः मेरे ऊपर दया कीजिए, कम से कम एक दिन तो शिकार बन्द कर विश्राम कर लीजिए और मुझे भी एक दिन विश्राम कर लेने दीजिए।
राजा—( मन ही मन ) यह विदूषक भी मृगया बन्द करने को कह रहा है, और मेरा मन भी मुनि-कन्या शकुन्तला को याद करते रहने के कारण शिकार के प्रति उदासीन हो रहा है, क्योंकि—
अपने इस बाण सन्धान किये हुए धनुष को मैं उन मृगों के ऊपर तानकर उन पर बाण को नहीं छोड़ सकूँगा, जिन मृगों ने मेरी प्रिया के साथ ही साथ वन में रह कर उसकी-सी नेत्र कान्ति पाई है ॥ ३ ॥
**विशेष—**शकुन्तला के समान ही इन मृगों की बड़ी-बड़ी आंखें हैं। इसलिए प्रियानुकूलकारिणी इन मृगों पर बाण छोड़ना उचित नहीं। शकुन्तला की संगति से ही इन मृगों की आँखें इस प्रकार
पाठा०—१. कण्वसुतामनुस्मृत्य । २. 'मृगयां प्रति निरुत्सुकं चेतः, तथा हि—'
३. लोचनकान्तिसंविभागः ।